काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 89, कुल 381 में से
संदर्भ में पढ़ें३४ काव्यमीमांसायाम्
नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमलः ।
न मन्द्रो नातितारश्च पाठी(ठो) गौडेषु वाडवः ॥
रसः कोऽप्यस्तु काव्यस्तु रीतिः कोऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटष्टंकारोत्तरपाठिनः ॥
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वोऽपि द्रविडः कविः ॥
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥
सुराष्ट्रत्रावणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥
शारदायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णे गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ! ॥
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महत्यपि संस्कारे सानुनासिकपाठिनः ॥
मार्गानुगेन निनदेन निधुर्गुणानां
सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्डलभुवां सुभगः कवीनां
श्रोत्रे मधु क्षरति कश्चन काव्यपाठः ॥
ललल्कारया जिह्वं जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभव्यधियो न तु ॥
पञ्चस्थानसमुद्भववर्णेषु यथा स्वरूपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य ॥”
सकाकुकलना पाठप्रतिष्ठेयं प्रदर्शिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्यते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
सप्तमोऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥
१ B लटसं. २ A तिष्ठिता.