काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 87, कुल 381 में से
संदर्भ में पढ़ें३२ काव्यमीमांसायाम्
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥"
5 अभ्यनुज्ञोपहासकाकू— "मथ्नामि कौरवशतं समरे न कोपा-
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥"
एवं त्रिचतुरकाकुयोगोऽपि। तत्र त्रियोगः—
10 “सेयं पश्यति नो कुरङ्गवधूस्त्रस्तैवमुद्वीक्षते
तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते
सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ॥"
चतुर्योगः— "उच्यतां स वचनीयमशेषं
15 नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा
विप्रियाणि जनयन्ननुनेयः ॥"
“सख्या वा नायिकाया वा सखीनायिकयोरथ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता ॥
20 पदवाक्यविदां मार्गो योऽन्यथैव व्यवस्थितः।
सत्त्वाङ्गाभिनयो(य)द्योत्या तं काकुः कुरुतेऽन्यथा ॥
अयं काकुकृतो लोके व्यवहारो न केवलम्।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता।
25 स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगडच्छायां काश्चिन्निषिञ्चति ॥