कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 65, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ५९
तस्याज्यस्य पञ्चमभागसङ्ग्राहकश्च स्रुवः कार्यः । एवं यदा षडब्दप्रत्याम्नाये
पावकेष्टिवैश्वानरेष्ट्यादिकं क्रियते तदापि वेदेः पश्चाद्भागोऽर्थात्तावत्परिमाणो
विपुलः कार्यों यावता अवरोक्तमुत्तर ५ हविषि ” ( १-१०-५ ) इति न्यायेन
सर्वेषामुदक्संस्थमासादनं सम्भवति । तदनुसारेण प्राचीप्रमाणं पुरस्तात्तिर्यक्प्र-
माणं च पादोनकल्पम् । तदुक्तं शतपथे-“ यावती स्वयं मनसा मन्येत तावतीं
कुर्यात् ” ( १-२५-१४) इति । सूत्रे चोक्तम्-“ अपरिमिता वा ” ( ५-
३-१५) इति । अपरिमितशब्दोत्र प्रमाणानियमपर इति वक्ष्यामः । एवं बर्हिर्ब-
र्हिर्द्रव्यपरिमाणानुक्तौ सर्वत्रोह्यम् ॥ १३ ॥
( बन्धनानि विषमधातूनि )
अयुग्धातूनि यूनानि ॥ १ । ३ । १४ ॥
इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि सन्नहनानि रज्जवोऽयुग्धातूनि भव-
न्ति । धातवस्तृणमुष्टिप्रक्षेपाः अयुजो विषमा एकत्रिपञ्चसप्तनवादिविषमसङ्ख्यया
धातवो येषां तान्ययुग्धातूनि । तथाचापस्तम्बः “ त्रिधातु पञ्चधातु वा शुल्वं
करोति” इति । शुल्वं रज्जुमित्यर्थः । “ पञ्चविंशतिकुशमयानि यूनानि ” इति
यज्ञपार्श्वे । तथा “ समूलानाममूलानां वा दर्भाणां पूर्ववत् शुल्वं कृत्वोदगग्रं
निधायेती”ध्मप्रस्तावे । मानवे च “ शुल्वं प्रतिदधात्ययुग्धातु प्रदक्षिणम्”ति ।
तित्तिरिसूद्रे “ अथ त्रिरन्वाहितं शुल्वं कृत्वे”ति ॥ १४ ॥
अथ बर्हिषो बन्धनप्रकारमाह-
( बर्हिषां बन्धनप्रकारः )
प्रागग्रे यून उदगग्रं बर्हिराचनोति ॥ १ । ३ । १५ ॥
प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थीयां रज्जौ उदगग्रं बर्हिराचिनोति
बन्धनार्थं स्थापयति ॥ १५॥
अथेध्मबन्धनस्य प्रकारमाह-
( इध्मबन्धनप्रकारः )
उदगग्रे प्रागग्रमिध्मम् ॥ १ । ३ । १६ ॥
आचिनोतीत्यनुवर्तते । उदगग्रे यूने सन्नहने प्रागग्रमिध्ममाचिनोति बन्ध-
नार्थं निदधाति ॥ १६॥