कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
[Header] देवयाज्ञिकभाष्यसमेतम् । ४६
माकाङ्क्षया गृह्यते । न त्वदृष्टप्रयोगिप्रयाजाद्यङ्गमदृष्टस्य साध्यस्याभावादिति चेत्,
न; यागस्य स्वतोऽपुरुषार्थत्वेनान्यथानुपपत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषा-
मभिमतस्य प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् ।
ननु चेत्सर्वेषामभिमतः स्वर्गः किमिति न कल्प्यते । तस्य शरीरारम्भ-
हेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिमतत्वात् । प्रत्यवायपरिहारस्तु तैरपीष्यत
एव । कथम् ? तस्मिन्पापे एतज्जन्मोपार्जिते भवान्तरोपार्जिते वावस्थिते सति
तदुपभोगहेतुभूतशरीरारम्भावश्यम्भावेन मोक्षाभावात् । अमोक्षार्थिनाप्यवश्यं
पापक्षय एषितव्य एव समीहितफलाय । इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः । तस्मा-
न्नित्यानि कर्माणि पापक्षयोपायत्वेन चोद्यमानानीतिकर्तव्यतामपेक्षन्त एव ।
धर्मशास्त्रेषु च तथैवाकरणे प्रत्यवायः स्मृतस्तथैव करणादपि पापक्षयः स्मर्यते
“पूर्वां सन्ध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति” इत्यादिभिः । “नित्यनैमित्तिकै-
रेव कुर्वाणो दुरितक्षयम्” इति च । तस्मान्नित्येऽपि अस्त्येव प्रत्यवायपरिहार-
रूपं फलम् । तस्मान्नित्यान्यपि कर्माणि सर्वाभिमतस्य तस्य पापक्षयस्योपायत्वेन
बोध्यमानानीतिकर्तव्यतामपेक्षन्त एव । ततश्च न सर्वाङ्गोपेतमनुष्ठानं कश्चिदपि
सर्वदा कर्तुं शक्नोति । जीवनादिनिमित्ते च तानि विधीयन्ते । निमित्तस्य चैत-
देव रूपं तस्मिन्सति नैमित्तिकमवश्यमेव कर्तव्यम् । तेन यावज्जीवं कर्तव्यं, सर्वा-
ङ्गोपेतं च कर्तव्यमिति दुःशकमेव । तेन यथाशक्नुयादित्युपनिबध्यते । तत्रावश्य-
मन्यतरस्मिन् हातव्ये निमित्ते सति नैमित्तिकस्य कर्तव्यं प्रधानवाक्ये श्रूयते ।
तद्यदि कस्यचिदङ्गस्यानुरोधेन, सति निमित्ते नैमित्तिकं न क्रियेत । ततः प्रधान-
वाक्यविरोधः स्यात् । प्रधानमात्रश्रुत्या निमित्ते विधीयते, अङ्गानि तु तदर्थतया
प्रकरणेन गृह्यन्ते, अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्युपसं-
हर्तव्यानि ।
नन्वेवं हीनाङ्गादपि प्रधानात्फलसिद्धेरभ्युपगमात्समर्थोऽप्यङ्गानि परित्य-
क्ष्यतीति । मैवम् । शक्तस्य कामतोऽङ्गे त्यज्यमाने वैगुण्यं स्यादेव । अङ्गोपदेशं
निमित्तं वा वाक्यानुरोधेन यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः
क्षापयतीति
. ४६ कात्यायनश्रौतसूत्रम् ।
ऽन्यश्च, तेषां स्वरूपेणवाधिकारिविशेषणत्वममावास्यासम्बन्धी द्रव्यवान्विद्या-
वानग्निमानिति । एतदुक्तं भवति । अङ्गं हि विधिवलादुपादीयते, निमित्तानुरोधा-
त्त्यज्यते । उभयथानुग्रहार्थं शक्तं प्रत्युपादीयते, अशक्तं प्रात त्यज्यत इति
नान्यागतिरस्ति । तत्रोभयानुग्रहो युक्तो यदि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु,
यथाशक्ति व्रीहीन्सम्पादयेत्, यथाशक्त्यवहन्द्यात्, इति । आहवनीयादिस्वरूपं
तु नानेन विधिनोपादीयते । तस्मादग्निमान्विद्यावान्द्रव्यवाञ्जीवँश्च यजेतेत्येवमा-
श्रियते । अतो विद्याग्निकालादिपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् ।
तथा चोक्तं तन्त्ररत्ने-तानि प्रयोगविधिना कर्तृरूपादेयत्वेनाङ्गानि चोद्यन्ते तेषा-
मेव
देवयाज्ञिकभाष्यसमेतम् । ४७
इत्यन्तेन ग्रन्थेन । तथा “तदेव यादृक् कीदृक् च हातव्यम् ” इति शाखान्तराच्च ।
तस्माद्विगुणेऽपि नित्ये प्रत्यवायपरिहाररूपं फलं भवत्येव । अत एवोक्तं कर्का-
चार्येण-उपात्तदुरितक्षयो वोत्पत्स्यमानदुरितप्रतिबन्धो वा भवत्येव ॥ २० ॥
अथ काम्ये कर्मणि चिन्त्यते-काम्ये विगुणे फलानिष्पत्तिर्भवत्येव,
यतस्तत्राप्यङ्गानि प्रधानानि च भिन्नानि । अश्वमेधे च काम्ये प्रायश्चित्तविधानम-
प्यस्त्यश्वं प्रकृत्य “अथातः प्रायश्चित्तीनां यद्यश्वो व उ वाऽस्कन्देद्वायव्यं पयोन्नु-
निर्वपेदथ यदि क्षामो१ विन्देत् ” इत्यादि । तथा पञ्चशारदीय उत्सृष्टानपशून्
प्रकृत्य ताण्ड्ये प्रायश्चित्तविधानं दृश्यते “अपो नप्तृत्रियोऽप्सु मृतः” इत्यादिकम् ।
यदि च विगुणादपि काम्यात्फलं न स्यात्प्रायश्चित्तविधानं व्यर्थमेव स्यात् ।
तथाच दृष्टम्, विगुणमपि काम्यं फलोत्पादकं वेदे दृष्टम् । कारीरीमिष्टिं प्रकृत्य
श्रूयते “यदि वर्षेत्तावत्येव जुहुयात् ” इति । अत्र समाप्तायामेव कारीर्यां तत्फलं
वृष्टिरूपं वेदे दृष्टम् । अतो विगुणेऽपि काम्ये फलं सिद्ध्यतीति पूर्वपक्षिते
सिद्धान्तमाह-
( काम्यं कर्म सगुणमेवानुष्ठेयम् )
न श्रुतिलक्षणत्वात् ॥ १ । २ । २१ ॥
यदुक्तं विगुणेऽपि काम्ये फलं सिद्ध्यतीति, तन्न; कुतः श्रुतिलक्षणा
काम्यस्य । यतः काम्यं सगुणमेव सर्वाङ्गोपेतमेव श्रुत्या लक्षितं साधनत्वेन विहि-
तम् । तत्रालोपे काम्यमानफलोत्पत्तेः । तत्र प्रधानस्य त्यागे यथाश्रुतं फलं
नास्ति । एवमङ्गत्यागेऽपि । फलसाधनत्वं हि शास्त्रैकसमधिगम्यम् । ततो यदङ्गं
प्रधानं वा यावच्छब्दोपात्तम् । तस्य लोपे साधनत्वं नास्ति । अता यदा सर्वा-
ङ्गोपेतं सम्पादयितुं शक्नोति, तदैव प्रवर्तते, नतु यथाशक्ति । न हि तत्राङ्गत्यागे
प्रमाणमस्ति । प्रधानवाक्यसन्त्यागेऽप्यविरोधात् । न हि तस्यावश्यकत्वं केनचि-
दुक्तम् । यतस्तदावश्यकत्वं न लभ्यते । कामश्रुतिस्तु समर्थेऽपि वर्तमाना श्रुत्यर्थतां
न जहातीति नाङ्गत्यागे प्रभवति । निमित्तश्रुतिस्तु निमित्ते सत्यक्रियमाणेऽपी-
त्येतदतिवैषम्यम् । अतो निमित्ते सति नित्यस्यावश्यकर्तव्यत्वबलात्सर्वदा
सर्वाङ्गोपेतस्य केनापि कर्तुमशक्यत्वाद्यथाशक्नुयात्तथाकुर्यादित्येवं कल्प्यते ।
१ क्षामो नासारोगः ।
काम्यं त्ववश्यकर्त्तव्यत्वाभावादेवं कल्पयितुं न शक्यते । अतः काम्यं विगुणं
फलं न साधयतीत्येवं सिद्धम् ॥ २१ ॥
ननु यद्येवं तर्हि काम्य एवाश्वमेधपञ्चशारदीयादौ किमर्थं प्रायश्चित्तविधा-
नमित्याशङ्कायामाह—
प्रायश्चित्तं तत्कालम् ॥ १ । २ । २२ ॥
आरब्धं हि काम्यम् , अयथाकरणादिना विगुणमपि समापनीयमेव ।
असमापने शिष्टविगर्हणरूपाच्छिष्टाचारात्स्मृतिं, स्मृतेश्च श्रुतिं परिकल्प्यावश्यं
समापनीयमेव । विगुणाच्च यद्यपि श्रुतं फलं न भवति, तथापि तादृशात्प्रत्यवा-
यपरिहारो भवत्येव । अत एव तत्कालं तस्य काम्यस्य कर्मणो विनाशकाले
यथा प्रायश्चित्तं तत्तस्य विनष्टस्य कर्मणः प्रत्यवायपरिहारजनने उपकारकत्वा-
त्स्वार्थमेव भवति ॥ २२ ॥
न हि भवति प्रायश्चित्तविधानमर्थवत् । विगुणायामपि कारीर्यां वृष्टिरूप-
फलदर्शनस्य का गतिरित्याकाङ्क्षायामाह—
दृष्टे तत्परिमाणम् ॥ १ । २ । २३ ॥
कृतार्थायामिष्टौ, वर्षणे दृष्टे सति तत्परिमाणकर्म कर्तव्यम्, तत्परिमाण-
महष्ट वर्षणे क्रियते । ननु दृष्टौ दृष्टायां किमप्यूनं, कृतार्थं वा परित्याज्यमिति ।
न च वर्षणं तस्या इष्टेः फलम् । किन्तु कालस्वभावप्रतिबन्धकापगमाच्च । काम्यस्य
कर्मणो वातायां फलेच्छायामवाप्ते वा फलेऽवश्यसमापनीयत्वं च जैमिनिनोक्तं
षष्ठाध्यायस्य द्वितीये चरणे " प्रक्रमात्तु नियमेतारम्भस्य क्रियानिमित्तत्वात् "
( ६–२–१३ ) इति ।
अथवा, एवं व्याख्या—वर्षणे दृष्टे सति तत्परिमाणमेव कर्तव्यं यावत्परि-
माणे कृते वृष्टिर्दृष्टा तावत्परिमाणमेव कार्यं न समापनीयमित्यर्थः । " यदि वर्षे-
त्तावत्येव जुहुयात् " इति वचनात् । तथाचोक्तं कर्काचार्यैः " तावत्प्रमाणता
कर्मण उच्यते " इति ॥ २३ ॥
॥ इति द्वितीया कण्डिका ॥
देवयाज्ञिकभाष्यसमेतम् । ४९
वाक्यप्रकरणाभ्यामङ्गविनियोग उक्तः । अधुना लिङ्गेन मन्त्राणां विनि-
योगं वक्तुकामोऽध्येतृप्रसिद्धाँस्तान्मन्त्रानाह—
( * मन्त्रलक्षणम् )
ऋचो यजूँषि सामानि निगदा मन्त्राः ॥ १३।१ ॥
ऋगादयो निगदान्ताश्चत्वारो मन्त्राः+ । तत्रार्थवशेन वृत्तवशेन वा यत्र
पादव्यवस्था सा ऋक् । तत्र “ समिधाग्निं दुवस्यत ” ( ३-१ ) इत्यादौ यत्र
प्रत्यक्षेण समाप्तोऽर्थो दृश्यते, तत्रार्थवशेन पादव्यवस्था, यत्र च क्रियापदानुपा-
दानात् “ सुसमिद्धाय शोचिषे ” [३-२] “ तं त्वा समिद्भिरङ्गिरः ” (३-३)
इत्यादौ अपर्यवसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति । अतश्च यत्र निय-
ताक्षराणि, नियताश्च पादाः, नियतानि चावसानानि, सा ऋगित्युच्यते ।
अनियताक्षरपादावसानं यजुः ।
यद्यपि प्रगीतं मन्त्रवाक्यं सामेत्यभियुक्तप्रयोगः, तथापि तत्र विशेषणं
गीतिः, विशेष्याण्यृगक्षराणि, ‘ नागृहीतविशेषणा विशेष्ये बुद्धिः ’ इति प्रथम-
प्रतीयमानत्वाद्रीतिरेव सामेत्युच्यते । तथाच “ कवतीषु रथन्तरं गायति ”
“ यद्योन्यां तदुत्तरयोर्गायति ” ऋच्यध्यूढं साम गायति ” प्रजापतेर्हृदयमन्वृचं
गायति ” इत्याद्युपपन्नं भवति । अत ऋगक्षरातिरिक्तं यद्गीतिशब्दवाच्यं तत्सा-
मशब्देनोच्यते ।
ननु यदि रथन्तरादिशब्दा गीतेरेव वाचकास्तदा “ रथन्तरेण स्तुवीत ”
इति कथं स्तुतिसाधनत्वम् । गुणगुणिसम्बन्धकीर्तनं हि स्तुतिः, सा च गीति-
रूपेण साम्ना न सम्भवति ।
उच्यते, गीतेः स्वयं स्तुतिवाचकत्वाभावादृगक्षरप्रकटनद्वारा स्तुतिसाध-
नत्वं भवतीति नोक्तदोषः ।
- ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं
यान्ति विपश्चितः । +ऋग्यजुःसामान्यतमत्वं मन्त्रत्वम् । कर्मणि यागजपादौ यः
साधनभूतः शब्दः स मन्त्रः । कर्मकरणः शब्दो मन्त्र इत्युक्तं भवतीति श्रीवल्लभाचार्य-
चरणा भावार्थपादभाष्ये प्राहुः । नच ईशावास्यादिषूपासनसाधनत्वमिति पुरुषोत्तममहा-
राजोक्तमव्याप्तमिति वाच्यम्। ईशावास्यमित्यादिशब्दानामीशोपासनसाधनत्वान्नव्यभिचारात् ।
एतेन वाचःस्तोमादिपर्यन्तमभिधावनमप्रयोजकमिति बोध्यम् ।
५० कात्यायनश्रौतसूत्रम् ।
निगदाः प्रैषाः। परसम्बोधनार्थाः प्रोक्षणीरासादयाग्नीद् “अग्नीन् विहर”
इत्येवमादयः ॥ १ ॥
ननु निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः ?
उच्यते, ‘उपांशु यजुषा’ ‘उच्चैर्निगदेन’ इति धर्मभेदेन यजुःष्वन्त-
र्भावशङ्कया पृथग्वचनम् । वस्तुतस्तु निगदानां यजुष्ट्वमेव । परसम्बोधनार्थत्वात्तु
‘उच्चैर्निगदेन’ इति धर्मभेदः । न च धर्मभेदाद्भेदः, ऋक्सामयोरपि क्वचिदु-
पांशुप्रयोगविधानात् । अतस्त्रैविध्यमेव मन्त्राणाम् । तथा चोक्तम्- “अहे बुध्निय
मन्त्रं मे गोपाय । यमृषयस्त्रयीविदो विदुः । ऋचः सामानि यजूंषि ” इति ।
त्रीन् वेदान् विन्दन्तीति त्रिविदः, त्रिविदां सम्बन्धिनोऽध्येतारस्त्रैविदाः, ते च
यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुस्तं गोपायेति योजना । ऋग्यजुःसामात्मको
मन्त्रभेदोऽभिहितः । तदवान्तरभेदाकाङ्क्षायामृचां च साम्नां चाध्येतृप्रसिद्धचैव
भेदे सिद्धे लक्षणं न क्रियते । यजुषां तु संश्लिष्टपठित्वाल्लक्षणं विना भेदो न
ज्ञायत इत्यत आह—
( यजुषां लक्षणम् )
तेषां वाक्यं निराकाङ्क्षम् ॥१।३।२॥
तेषामिति तच्छब्देन यजुषां निर्देशः, ऋचां साम्नां च भेदे लक्षणापेक्षा-
भावात् ।
ननु यजुषामपि भिन्नप्रतीकविनियोगाद् भेदः सेत्स्यति । सत्यम् । न ता-
वत्सर्वेषां ब्राह्मणेन विनियोगोऽस्ति । न च “परादिना पूर्वान्तः” ( १।३।९)
इत्येतल्लक्षणं वेदवचनं न्यायेन तु सूत्रकृतेदमुक्तमिति, अतो लक्षणमुच्यते । तेषां
यजुषां संश्लिष्टपठितानां मध्ये यावत्पदवृन्दं निराकाङ्क्षं पूर्वापरपठित
देवयाज्ञिकभाष्यसमेतम् । ५१
साकाङ्क्षाणि च, तस्मादेषामेत्र यजुष्ट्वम् । एवं सर्वत्र पुरस्तात्परस्ताच्चैकार्थपद-
-परिग्रहेणासमर्थपदविमोकेन भिन्नानि यजूंषि कल्प्यन्ते । एकप्रयोजनं साकाङ्क्षं
पदजातमेकं यजुरित्युक्तम् । अनेन लक्षणेन यत्र समवेतार्थप्रकाशकं गृह्णामीत्या-
-दिकं पदमस्ति तत्रैतत्सुगमं परिमाणम् । अथ यत्र समवेतार्थपदाभावाल्लैङ्गिकवि-
-नियोगाभावे वाचनिक एक विनियोगः परस्परनैराकाङ्क्ष्यं च स्वरूपतोऽवगम्यते ।
यथा “ इषे त्वोर्जे त्वा ” (१-१) इति यथा च “ आयुर्यज्ञेन कल्पतां प्राणो
यज्ञेन कल्पतां (९-२१, १८-२९) इति । तत्र किं यदेकं यजुरिति चिन्त्यते ।
किं प्राग्दृष्टार्थमन्त्रावधेरेकमन्त्रत्वम् , उत यावदेव मिथः सम्बन्धः “ इषे त्वा ”
इति तावदेकं यजुः, अन्यत्तु यजुरन्तरमिति, तदर्थं किं सर्वमेकार्थमुत भिन्नार्थ-
-मिति विचारः । तत्र तावदनुष्ठेयार्थप्रकाशनादेषामदृष्टार्थत्वम् । अदृष्टं चात्र क-
-ल्प्यमानमेकमेव कल्प्यम् , बह्वदृष्टकल्पनाया निष्प्रामाणिकत्वात्, अतः सर्वेषामे-
-कार्थत्वात्प्रत्येकं साधनशक्त्यभावात्संहत्यकारित्वात् विभज्यमानानां साकाङ्क्ष-
-त्वमस्तीत्येकवाक्यता । कथं पुनरेकत्वपक्षे प्रतीकभेदेन विनियोगः, इषे त्वेति
शाखां छिनत्ति ‘ ‘ ऊर्जे त्वेत्यनुमार्ष्टि ’ इति, कथं च ‘ कॢप्तीर्वाचयति ’ इति
बहुत्वनिर्देशः ?
उच्यते, आदिमध्यावसानग्रहणेनैकोऽपि मन्त्रस्तत्र तत्र विनियुज्यमानो
न पीड्येत यावद्विनियोगं सकल आवर्त्तिष्येत, खण्डस्याप्रयोजनत्वात् । कल्पतां
कल्पतामिति च पुनः पुनः प्रयोगादेकवाक्यत्वेऽपि बहुवचनाविरोधः । तस्मादे-
-तेषामेकार्थत्वमेकमन्त्रत्वं चेति प्राप्तं आह—
( मन्त्रेष्वध्याहारोऽनुषङ्गो वा कार्यः )
मिथः सम्बद्धम् ॥ १।३।३ ॥
यावदेव मिथः सम्बद्धं परस्परसम्बद्धमन्वययुक्तम् ‘ इषेत्वा ’ इत्येतावत्
तावदेकं यजुः, एकं वाक्यम्, ततोऽन्यद् वाक्यान्तरं यजुरन्तरमिति । यद्यपि
एषां समवेतार्थप्रकाशकपदार्थत्वाददृष्टार्थत्वम् , तथापि न तस्यादृष्टस्यैकत्वम् , यतो
विनियोगप्रयोजने रूपादुत्तरकाले । नहि विनियोगप्रयोजनोत्तरकालं रूपनिरू-
-पणं युक्तम्, अज्ञातरूपस्य विनियोगाशक्तेः, अविनियुक्तस्य च प्रयोजनकल्पना-
-नुपपत्तेः । रूपं तु निरपेक्षं पाठादवधार्यते । तत्कालावधृतभेदानुवर्त्तित्वं च प्रयो-
-जनविनियोगयोः । प्रमाणवन्ताश्च बहून्यदृष्टानि कल्प्यन्ते, प्रत्यक्षवचनप्रमाणव-
सातव्यम्->सर्वथात्रैवमध्यवसातव्यम्! There is NO वै! It is just त्रैthenवthenम! Ah! What a relief. सर्वथात्रैवमध्यवसातव्यम्`.
Now let's re-examine first word:
कैश्चित्कथञ्चिदुदाहृतम्
Let's look at the first word of :
Is it कैश्चित्कथञ्चिदुदाहृतम्?
In the image:
कै then broken ि then श्चत् = कैश्चित्!
Wait, look at how it looks: क has ै above it, but slightly shifted to the right, or is it कौ?
Wait, if it's कैश्चित्, usually it's spelled कैश्चित्. The word in Sanskrit is कैश्चित् ("by some [teachers]").
"सूत्रकारैः कैश्चित्कथञ्चिदुदाहृतम् ।"
Yes!! "सूत्रकारैः कैश्चित् कथञ्चित् उदाहृतम् ।"
"कैश्चित्" is the instrumental plural of "किञ्चित्" / "कश्चित्"! "कैश्चित् सूत्रकारैः" matches perfectly!
So the text intended is 100% `कैश्चित्कथ
उच्यते, वेदेनैवापेक्षितरूपे वाक्यशेषे समर्पिते निष्प्रमाणलौकिकशेषकल्पनं
न युज्यते । तस्माद्वैदिक एव ' निर्भक्तः ' इत्यादिः शेषः ' अस्मादन्नाद् '
इत्यत्रानुषञ्जनीयः ' अस्यै प्रतिष्ठायै ' इत्यत्र च ।
नन्वध्याहारानुषङ्गयोः को विशेषः ? उच्यते, अध्याहारो लौकिकः,
अनुषङ्गस्तु वैदिक इति । प्रयोजनमेतच्चिन्तायाः अध्याहारविनाशे स्मार्तं प्राय-
श्चित्तम्, अनुषङ्गविनाशे तु श्रौतमिति ।
एवमूहप्रवरनाम्नां लौकिकत्वं न मन्त्रत्वम् । " सन्ते वातेन गच्छताम् "
(६-१०) इत्यत्र गच्छतामित्येतत्पदमेकवचनान्तत्वात्समग्राङ्गानि यजत्रैरित्यत्रा-
न्वेतुमयोग्यत्वान्नानुषज्यते, तद्व्यवधायेन बुद्धिसन्निध्यभावाच्च " सं यज्ञपति-
राशिषा " इत्यत्रापि नानुषज्यते । तेनानयोर्गच्छन्तां गच्छतामित्याध्या
५४ | कात्यायनश्रौतसूत्रम् ।
इत्यनयो 'र्यज्ञमारभे' इति, “ वातात् ” ( ४-६ ) इत्यस्यां यज्ञमिति, “ त्वे
रायः ” ( ४-२२ ) सन्तु “ मे रायः ” ( ४-२२ ) सन्त्विति, “प्रजाभ्यः”
( ४-२५ ) बध्नामीति । हविर्धाने स्थूणानिखनने विप्लवे “ त्वा ” ( ५-१८ )
हन्मीति, ' तन्नो सहास्तु ' ( ८-५-१८ ) ' तन्मेऽस्त्विति ' च ( ८-७-२१ )
स्तुत्याम् । सोममाने “ इन्द्राय त्वा ” ( ६-३२ ) इति पञ्चसु ' मिये ' इति ।
“ देवेभ्यस्त्वा मरीचिपेभ्यः ” ( ३-७ ) ' उपमार्ज्मि ' इति । ग्रहसादनम-
न्त्रेषु “ प्राणायत्वा ” ( ७-३३ ) इत्यादिषु साकाङ्क्षेषु सर्वत्र सादयामि '
इति, ग्रहग्रहणमन्त्रेषु च सर्वेषु साकाङ्क्षेषु ' गृह्णामि ' इति, उपांश्वन्तर्यामा-
ग्रयणोक्थ्यध्रुववर्जम् ( ७-१, ७-४, ७-२०, ७-२२, ७-२५ ) शुक्रामन्थि-
सादने ' सादयामि ' इत्यस्याभावः ( ७-१२, ७-१६ ) । महावीरसम्भरणे
पिण्डादेः आदाने “ मखाय त्वा शीर्ष्णे ” ( ३७-३ ) ' आददे ' इति
' परिगृह्णामि ' इति वा, सम्भाराभिमर्शने “ मखाय त्वा मखस्य त्वा शीर्ष्णे ”
( ३७-४ ) अभिमृशामि, निधाने ( ३७-४, ७ ) ' निदधामि ' इति, संसर्गे
( ३७-७ ) ' संसृजामि ' इति, करणे ( ३७-७ ) ' करोमि ' इति, अन्ति-
माभिमर्शने ( ३७-७ ) ' अभिमृशामि ' इति, श्लक्ष्णने ( ३७-८ )
' श्लक्ष्णयामि ' इति, प्रदहने ( ३७-९ ) ' प्रदहामि ' इति, “ ऋजवे त्वा ”
( ३७-१९ ' उद्धृपामि ' इति, अजापयोऽवसेके ( ३७-१० ) ' अवसि-
ञ्चामि ' इति, “ यमाय त्वा ” ( ३७-११ ) इत्यादिषु ' प्रोक्ष्यामि ' इति,
“ मधु मधु मधु ” ( ३७-१३ ) ' आधुनोमि ' ' उपवाजयामि ' इति वा ।
चयने प्राणभृच्छन्दस्याविराजामुपधानमन्त्रेषु (१३-५४, १४-१८, १५-४) मया
' उपधीयते ' इत्यध्याहारः । प्राणभृत्सु पञ्चस्वपि कण्डिकासु ( १३-५४, ५५
५६, ५७, ५८ ) दशमे-दशमे मन्त्राऽध्याहाराभावः ' गृह्णामि ' इत्यनेन निरा-
काङ्क्षत्वात् ; “ आशुस्त्रिवृत् ” इति कण्डिकापठितेषु “ धर्मे चतुष्टोमः ”
इत्यन्तेषु च ( १४-२३ ) ' मया उपधीयते ' इति; वालखिल्यासु च “आयुषे
त्वा ” ( १४-२१ ) इत्यादिषु ' त्वान्तेषु ' अष्टासु मन्त्रेषु ' उपधामि ' इति;
“ यन्त्रीराड् ” (१४-२२ ) इत्यत्र ' असि ' इति “ मूर्द्धासि राड् ”
( १४-२१ ) इत्यत्र ' असि ' इति दर्शनात् अस्याप्यनेन समानार्थत्वात्,
पशुशिरसि नासिकयोश्चक्षुषोश्च हिरण्यशकलप्रासने 'प्रास्यामि' इत्यध्याहारश्चतुर्षु
मन्त्रेषु “ ऋचे त्वा ” (१३-३९ ) 'प्रास्यामि' इत्यादि, “अग्निर्ज्योतिषा ”
(१३-४० ) इत्यस्यां 'अस्तु' इति, पशुशिरस उद्धरणे सहस्राय त्वा
-१३-१३)->(४-१३-१३) ॥ ४ ॥`
Let's check line 18:
त्, यतस्तमेवार्थं वक्तुं शक्नोति नार्थान्तरम् । यथा “उरुप्रथा उरुप्रथस्वेति”
Wait, the quote:
“उरुप्रथा उरुप्रथस्वेति” or “ उरुप्रथा उरुप्रथस्वेति ”?
There is a space: “ उरुप्रथा उरुप्रथस्वेति ” or without space? There's a space after “.
Line 19:
( १-२२ ) अयं प्रथनमेवाभिधातुं समर्थः, अतस्तत्रैव विनियुज्यते ।
Line 2:
( १३-४० ) ' उद्गृह्णामि ' इति, हिरण्यशकलप्रोक्षणे पञ्चमे मन्त्रे ' सहस्राय
Line 3:
त्वा प्रोक्षामि ' इति, “अश्मन्” ( १७-१ ) ' ते क्षुदस्तु ', “ मयि ते ”
Line 4:
' ऊर्गस्तु ' इति । वाजपेये, ऐन्द्रेषु ग्रहेषु ( ९-२, ९-४ ) ग्रहणे नाध्याहारः,
Line 5:
`अन्येषु सर्वेष्वपि ग्रहणे सादने च ' गृह्णाम
५६ कात्यायनश्रौतसूत्रम् ।
अनियमं वात्स्यः ॥ १ । ३ । ६ ॥
वात्स्य आचार्यो मन्त्रप्रयोगस्य कालानियमं ब्रवीति । पूर्वं क्रियमाणे
कृते वा कर्मणि मन्त्रः पठितव्य इति । मन्त्रस्य कर्माभिधायकत्वमेवमपि
भवत्येव ॥ ६ ॥
सिद्धान्तमाह—
आदिं त्वाचार्याः ॥ १ । ३ । ७ ॥
तुशब्दो वात्स्यमतनिरासार्थः । आचार्याः सर्वेऽपि मुनयः कर्मण आदि-
मेव मन्त्रान्तैः सह योजयन्ति, नानियमः । यतो मन्त्रेण स्मृतं कर्म कर्त्तव्यम् ।
तदुक्तम्—
╳अनुष्ठाने पदार्थानामवश्यम्भाविनी स्मृतिः ।
अनन्यसाधनानन्यकार्यैर्मन्त्रैः प्रसाध्यते ॥
नतावदनुष्ठानवेलायामस्मृतः कश्चिदपि पदार्थः शक्यः कर्तुमित्यवश्यम्भा-
विन्या स्मृत्या योग्यसाधनमात्रापेक्षणाद्यत्किञ्चिद् ब्राह्मणपदार्थानुसन्धानं वा
पूर्वपदार्थप्रत्यवेक्षणं वा सूत्रग्रन्थो वा आत्मीयग्रहणैकवाक्यानि वोपद्रष्टा वा
साधनं ग्रहीतुमारभते ।
तत्रानन्यप्रयोजनात्प्रकरणे पठ्यमानान्नान्यत्किमप्येभिः कर्त्तव्यमित्येवं
प्रयोगवचनेन गृह्यमाणान्मन्त्रानुपलभ्य यादृशेन वाक्येन स्मृतिः कर्तुमाकाङ्-
क्ष्यते तादृग्रूपा एत इति विदित्वा लिङ्गमकरणानुमितया श्रुत्या विनियोगे सत्य-
भिधानार्थता विज्ञायते । ततश्चोपायान्तराण्यप्रमाणकत्वान्निवर्तन्ते । नियमाद्दृष्ट-
सिद्धिश्च मन्त्रैरेव स्मृतं कर्म कृत्वाऽभ्युदयकारि भवतीत्यवधार्यते ।
यत्र च मन्त्रास्तत्र विधिवाक्येनैव तदसम्भवे उपायान्तरेणापि पदार्थ-
स्मृतिः कार्या ॥ ७ ॥
त अद्युक्ताः ॥ १ । ३ । ८ ॥
ते मन्त्राः सूत्रमध्ये आद्युक्ता आदिमात्रेणोक्ताः सन्तः प्रयोगकाले सकलाः
प्रयोज्याः । नतु सूत्रमध्ये यावानंश उच्यते तावन्मात्र इति ॥ ८ ॥
परादिना पूर्वान्तः ॥ १ । ३ । ९ ॥
परस्य मन्त्रस्य सूत्रोपात्तेनादना चिह्नभूतेन पूर्वस्य मन्त्रान्तो ज्ञेयः ।
╳ अनुष्ठान इत्यारम्यवधार्यत इत्यन्तो ग्रन्थस्तन्त्रवार्तिकादक्षरश उद्धृत इति
प्रतिभाति ।
देवयाज्ञिकभाष्यसमेतम् । ५७
नन्वेतन्न वक्तव्यम्, वाक्यलक्षणेनव मन्त्रान्तस्य सुगमत्वात् । सत्यम्,
कचिद्वाक्यसमूहस्यैकमन्त्रत्वसिद्ध्यर्थं पुनरुच्यत इत्यदोषः । तद्यथा—"विश्वेषां
देवानां भागधेयीस्थ " इति समाप्तेऽपि वाक्ये " अमूर्या उपसूर्ये " (६-२४)
इत्यादि प्रयुज्यते । यथा वा अष्टगृहीतं जुहोति सन्तममुद्गृह्णन् " युञ्जानः "
( १६-२, ७) इति । अत्राष्टानामेकमन्त्रत्वम् । तथा " देवस्यत्वा " (३-२, ८)
इत्यभ्रिमादाय इत्यत्र त्रयाणां मन्त्रत्वम् । चित्यं गच्छति " पश्चदिशः "
( १८-३, १८ ) इत्यादौ च ॥ ९ ॥
उपाꣳशु प्रयोगः श्रुतेः ॥ १ । ३ । १० ॥
तेषां यजुषां यजुर्वेदमन्त्राणां कर्मसु उपांशु प्रयोगो भवति । कुतः? श्रुतेः
“ उच्चैर्ऋचा क्रियत उच्चैः साम्ना उपांशु यजुषा" इति शाखान्तरे श्रवणात् ।
स्वशाखायामपि " स उपाꣳशु यजुर्भिश्श्चरति " ( ४-६-७-१८) इत्यादि-
श्रुतेश्च । अत्र तेभ्यस्त्रयो वेदा अजायन्त इति वेदान्प्रक्रम्य मध्ये "उच्चैर्ऋचा
क्रियत " इत्यादीनि वाक्यानि पठित्वा पुनरपि वेदेनैवोपसंहारोऽस्ति । तेनात्र
ऋगादयः शब्दा वेदोपलक्षकाः । तेन ऋचा ऋग्वेदेन विहितं साम्ना सामवेदेन
विहितं चोच्चैः, यजुषा यजुर्वेदविहितं चोपांशु इति ।
अस्य सूत्रस्येष्टिपशुसोमव्यतिरिक्तं कर्माग्निहोत्रादिकं विषयः । एतेषु
विशेषस्य वक्ष्यमाणत्वात् ॥ १० ॥
न सम्प्रैषाः ॥ १ । ३ । ११ ॥
सम्प्रैषा निगदाः 'प्रोक्षणीरासादय' 'अग्नीदग्नीन्विहर' 'यजमान
वाचं यच्छ' (२-६-३४, ९-७-५, २-३-२) इत्येवमादयः, याजुर्वेदिका
अपि सम्प्रैषा उपांशु न प्रयोज्याः । अन्यबोधनार्था हि ते । न चोपांशूच्चरितैरे-
भिरन्यस्य बोधनं सम्भवति । तस्मात्त उच्चैरेव प्रयोज्याः ॥ ११ ॥
शाखान्तरे दर्शपूर्णमासयोः श्रूयते 'बर्हिर्लुनाति' इति । तत्रेदं चिन्त्यते
किं बर्हिःशब्दः संस्कारनिमित्त उत जातिनिमित्त इति । तत्र बर्हिःशब्दस्य शास्त्रे
सर्वत्र संस्कृतेष्वेव तृणेषु प्रयोगात्, यूपाह्वनीयादिवत् संस्कारवाची बर्हिःशब्द
इति प्राप्त आह—
५८ कात्यायनश्रौतसूत्रम् ।
कौशं बर्हिः ॥ १ । ३ । १२ ॥
बर्हिः कौशम् । कुशा दर्भाः तस्येदं कौशम् । कुशमात्रमेव बर्हिःशब्दे-
नोच्यते न संस्कारः । कुतः ? अन्वयव्यतिरेकाभ्यां जातिवाचित्वाद्वर्हिःशब्दस्य ।
यत्र यत्र बर्हिःशब्दप्रयोगस्तत्र तत्र जातिरित्यस्या व्याप्तेर्लोके वेदे च नास्ति
व्यभिचारः । संस्कारव्याप्तेस्तु लौकिकप्रयोगे व्यभिचारो दृश्यते, क्वचिद्देशविशेषे
लौकिकव्यवहारे जातिमात्रमुपजीव्य विना संस्कारं बर्हिःशब्दः प्रयुज्यते ' बर्हि-
रादाय गावो गताः' इति । तस्माज्जातिवाची बर्हिःशब्दः । असंस्कृतं कुशमात्रं
बर्हिःशब्देनोच्यत इत्यर्थः । प्रयोजनम् - " बर्हींषि प्राञ्च्युदञ्चि च प्रास्यति "
( ६-२-१८ ) इत्यादौ संस्कारा न कर्तव्याः । स्मृतौ -
कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः ।
काशाभावे गृहीतव्या अन्ये दर्भा यथोचिताः ॥
दर्भाभावे स्वर्णरूप्यताम्रैः कर्मक्रियाः सदा ।
कुशाकाशशरा दूर्वा यवगोधूमबाल्वजाः ॥
सुवर्णं रजतं ताम्रं दश दर्भाः प्रकीर्त्तिताः ।
स्नाने होमे तथा दाने स्वाध्याये पितृतर्पणे ॥
सपवित्रौ सदर्भौ वा करौ कुर्वीत नान्यथा ।
सर्वेषां वा भवेद् द्वाभ्यां पवित्रं ग्रथितं न वा ॥
सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् ।
नोच्छिष्टं तत्सदर्भं च दर्भोच्छिष्टं तु वर्जयेत् ॥ इति ॥ १२ ॥
अर्थात्परिमाणम् ॥ १ । ३ । १३ ॥
अग्न्यागारादौ वसोर्धारा होमे च स्रुचः स्रुवस्य च अर्थात्परिमाणं भवति ।
यावता परिमाणेनार्थः प्रयोजनं सिद्ध्यति तावत्परिमाणं भवतीत्यर्थः परिमाणा-
न्तरस्यायुक्तत्वात् । प्रयोगाद्बहिरेव शुष्केष्टिवत् " वाजश्चमे " इत्यत आरभ्य
“ षट् स्वाहा ” ( १८-१ तः २९ ) इत्येतत्पर्यन्तं पठित्वा कस्मिंश्चित्पात्रे
सन्ततं घृतं स्रुक्प्रणालिकया निनीय तस्याज्यस्य तोलनाद्युपायेन परिमाणं निश्चि-
त्य तावदाज्यं यावत्परिमाणायां स्रुचि याति तावत्परिमाणां तां स्रुचं कुर्यात् ।
देवयाज्ञिकभाष्यसमेतम् । ५९
तस्याज्यस्य पञ्चमभागसङ्ग्राहकश्च स्रुवः कार्यः । एवं यदा षडब्दप्रत्याम्नाये
पावकेष्टिवैश्वानरेष्ट्यादिकं क्रियते तदापि वेदेः पश्चाद्भागोऽर्थात्तावत्परिमाणो
विपुलः कार्यों यावता अवरोक्तमुत्तर ५ हविषि ” ( १-१०-५ ) इति न्यायेन
सर्वेषामुदक्संस्थमासादनं सम्भवति । तदनुसारेण प्राचीप्रमाणं पुरस्तात्तिर्यक्प्र-
माणं च पादोनकल्पम् । तदुक्तं शतपथे-“ यावती स्वयं मनसा मन्येत तावतीं
कुर्यात् ” ( १-२५-१४) इति । सूत्रे चोक्तम्-“ अपरिमिता वा ” ( ५-
३-१५) इति । अपरिमितशब्दोत्र प्रमाणानियमपर इति वक्ष्यामः । एवं बर्हिर्ब-
र्हिर्द्रव्यपरिमाणानुक्तौ सर्वत्रोह्यम् ॥ १३ ॥
( बन्धनानि विषमधातूनि )
अयुग्धातूनि यूनानि ॥ १ । ३ । १४ ॥
इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि सन्नहनानि रज्जवोऽयुग्धातूनि भव-
न्ति । धातवस्तृणमुष्टिप्रक्षेपाः अयुजो विषमा एकत्रिपञ्चसप्तनवादिविषमसङ्ख्यया
धातवो येषां तान्ययुग्धातूनि । तथाचापस्तम्बः “ त्रिधातु पञ्चधातु वा शुल्वं
करोति” इति । शुल्वं रज्जुमित्यर्थः । “ पञ्चविंशतिकुशमयानि यूनानि ” इति
यज्ञपार्श्वे । तथा “ समूलानाममूलानां वा दर्भाणां पूर्ववत् शुल्वं कृत्वोदगग्रं
निधायेती”ध्मप्रस्तावे । मानवे च “ शुल्वं प्रतिदधात्ययुग्धातु प्रदक्षिणम्”ति ।
तित्तिरिसूद्रे “ अथ त्रिरन्वाहितं शुल्वं कृत्वे”ति ॥ १४ ॥
अथ बर्हिषो बन्धनप्रकारमाह-
( बर्हिषां बन्धनप्रकारः )
प्रागग्रे यून उदगग्रं बर्हिराचनोति ॥ १ । ३ । १५ ॥
प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थीयां रज्जौ उदगग्रं बर्हिराचिनोति
बन्धनार्थं स्थापयति ॥ १५॥
अथेध्मबन्धनस्य प्रकारमाह-
( इध्मबन्धनप्रकारः )
उदगग्रे प्रागग्रमिध्मम् ॥ १ । ३ । १६ ॥
आचिनोतीत्यनुवर्तते । उदगग्रे यूने सन्नहने प्रागग्रमिध्ममाचिनोति बन्ध-
नार्थं निदधाति ॥ १६॥
६० कात्यायनश्रौतसूत्रम् ।
प्रत्यग्ग्रन्धीनवगूहति ॥ १ । ३ । १७ ॥
इध्मबर्हिर्बन्धनार्थानां यूनानां ग्रन्थिमवगूहति, यूनेन गाढं बध्वा यूनस्याग्र-
मूले सङ्कल्प्य प्रदक्षिणमावेष्ट्य इध्मबर्हिषोरग्रभागे प्रोतयित्वा पश्चादिति तयो-
र्मूलभागे अवगूहति प्रेरयति । प्रत्यक् शब्देन इध्मबर्हिषोः पश्चाद्भागो मूलभाग
इत्युच्यते । दिग्वाचिनो बर्हिष्युदगग्रे निहिते असम्भवात् ।
काठके " ग्रन्थिं कृत्वा पुरस्तात्प्रत्यञ्चमपकर्षति" इति ।
मानवे—"शुल्वस्यान्तौ समायम्य पूषाते ग्रन्थिमिति प्रदक्षिणमावेष्टयति
पश्चात्प्राञ्चमपकर्षति" इति ।
तैत्तिरीयेऽपि "पश्चात्प्राञ्चमुपगूहतीति" इति ।
आपस्तम्बः—"पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चाद्वा प्राञ्चम्" इति ॥१७॥
( इध्मस्याष्टादशत्वादिपालाशत्वादिकम् )
अष्टादशेध्मं परिधिवृक्षाणाम् ॥ १ । ३ । १८ ॥
परिधीनां वृक्षाः पालाशवैकङ्कतादयः परिवृक्षाः, तेषां परिधिवृक्षाणां
सम्बन्धनमष्टादशसङ्ख्यकाष्ठकमिध्मं कुर्यात् ।
मानवे—"समृद्धैरिध्मैः पालाशं खादिरं रौहीतकं वाष्टादशदार्विध्मं संनह्यति,
त्रींश्च परिधीन् यो यज्ञियवृक्षस्तस्य " इति ।
काठके—"अष्टादशदारुं शुष्कं समानवृक्षस्य संनह्यति विंशतिमिष्टौ
पशुबन्धे च" इति । अत एव सामिधेनीवृद्धौ काष्ठवृद्धिर्भवति ह्रासे च ह्रासो
न भवति पित्र्यादौ ।
तथाहापस्तम्बः—"सामिधेनीवृद्धौ काष्ठानि वर्धन्ते प्रकृतितो ह्रसमा-
नासु प्रकृतिवत्" इति ।
उपसत्सु तु "मात्रावदिध्मवर्हिः" (८-२-२४) इतिवचनाद्ध्रासः ।
इध्मप्रमाणं चारत्निरिति यज्ञपार्श्वे निगमे च । प्रादेशद्वयमिध्मस्य प्रमाण-
मिति कात्यायनः (कर्मप्रदीपे. १-८--१९)
तथा—"समित्पवित्रं वेदं च त्रयं प्रादेशसम्मितम् ।
इध्मस्तु द्विगुणः कार्यः परिधिस्त्रिगुणः स्मृतः ॥
स्मार्ते प्रादेश इध्मो वा द्विगुणः परिधिस्ततः ॥" इति ॥१८॥
े->तस्मिन्पक्षे. Let's write तस्मिन्पक्षे(orतस्मिन्यक्षे`? No, 'तस्मिन्यक्षे' makes no sense in Sanskrit, 'पक्षे' is the universal word for 'in that pakṣa/view', contrast with 'एकमेवेदं सूत्रम्... एके आचार्या विकल्पेन... अत एवंविधमेकीयमतम्—यदेकविंशतिकाष्ठक इध्मः । तस्मिन्पक्षे चेध्मादेव त्रीणि काष्ठान्यादाय परिधिपरिधानमिति ॥').
- It is definitely
तस्मिन्पक्षे. - Line 18:
देव त्रीणि काष्ठान्यादाय परिधिपरिधानमिति ॥ - Line 19:
बन्धनान्तरमिध्मबर्हिषोर्भूयौ निधानं न कार्यम् । आपस्तम्बसूत्रे “अनधो- Wait! Let's re-examine
भूयौvsभूमौ! - Look at
बन्धनान्तरमिध्मबर्हिषोर्भूयौvsभूमौ: - Wait, look at the letter: is it
मorय? - Wait! Look at
यinकार्यम्: it has the notch on the left! - In
भू...: it hasय
- Wait! Let's re-examine
६२ कात्यायनश्रौतसूत्रम् ।
अपरिमितं प्रणयनीयं त्रियूनम् ॥ १। ३ । २१ ॥
प्रणयनस्यार्थे प्रणयनीयः, तं प्रणयनीयमग्निप्रणयनार्थमिध्ममपरिमितका-
ष्ठकं त्रियूनं तिसृभिः संहननरज्जुभिर्बद्धं कुर्यात् । त्रीणि यूनानि बन्धनानि यस्य
स त्रियूनः तं त्रियूनमिति । अपरिमितत्वं च प्रागुक्तेध्मकाष्ठसङ्ख्यापेक्षयातिश-
येनाधिकसङ्ख्यकाष्ठकत्वम् । तेन चतुर्विंशतिसामिधेनीको य इष्टकापशुस्तत्र
सप्तविंशतिः काष्ठानि भवन्ति । ततश्च प्रणयनीये ततोऽप्यधिकानि अष्टाविंशति-
प्रभृतीनि इच्छासङ्ख्यानि काष्ठानि भवन्ति ॥ २१ ॥
( वेदबन्धनकालः )
निरूप्याज्यं वेदोऽसीति यजमानो वेदं करोति ॥१।३।२२॥
यजमान आज्यं निरूप्य प्रथमं वक्ष्यमाणप्रकारेणाज्यनिर्वापमाज्यस्थाल्यां
कृत्वा “वेदोऽसि” ( २-२१ ) इत्यनेन मन्त्रेण वेदं करोति । अस्य मन्त्र-
स्यान्यत्र ऊहो भवति । “तेनावभ्यां वेदो भूयाः” इति द्वियजमानके, “तेना-
स्मभ्यं वेदो भूयाः” इति बहुयजमानके “देवंपितृभ्यो वेदो भव” इति पित्र्या-
म् ॥ २२ ॥
कीदृशं तमित्यपेक्षायामाह--
कुशमुष्टिस्सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा पशु-
ब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम् ॥ १ । ३ । २३ ॥
पशुब्रह्मवर्चसान्नाद्यकामा यजमाना यथासङ्ख्यं यथोपदेशक्रमेण एव-
माकारं वेदं कुर्युः । तत्र पशुकामः कुशमुष्टिं सव्यावृत्तं प्रदक्षिणावृत्तं वत्सजानुं
वेदं करोति ।
अस्य निर्माणप्रकारः कठमैत्रसूत्रादिषु विलोकनीयः । ब्रह्मवर्चसकामः
कुशमुष्टिं त्रिवृतं करोति, अन्नाद्यकामो मूतकार्यम्, इति यथासङ्ख्यशब्दार्थः ।
वत्सजानुरिति वत्सजानुसदृशः । त्रिवृत् त्रिगुणः । मौञ्जं त्रिवृद्द्रव्यम् मुञ्जरज्जु-
वत्त्रिहतो मूर्ध्निबद्धाः “त्रिवृतं परिव्ययती” त्यादौ (६-३-१६) तथैव दर्शनात् ।
“मेखलायां वेणिं त्रिवृतमि”ति (७-३-२६) पृथङ्निर्देशात्त्रिवृच्छब्देन वेण्या-
कारता यत्कैश्चिदुक्ता तत्केनाभिप्रायेणेति त एव विदुः ।
मूतो धान्यावापपात्रं तृणवर्त्यादिनिर्मितं तद्वत्क्रियत इत्यर्थः । तथा च
देवयाज्ञिकभाष्यसमेतम् । ६३
मनुः "वेदं करोति वत्ससृजं प्रसव्यमावेष्ट्य तूलैर्दक्षिणोत्तरतूलैषु शुल्वं प्रतिनि-
धाय त्रिरावेष्ट्य सन्नह्यत्युत्तरमुत्तरं प्रादेशमात्रे शुल्वात्परिवास्योत्करे मूलानि
गमयति तूलानि निदधाति वेदं कृत्वा वेदिं करोति” इति ।
तैत्तिरीये-वेदं करोति वत्सजानुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य
त्रिवृतं तेजस्कामस्योर्ध्वाग्रं स्वर्गकामस्य” इति ।
लौगाक्षिः--“वेदं करोति दर्भमुष्टिं प्रसव्यमावेष्ट्योपभुज्याग्राणाग् शुल्वं
कृत्वा त्रिः परिवृत्य गुणेषु शुल्वान्तमवकृष्यायस्य शुल्वात्प्रादेशे छित्वाग्राणीध्मे
निधायोत्करे मूलानि ततो वेदिकरणम्” इति ।
आपस्तम्बश्च--“दर्भाणां वेदं करोति वत्ससृजं पशुकामस्य मूतकार्यम-
न्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य शुल्वात्प्रादेशे परिवास्य
६४ कात्यायनश्रौतसूत्रम् ।
( अन्तशब्दार्थः )
अन्तवचने च ॥ १ । ३ । २५ ॥
“शम्यवन्तं भवति” (३-७-१३) “इडान्तं भवति” (५-६-२५)
इत्येवमादावन्तवचने चकारात्तच्चेति पूर्वसूत्रादनुकृष्यते, तदप्यन्तसंयुक्तं शम्यिव-
दादिकं कर्तव्यमध्ये ज्ञेयम् । न त्वन्तशब्दः समीपार्थं परिकल्प्यः । तत्समीपे
ततोऽर्वाक्स्थातव्यमिति ॥ २५ ॥
( उद्धरणनियमः )
प्रतिकर्मोद्धरणमप्रसङ्गे ॥ १ । ३ । २६ ॥
प्रतिकर्म कर्म-कर्म प्रति सर्वेषु कर्मसु पृथक्पृथगाहवनीयदक्षिणाग्न्यागार्ह-
पत्यादुद्धरणं कर्तव्यम् । न त्वाधानकाल एवोद्धृतौ गार्हपत्यवत्सर्वे कर्म प्रति
साधारणौ भवतः । परं अप्रसङ्गे सति अन्यार्थमनुष्ठितस्यान्येनोपजीवनं प्रसङ्गः,
न प्रसङ्गः अप्रसङ्गः तस्