सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

४३६ ॥ काशिका ॥ ५ ॥ ३ ॥
अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्याय,स्ताभ्यां
युस्प्रत्ययो भवति मत्त्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः।
शुभंयुः । कल्याणवानित्यर्थः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
पञ्चमस्याध्यायस्य द्वितीयः पादः ॥
॥ अथ पञ्चमाध्यायस्य तृतीयः पादः ॥
प्राग्दिशो विभक्तिः ॥ १ ॥
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्य इति वक्ष्यति, प्रागेतस्माद्दिक्शं-
ब्दानाख्यानादित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसंज्ञास्ते वेदितव्याः । वक्ष्यति । पञ्च-
म्यास्तसिल् । ततः । यतः । कुतः । तसिलादीनां विभक्तित्वे प्रयोजनं त्यदा-
दिविधयः, इदमो विभक्तिस्वरश्च । इह । उँडिदमिति विभक्त्युदात्तत्वं सिद्धं
भवति । इतः परं स्वार्थिकाः प्रत्ययास्तेषु समर्थाधिकारः प्रथमाग्रहणं च प्रति-
योग्यपेक्षत्वाच्चोपयुज्यतइति निवृत्तम् । वावचनमनुवर्त्ततएव, तेन विकल्पेन
तसिलादयो भवन्ति । कुतः । कस्मात् । कुत्र । कस्मिन्निति ॥
किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः ॥ २ ॥
प्राग्दिश इत्येव । किमः सर्वनाम्नो बहुशब्दाच्च प्राग्दिशः प्रत्यया वेदि-
तव्याः । सर्वनामत्वात्प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते । कुतः । कुत्र । यतः ।
यत्र । ततः । तत्र । बहुत्तः । बहुत्र । अद्व्यादिभ्य इति किम् । द्वाभ्याम् ।
द्वयोः । प्रकृतिपरिसंख्यानं किम् । वृत्तात् । वृत्ते । प्राग्दिश इत्येव । वैयाकर-
णपाशः । सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासात् ॥ बहुग्रहणे
संख्याग्रहणम् ॥ * ॥ इह न भवति । बहोः सूपात् । बहौ सूपइति ॥
इदम इश् ॥ ३ ॥
प्राग्दिश इत्येव । इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्य-
येषु परतः । शकारः सर्वादेशार्थः । इह ॥
एतेतौ रथोः ॥ ४ ॥
रेफथकारादौ प्राग्दिशीये प्रत्यये परत इदम एतेतावादेशौ भवतः । इशो-
पवादः । रेफे ऽकार उच्चारणार्थः । इदमो र्हिल् । एतर्हि । इदमस्थमुः । इत्थम् ॥
एतदोऽन् ॥ ५ ॥

॥ काशिका ॥ ५ ॥ ३ ॥ ४३७
प्राग्दिशइत्येव । एतदः प्राग्दिशीये परतो ऽशित्ययमादेशो भवति ।
शकारः सर्वादेशार्थः । अतः । अत्र । एतद् इति योगविभागः कर्त्तव्यः । एतदो
रथोः परत एत इत् इत्येतावादेशौ भवतः । एतर्हि । इत्थम् । रेफादिरनद्य-
तने र्हिलन्यतरस्यामिति विद्घातएव । थमुप्रत्ययः पुनरेतद् उपसंख्येयः ॥
सर्वस्य सो ऽन्यतरस्यां दि ॥ ६ ॥
सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो
ऽन्यतरस्याम् । सर्वदा । सदा । प्राग्दशीयइत्येव । सर्वं ददातीति सर्वदा
ब्राह्मणी ॥
पञ्चम्यास्तसिल् ॥ ७ ॥
पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल्प्रत्ययो भवति । कुतः । यतः ।
ततः । बहुतः ।
तसेश्च ॥ ८ ॥
प्रतियोगे पञ्चम्यास्तसिः, अपादाने चाहीयरुहोरिति वक्ष्यति । तस्य
तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशोभवति । कुत आगतः । यतः ।
ततः । बहुत आगतः । तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च ॥
पर्यभिभ्यां च ॥ ९ ॥
परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति ॥ सर्वोभयार्थे वर्त्तमानाभ्यां
प्रत्यय इष्यते ॥ परितः सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥
सप्तम्यास्त्रल् ॥ १० ॥
किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति । कुत्र । तत्र ।
बहुत्र ॥
इदमो हः ॥ ११ ॥
इदमः सप्तम्यन्ताद्धः प्रत्ययो भवति । त्रलो ऽपवादः । इह ॥
किमो ऽत् ॥ १२ ॥
किमः सप्तम्यन्तादत्प्रत्ययो भवति । त्रलो ऽपवादः । क्व भोक्ष्यसे ।
क्वाध्येष्यसे । त्रलमपि के चिदिच्छन्ति । कुत्र । तत्कथ, मुत्तरसूत्राद्वावचनं
पुरस्तादपकृष्यते ॥
वा ह च्छन्दसि ॥ १३ ॥
किमः सप्तम्यन्ताद्वा हः प्रत्ययो भवति छन्दसि विषये । यथाप्राप्तं
च । क्व । कुह । कुत्र चिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः ॥

४३८ ॥ काशिका ॥ ५ ॥ ३ ॥
इतराभ्योऽपि दृश्यन्ते ॥ १४ ॥
सप्तमीपञ्चम्यपेक्षमितरत्वम् । इतराभ्यो विभक्तिभ्यस्तसिलादयो
दृश्यन्ते । दृशिग्रहणं प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एवैतद्विधानम् । के
पुनर्भवदादयः । भवान्दीर्घायुरायुष्मान् देवानांप्रिय इति । स भवान् । ततो
भवान् । तत्र भवान् । तं भवन्तम् । तत्र भवन्तम् । ततो भवन्तम् । तेन
भवता । तत्र भवता । ततो भवता । तस्मै भवते । ततो भवते । तत्र भवते ।
तस्माद्भवतः । ततो भवतः । तत्र भवतः । तस्य भवतः । ततो भवतः ।
तत्र भवतः । तस्मिन् भवति । ततो भवति । तत्र भवति । एवं दीर्घायुष्प्र-
भृतिष्वप्युदाहार्यम् ॥
सर्वेकान्यकिंयत्तदः काले दा ॥ १५ ॥
सप्तम्या इति वर्तते, न त्वितराभ्य इति । सर्वादिभ्यः प्रातिपदिकेभ्यो
दा प्रत्ययो भवति । त्रलोपवादः । सर्वस्मिन्काले, सर्वदा । एकदा । अन्यदा ।
कदा । तदा । काले इति किम् । सर्वत्र देशे ॥
इदमो हिँल् ॥ १६ ॥
सप्तम्या इत्येव । काल इति च । इदमः सप्तम्यन्तात्काले वर्तमानाद्
हिँल् प्रत्ययो भवति । हस्यापवादः । लकारः स्वरार्थः । अस्मिन् काले,
एतर्हि । कालेत्येव । इह देशे ॥
अधुना ॥ १७ ॥
अधुनेति निपात्यते । इदमो ऽश्भावो धुना च प्रत्ययः । अस्मिन्काले,
अधुना ॥
दानीं च ॥ १८ ॥
इदमः सप्तम्यन्तात्काले वर्तमानाद्द्दानीं प्रत्ययो भवति । अस्मिन्काले,
इदानीम् ॥
तदो दा च ॥ १९ ॥
तदः सप्तम्यन्तात्काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद्द्दानीं
च । तस्मिन्काले, तदा । तदानीम् । तदो दावचनमनर्थकं, विहितत्वात् ॥
तयोर्दाहिँलौ चच्छन्दसि ॥ २० ॥
तयोरिति प्रातिपदिकनिर्देशः । तयोरिदमः तदश्च यथासंख्यं दाहिँलौ
प्रत्ययौ भवतश्छन्दसि विषये । चकाराद्यथाप्राप्तं च । इदावत्सरीमः । इत्थं
तर्हि । इदानीम् । तदानीम् ॥

॥ काशिका ॥ ५ ॥ ३ ॥ ४३९
अनद्यतने हिंलन्यतरस्याम् ॥ २१ ॥
छन्दसीति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः
सप्तम्यन्तेभ्यो ऽनद्यतने कालविशेषे वर्तमानेभ्यो हिल् प्रत्ययो भवत्यन्यतर-
स्याम्। कर्हि। कदा। यहिँ। यदा। तर्हि। तदा ॥
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरि-
तरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ २२ ॥
सप्तम्याः कालइति वर्तते। सद्यःप्रभृतयः शब्दा निपात्यन्ते। प्रकृति-
प्रत्यय आदेशः कालविशेषवृत्ति सर्वमेतन्निपातनाल्लभ्यते। समानस्य सभावो
निपात्यते द्यस्च प्रत्ययः, अहन्यभिधेये। समाने ऽहनि, सद्यः। पूर्वपूर्वतयोः
परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरे ऽभिधेये। पूर्वस्मिन्संवत्सरे

४४० ॥ काशिका ॥ ५ ॥ ३ ॥
था हेतौ चच्छन्दसि ॥ २६ ॥
किंशब्दाद्धेतौ वर्त्तमानात्था प्रत्ययो भवति, चकारात्प्रकारवचने । छन्द-
सि विषये । हेतौ तावत् । कथा यामं न पृच्छासि । केन हेतुना न पृच्छसीत्यर्थः ।
प्रकारवचने । कथा देवा आसन्नुरा विदः । विभक्तिसंज्ञायाः पूर्वोऽवधिः ॥
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो
दिग्देशकालेष्वस्तातिः ॥ २७ ॥
दिशां शब्दाः, दिक्शब्दाः । तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्त्त-
मानेभ्यः सप्तमीपञ्चमीप्रथमान्तेभ्यो ऽस्तातिः प्रत्ययो भवति स्वार्थे ॥ यथा-
संख्यमत्र नेष्यते ॥ पुरस्ताद्वसति । पुरस्तादागतः । पुरस्ताद्रमणीयम् । अध-
स्ताद्वसति । अधस्तादागतः । अधस्ताद्रमणीयम् । दिक्शब्देभ्य इति किम् ।
ऐन्द्र्यां दिशि वसति । सप्तमीपञ्चमीप्रथमाभ्य इति किम् । पूर्वं ग्रामं गतः ।
दिग्देशकालेष्विति किम् । पूर्वेस्मिन्गुरौ वसति । इकारस्तकारपरित्राणार्थः ॥
दक्षिणोत्तराभ्यामतसुच् ॥ २८ ॥
दक्षिणोत्तराभ्यां दिग्देशकालेषु वर्त्तमानाभ्यां सप्तमीपञ्चमीप्रथमा-
न्ताभ्यां स्वार्थे ऽतसुच् प्रत्ययो भवति । अस्तातेरपवादः । दक्षिणशब्दः
काले न संभवतीति दिग्देशवृत्तिः परिगृह्यते । दक्षिणतो वसति । दक्षिणत
आगतः । दक्षिणतो रमणीयम् । उत्तरतो वसति । उत्तरत आगतः । उत्तरतो
रमणीयम् । चकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेनेति ॥
विभाषा परावराभ्याम् ॥ २९ ॥
परावरशब्दाभ्यां विभाषा ऽतसुच्प्रत्ययो भवति अस्तातेरर्थे । परतो
वसति । परत आगतः । परतो रमणीयम् । परस्ताद्वसति । परस्तादागतः ।
परस्ताद्रमणीयम् । अवरतो वसति । अवरत आगतः । अवरतो रमणीयम् ।
अवस्ताद्वसति । अवस्तादागतः । अवस्ताद्रमणीयम् ॥
अञ्चेर्लुक् ॥ ३० ॥
अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति ।
प्राच्यां दिशि वसति । लुक्तद्धितलुकीति स्त्रीप्रत्ययोऽपि निवर्त्तते । प्राग्वसति ।
प्रागागतः । प्राग्रमणीयम् * ॥
उपर्य्युपरिष्टात् ॥ ३१ ॥
उपरि उपरिष्टात् इत्येतौ शब्दौ निपात्येते अस्तातेरर्थे । ऊर्ध्वस्योप-

  • प्रत्यग्वसति । प्रत्यगागतः । प्रत्यग्रमणीयम् । इत्यधिकमन्यत्र ।

प्रथमान्ताद्विज्ञायते प्रत्ययः । उत्तरेण वसति । उत्तरा-

Line 24:
द्वसति । उत्तरतो वसति । उत्तरेण रमणीयम् । उत्तराद्रमणीयम् । उत्तरतो

Line 25:
रमणीयम् । अधरेण वसति । अधराद्वसति । अधस्ताद्वसति । अधरेण रम-

Line 26:
णीयम् । अधराद्रमणीयम् । अधस्ताद्रमणीयम् । दक्षिणेन वसति । दक्षिणा-

Line 27:
द्वसति । दक्षिणतो वसति । दक्षिणेन रमणीयम् । दक्षिणाद्रमणीयम् । दक्षि-

Line 28:
णतो रमणीयम् । अदूर इति किम् । उत्तराद्वसति । अपञ्चम्या इति किम् ।

Line 29:
उत्तरादागतः । अपञ्चम्या इति प्रागसेः । असिप्रत्ययस्तु पञ्चम्यन्तादपि

Line 30:
भवति । केचिदुत्तरादिशब्दं नानुवर्तयन्ति । दिक्शब्दमात्रात्प्रत्ययं

Line 31:
मन्यन्ते । पूर्वेण ग्रामम् । अपरेण ग्रामम् ॥

Let's double-check all line numbers and contents.
Total lines:
Top header: 1 line
भावः रिल्‌रिष्टातिलौ...
वसति । उपर्यागतः...

४४२ ॥ काशिका ॥ ५ ॥ ३ ॥
दक्षिणादाच् ॥ ३६ ॥
अदूर इति न स्वर्यते । अपञ्चम्या इति वर्तते । दक्षिणशब्दादाच्
प्रत्ययो भवति अस्तातेरर्थे । दक्षिणा वसति । दक्षिणा रमणीयम् । अपञ्चम्या
इत्येव । दक्षिणत आगतः । चकारो विशेषणार्थः, अञ्चूत्तरपदाजाहियुक्त इति ॥
आहि च दूरे ॥ ३७ ॥
दक्षिणशब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच् । दूरे चेद-
वधिमानवधेर्भवति । दक्षिणाद्हि वसति । दक्षिणा वसति । दक्षिणाद्हि रम-
णीयम् । दक्षिणा रमणीयम् । दूर इति किम् । दक्षिणतो वसति । अपञ्चम्या
इत्येव । दक्षिणत आगतः ॥
उत्तराच्च ॥ ३८ ॥
उत्तरशब्दादाजाहौ प्रत्ययौ भवतः, अस्तातेरर्थे, दूरे चेदवधिमानव-
धेर्भवति । उत्तरा वसति । उत्तराहि वसति । उत्तरा रमणीयम् । उत्तराहि
रमणीयम् । दूर इत्येव । उत्तरेण प्रयाति । अपञ्चम्या इत्येव । उत्तरादागतः ॥
पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ३९ ॥
अपञ्चम्या इति निवृत्तम् । तिसृणां विभक्तीनामिह ग्रहणम् । पूर्वो-
धरावराणामसिः प्रत्ययो भवति अस्तातेरर्थे । तत्सन्नियोगेन चैषां यथासंख्यं
पुर् अध् अव् इत्येते आदेशा भवन्ति । असीत्यविभक्तिको निर्देशः । पुरो
वसति । पुर आगतः । पुरो रमणीयम् । अधो वसति अध आगतः । अधो
रमणीयम् । अवो वसति । अव आगतः । अवो रमणीयम् ॥
अस्ताति च ॥ ४० ॥
सप्तम्यन्तमेतत् । अस्तातिप्रत्यये परतः पूर्वादीनां यथासंख्यं पुरादय
आदेशा भवन्ति । इदमेवादेशविधानं ज्ञापकमस्तातिरेभ्यो भवति, असिप्रत्य-
येन न बाध्यतइति । पुरस्ताद्वसति । पुरस्तादागतः । पुरस्ताद्रमणीयम् ।
अधस्ताद्वसति । अधस्तादागतः । अधस्ताद्रमणीयम् ॥
विभाषा ऽवरस्य ॥ ४१ ॥
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । अवरस्यास्तातौ परतो विभाषा
अव् इत्ययमादेशो भवति । अवस्ताद्वसति । अवस्तादागतः । अवस्ताद्रमणी-
यम् । अवरस्ताद्वसति । अवरस्तादागतः । अवरस्ताद्रमणीयम् ॥
संख्याया विधार्थे धा ॥ ४२ ॥
संख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमानेभ्यो धा प्रत्ययो भवति

॥ काशिका ॥ ५ ॥ ३ ॥ ४४३
स्वार्थे। विधा प्रकारः सर्वक्रियाविषय एव गृह्यते। क्रियाप्रकारे वर्तमानायाः
संख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्द्धा। पञ्चधा ॥
अधिकरणविचाले च ॥ ४३ ॥
संख्याया इत्येव। अधिकरणं द्रव्यं, तस्य विचालः संख्यान्तरापादनम्।
एकस्यानेकीकरणमनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने
संख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु।
अनेकमैकधा कुरु ॥
एकाद्धो ध्यमजन्यतरस्याम् ॥ ४४ ॥
एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा
राशिं कुरु। ऐकध्यं कुरु। एकधा भुङ्क्ते। ऐकध्यं भुङ्क्ते। धाप्रकरणादेव लब्धे
पुनर्द्धायग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैवैतत्प्राप्नोति ॥
द्वित्र्योश्च धमुञ् ॥ ४५ ॥
धा इत्यनुवर्तते। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य विधार्थे ऽधिकरण-
विचाले च विहितस्य धमुञादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुक-
र्षणार्थः। द्विधा। द्वैधम्। त्रिधा। त्रैधम् ॥ धमुञन्तत्वात्स्वार्थे ऽदर्शनम् ॥ * ॥
पथि द्वैधानि संश्रयन्ते। पथि त्रैधानि संश्रयन्ते ॥
एधाञ्च ॥ ४६ ॥
द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाञ्चादेशो भवत्यन्यतरस्याम्। चकारो
विकल्पानुकर्षणार्थः। द्वेधा। द्वैधम्। द्विधा। त्रेधा। त्रैधम्। त्रिधा * ॥
याप्ये पाशप् ॥ ४७ ॥
याप्यः कुत्सित उच्यते। याप्ये वर्तमानात्प्रातिपदिकात्स्वार्थे पाशप्
प्रत्ययो भवति। याप्यो वैयाकरणः। कुत्सितो वैयाकरणो, वैयाकरणपाशः।
याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलस्तत्र कस्मान्न भवति।
यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशस्तत्कुत्सायां प्रत्ययः ॥
पूरणाद्भागे तीयादन् ॥ ४८ ॥
पूरणप्रत्ययो यस्तीयस्तदन्तात्प्रातिपदिकाद्भागे वर्तमानात्स्वार्थे ऽन्
प्रत्ययो भवति। स्वरार्थं वचनम्। द्वितीयो भागः। द्वितीयः। तृतीयः।
भागइति किम्। द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्। नह्यपूरणस्तीया
ऽस्ति। मुखतीयादिरनर्थकः ॥

  • वाक्यविभागो यथासंख्यनिरासार्थः। इत्यधिकं पुस्तकान्तरे।

४४४ ॥ काशिका ॥ ५ ॥ ३ ॥
प्रागेकादशभ्यो ऽच्छन्दसि ॥ ४९ ॥
पूरणाद्भाग इत्येव। प्रागेकादशभ्यः संख्यावाचिभ्यः पूरणप्रत्ययान्तेभ्यो भागे
वर्तमानेभ्यः स्वार्थे ऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थं वचनम्।
पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्य इति किम्। एकादशः।
द्वादशः। अच्छन्दसीति किम्। पञ्चममिन्द्रियस्यापाक्रामत् ॥
षष्ठाष्टमाभ्यां ञ च ॥ ५० ॥
भागइत्येव। अच्छन्दसीति च। षष्ठाष्टमाभ्यां भागे ऽभिधेये ऽच्छन्दसि
विषये ञः प्रत्ययो भवति। चकारादंश्च। षष्ठो भागः। षाष्ठः। आष्टमः। अष्टमः।
मानपश्वङ्गयोः कन्ल्लुकौ च ॥ ५१ ॥
भागइत्येव। षष्ठाष्टमाभ्यां यथासंख्यं कन्ल्लुकौ

॥ काशिका ॥ ५ ॥ ३ ॥ ४४५
भवतः । प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति । सर्वेऽमी आढ्याः,
अयमेषामतिशयेनाढ्य, आढ्यतमः । दर्शनीयतमः । सुकुमारतमः । अयमेषाम-
तिशयेन पटुः, पटिष्ठः । लघिष्ठः । गरिष्ठः । यदा च प्रकर्षवतां पुनः प्रकर्षो
विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव । देवो वः सविता प्रार्प-
यतु श्रेष्ठतमाय कर्मणे । युधिष्ठिरः श्रेष्ठतमः कुरूणामिति ॥
तिङश्च ॥ ५६ ॥
तिङन्ताच्चातिशायने द्योत्ये तमप् प्रत्ययो भवति । ङ्याप्प्रातिपदिका-
दित्यधिकारात्सिद्धो न प्राप्नोतीति इदं वचनम् । सर्वेऽमी पचन्तीति अयमेषा-
मतिशयेन पचति, पचतितमाम् । जल्पतितमाम् । इष्ठन्नोदाह्रियते । गुणवचने
नियमितत्वात् ॥
द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५७ ॥
द्वयोरर्थयोर्वचनं द्विवचनम् । विभक्तव्यो विभज्यः । निपातनाद्वात् ।
द्व्यर्थे विभज्ये चोपपदे प्रातिपदिकात्तिङन्ताच्चातिशायने तरबीयसुनौ प्रत्ययौ
भवतः । तमबिष्ठनोरपवादौ ॥ यथासंख्यमत्र नेष्यते ॥ द्वाविमावाढ्यौ, अयम-
नयोरतिशयेनाढ्यतरः । सुकुमारतरः । पचतितराम् । जल्पतितराम् । ईयसु-
न्खल्वपि । द्वाविमौ पटू । अयमनयोरतिशयेन पटुः, पटीयान् । लघीयान् ।
विभज्ये चोपपदे । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । दर्शनीयतराः । पटी-
यांसः । लघीयांसः ॥
अजादी गुणवचनादेव ॥ ५८ ॥
इष्ठन्नीयसुनावजादी सामान्येन विहितौ तयोरयं विषयनियमः क्रियते ।
गुणवचनादेव भवतस्तौ नान्यस्मादिति पटीयान् । लघीयान् । पटिष्ठः ।
लघिष्ठः । इह न भवतः । पाचकतरः । पाचकतम इति । एवकार इष्टतो
ऽवधारणार्थः । प्रत्ययनियमो ऽयं न प्रकृतिनियम इति । पटुतरः पटुतमः ॥
तुश्छन्दसि ॥ ५९ ॥
तुरिति तृन्तृचोः सामान्येन ग्रहणम् । तृन्ताच्छन्दसि विषये अजादी
प्रत्ययौ भवतः पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तरादप्यभ्यनुज्ञा-
यन्ते तृन्तादप्यजादी भवत इति । आहुतिं करिष्ठः । दोहीयसी धेनुः ।
भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयस्स्विति तृचो निवृत्तिः ॥
प्रशस्यस्य श्रः ॥ ६० ॥
प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः ।
अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते । ननु च प्रशस्यशब्द

४४६ ॥ काशिका ॥ ५ ॥ ३ ॥
स्यागुणवचनत्वादजादौ न संभवतः, एवं तर्हि आदेशविधानसामर्थ्यात्तद्विषयो
नियमो न प्रवर्त्तते ऽजादौ गुणवचनादेवेति । एवमुत्तरेष्वपि योगेषु विज्ञेयम् ।
सर्वद्रमे प्रशस्या अयमेषामतिशयेन प्रशस्यः, श्रेष्ठः । उभाविमौ प्रशस्यौ अयम-
नयोरतिशयेन प्रशस्यः, श्रेयान् प्रकृत्यैकाजिति प्रकृतिभावाच्छ्रशब्दस्य टिलोप-
यस्येतिलोपौ न भवतः ॥
ज्य च ॥ ६१ ॥
प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः
सर्वदमे प्रशस्या अयमतिशयेन प्रशस्यः, ज्येष्ठः । उभाविमौ प्रशस्यावयमनयो-
रतिशयेन प्रशस्यः, अयमस्मात् ज्यायान् । ज्यादादीयस इत्याकारः ॥
वृद्धस्य च ॥ ६२ ॥
वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः ।
तयोश्च सत्त्वं नियमाभावेन पूर्ववत् ज्ञायते । सर्वदमे वृद्धा अयमेषामतिशयेन
वृद्धः, ज्येष्ठः । उभाविमौ वृद्धौ अयमनयोरतिशयेन वृद्धः, ज्यायान् । अयम-
स्मात् ज्यायान् । प्रियस्थिरेत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते । वचन-
सामर्थ्यात्पक्षे सोऽपि भवति । वर्षिष्ठः । वर्षीयानिति ॥
अन्तिकबाढयोर्नेदसाधौ ॥ ६३ ॥
अन्तिकबाढयोर्यथासंख्यं नेद साध इत्येतावादेशौ भवतो ऽजाद्योः
परतः । तयोश्च सत्त्वं पूर्ववद्विज्ञेयम् ॥ निमित्तभूतयोर्यथासंख्यमत्र नेष्यते
सर्वाणीमान्यन्तिकानि इदमेषामतिशयेन, नेदिष्ठम् । उभे इमे अन्तिके इदम-
नयोरतिशयेन नेदीयः । इदमस्मान्नेदीयः । सर्वदमे बाढमधीयते । अयमस्मा-
त्साधीयोधीते ॥
युवाल्पयोः कनन्यतरस्याम् ॥ ६४ ॥
युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजाद्योः परतः ।
तयोश्च सत्त्वं पूर्ववत् ज्ञेयम् । सर्वदमे युवानः, अयमेषामतिशयेन, कनिष्ठः ।
द्वाविमौ युवानौ अयमनयोरतिशयेन, कनीयान् । यविष्ठः । यवीयान् । सर्व-
इमेऽल्पाः । अयमेषामतिशयेन, कनिष्ठः । उभाविमावल्पावयमनयोरतिशयेन
कनीयान् । अयमस्मात्कनीयान् । अल्पिष्ठः, अल्पीयानिति वा ॥
विन्मतोर्लुक् ॥ ६५ ॥
विनो मतुपश्च लुग् भवति अजाद्योः प्रत्यययोः परतः । इदमेव वचनं
ज्ञापकमजादिसद्भावस्य । सर्वद्रमे स्रग्विणः, अयमेषामतिशयेन, स्रजिष्ठः ।
उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन, स्रजीयान् । अयमस्मात् स्रजीयान्

[Header] ॥ काशिका ॥ ५ ॥ ३ ॥ ४४७

सर्वेऽमी त्वावन्तः अयमेषामतिशयेन, त्वचिष्ठः । उभाविमौ त्वावन्तौ, अयम-
नयोरतिशयेन, त्वचीयान् । अयमस्मात्त्वचीयान् ॥
प्रशंसायां रूपप् ॥ ६६ ॥
प्रशंसा स्तुतिः । प्रकृत्यर्थस्य विशेषणं चैतत् । प्रशंसाविशिष्टे ऽर्थे वर्तमा-
नात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति । स्वार्थिकाः प्रत्ययाः प्रकृत्यर्थ-
विशेषस्य द्योतका भवन्ति । प्रशस्तो वैयाकरणो वैयाकरणरूपः । याज्ञिकरूपः ।
प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति । वृषलरूपो ऽयं, यः पलाण्डुना सुरां पिबति ।
चौररूपः । दस्युरूपः । यो ऽक्तोरप्यञ्जनमपहरेत् । तिङश्चेत्यनुवर्तते । पचतिरू-
पम् । पचतोरूपम् । क्रियाप्रधानमाख्यातम् । एका च क्रियेति रूपप्प्रत्ययान्ताद्
द्विवचनबहुवचने न भवतः । नपुंसकलिङ्गन्तु भवति लोकाश्रयत्वाल्लिङ्गस्य ॥
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ६७ ॥
संपूर्णता, पदार्थानां समाप्तिः । स्तोकेनासंपूर्णाता, ईषदसमाप्तिः ।
प्रकृत्यर्थविशेषणं चैतत् । ईषदसमाप्तिविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात्
कल्पब् देश्य देशीयर् इत्येते प्रत्यया भवन्ति । ईषदसमाप्तः पटुः, पटुकल्पः ।
पटुदेश्यः । पटुदेशीयः । मृदुकल्पः । मृदुदेश्यः । मृदुदेशीयः । तिङश्चे-
त्येव । पचतिकल्पम् । जल्पतिकल्पम् ॥
विभाषा सुपो बहुच् पुरस्तात्तु ॥ ६८ ॥
ईषदसमाप्तिविशिष्टे ऽर्थे वर्तमानात् सुबन्ताद्विभाषा बहुच् प्रत्ययो
भवति, स च पुरस्तादेव भवति, न परतः चित्करणमन्तोदात्तार्थम् । ईषद-
समाप्तः पटुः, । बहुपटुः । बहुमृदुः । बहुगुडा द्राक्षा । विभाषाग्रहणात् कल्प-
बादयो ऽपि भवन्ति । सुब्ग्रहणं तिङन्तान्मा भूदिति ॥
प्रकारवचने जातीयर् ॥ ६९ ॥
सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने, प्रकृत्यर्थविशेषणं
चैतत् । सुबन्तात्प्रकारविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातो-
यर् प्रत्ययो भवति । प्रकारवति चायं प्रत्ययः । थाल्पुनः प्रकारमात्रएव भवति ।
पटुप्रकारः, पटुजातीयः । मृदुजातीयः । दर्शनीयजातीयः ॥
प्रागिवात्कः ॥ ७० ॥
इवे प्रतिकृताविति वक्ष्यति । प्रागेतस्माद्विकसंशब्दिताद्यानित ऊर्ध्वम-
नुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति अज्ञातादिति । अश्वकः ।
गर्दभकः ॥ तिङन्तादयं प्रत्ययो नेष्यते ॥ वक्ष्यिष्यते ॥ तिङ्श्चेत्यनुवृत्तमुत्तर-
[L

४४८ काशिका ॥ ५ ॥ ३ ॥
अव्ययसर्वनाम्नाकच्प्राक् टेः ॥ ७१ ॥
तिङश्चेत्येव। अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेष्वकच्प्रत्ययो भवति,
स च प्राक् टेः, न परतः। कस्यापवादः । उच्चकैः । नीचकैः । शनकैः । सर्व-
नाम्नः खल्वपि। सर्वके। विश्वके। उभयके । प्रातिपदिकात्सुप इति द्वयम-
प्यनुवर्त्तते । तत्राभिधानतो व्यवस्था भवति । क्व चित्प्रातिपदिकस्य प्राक् टेः
प्रत्ययो भवति। क्व चित्सुबन्तस्य । युष्माकाभिः । अस्माकाभिः । युष्माकासु ।
अस्माकासु । युवक्रयोः । आवकयोः । इत्यत्र प्रातिपदिकस्य । त्वयका ।
मयका । त्वयकि । मयकीत्यत्र सुबन्तस्य ॥ प्राकप्रकरणे तूष्णीमः काम् प्रत्ययो
वक्तव्यः ॥ * ॥ स च मित्त्वादन्त्यादचः परो भवति । तूष्णीकामास्ते। तूष्णीकां
[L1

॥ काशिका ॥ ५ ॥ ३ ॥ ४४९
अनुकम्पायाम् ॥ ७६ ॥
कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा । तस्यां गम्यमानायां सुबन्तात्तिङ-
न्ताच्च यथाविहितं प्रत्ययो भवति । पुत्रकः । वत्सकः । दुर्बलकः । बुभुक्षि-
तकः * । विश्वसितकि । स्वपितकि ॥
नीतौ च तद्युक्तात् ॥ ७७ ॥
सामदानादिरुपायो नीतिः । नीतौ च गम्यमानायां तद्युक्तादनुकम्पायु-
क्ताद्यथाविहितं प्रत्ययो भवति । हन्त ते धानकाः । हन्त ते तिलकाः । एहिकि ।
बहुकि । अनुकम्प्यमाने दानेनाराधयति । पूर्वेणाप्रत्यासत्त्यानुकम्पासंबन्धादनुक-
म्प्यमानादेव प्रत्ययो विहितः । संप्रति व्यवहितादपि यथा स्यादिति वचनम् ॥
बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥
अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । बह्वचः प्रातिपदिकान्मनु-
ष्यनामधेयाद्वा ठच्प्रत्ययो भवति अनुकम्पायां गम्यमानायां नीतौ च ।
देविकः । देवदत्तकः । यज्ञिकः । यज्ञदत्तकः । बह्वच इति किम् । दत्तकः ।
गुप्तकः । मनुष्यनाम्न इति किम् । मद्रबाहुकः । भद्रबाहुकः ॥
घनिलचौ च ॥ ७९ ॥
अनुकम्पायामित्यादि सर्वमनुवर्तते । पूर्वेण ठचि विकल्पेन प्राप्ते वच-
नम् । बह्वचो मनुष्यनाम्नो घन् इलच् इत्येतौ प्रत्ययौ भवतः । चकाराद्यथा-
प्राप्तम् । देवियः । देविलः । देविकः । देवदत्तकः । यज्ञियः । यज्ञिलः ।
यज्ञिकः । यज्ञदत्तकः ॥
प्राचामुपादेरड्वुचौ च ॥ ८० ॥
पूर्ववत् सर्वमनुवर्तते । उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद्
बह्वचो मनुष्यनाम्नो ऽडच् बुच् प्रत्ययौ भवतः । चकाराद् घनिलचौ प्रत्ययौ
भवतः । ठच्च वा । उपडः । उपकः । उपियः । उपिलः । उपिकः । उपेन्द्रद-
त्तकः । प्राचांग्रहणं पूजार्थम् । वेत्येव हि वर्तते ॥
जातिनाम्नः कन् ॥ ८१ ॥
बह्वच इति नानुवर्तते । सामान्येन विधानं, जातिशब्दो यो मनुष्यना-
मधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति ।
व्याघ्रकः । सिंहकः । शरभकः । वावचनानुवृत्तेर्यथादर्शन†मन्यो ऽपि भवति ।
व्याघ्रिलः । सिंहिलः । नामग्रहणं स्वरूपनिवृत्त्यर्थम् ॥

  • ज्वरितकः । इत्याधिकं पुस्तकान्तरे ।
  • यथासंभवमिति पा० २ ।
    २६

४५० ॥ काशिका ॥ ५ ॥ ३ ॥
अजिनान्तस्योत्तरपदलोपश्च ॥ ८२ ॥
कनित्यनुवर्त्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात्प्रातिपदिकान्मनु-
ष्यनाम्नो ऽनुकम्पायां कन्प्रत्ययो भवति तस्य चोत्तरपदलोपः। व्याघ्राजिनो
नाम कश्चिन्मनुष्यः। सोऽनुकम्पितः। व्याघ्रकः। सिंहकः॥
ठाजादावूर्ध्वं द्वितीयादचः ॥ ८३ ॥
लोप इत्यनुवर्त्तते। अस्मिन्प्रकरणे यष्ठो ऽजादिश्च प्रत्ययस्तस्मिन्परतः
प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपा-
र्थम्। अनुकम्पितो देवदत्तः, देविकः। देवियः। देविलः। यज्ञिकः। यज्ञियः।
यज्ञिलः। उपडः। उपकः। उपेन्द्रदत्तकः। ठग्रहणमुक्तो द्वितीयत्वे कविधा-
नार्थम्। अजादिलक्षणे हि प्राथ

॥ काशिका ॥ ५ ॥ ३ ॥ ४५१

अल्पे ॥ ८५ ॥
परिमाणापचये अल्पशब्दः, प्रकृतिविशेषकं चैतत् । अल्पत्वविशिष्टे ऽर्थे
वर्तमानात्प्रातिपदिकाद्यथाविहितं प्रत्ययो भवति । अल्पं तैलं, तैलकम् ।
घृतकम् । सर्वकम् । विश्वकम् । उच्चकैः । नीचकैः । पचतकि । जल्पतकि ॥
ह्रस्वे ॥ ८६ ॥
ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो
भवति । दीर्घप्रतियोगी ह्रस्वः । ह्रस्वो वृक्षो, वृक्षकः । प्लक्षकः । स्तम्बकः ॥
संज्ञायां कन् ॥ ८७ ॥
ह्रस्वइत्येव । ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् प्रत्ययो
भवति । पूर्वस्यायमपवादः । वंशकः । वेणुकः । दण्डकः ॥
कुटीशमीशुण्डाभ्यो रः ॥ ८८ ॥
ह्रस्वइत्येव । संज्ञाग्रहणं नानुवर्त्तते, सामान्येन विधानम् । कुटीशमी-
शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुटी,
कुटीरः । शमीरः । शुण्डारः । स्वार्थकत्वे ऽपि पुंल्लिङ्गता लोकाश्रयत्वा-
ल्लिङ्गस्य ॥
कुत्वा डुपच् ॥ ८९ ॥
ह्रस्वइत्येव । कुतूशब्दाद्ध्रस्वत्वे द्योत्ये डुपच्प्रत्ययो भवति । कस्यापवादः ।
ह्रस्वा कुतूः कुतुपञ्चर्ममयं स्नेहभाजनमुच्यते । कूतूरित्यावपनस्याख्या ॥
कासूगोणीभ्यां ष्टरच् ॥ ९० ॥
ह्रस्वइत्येव । कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच्प्रत्ययो भवति ।
कस्यापवादः । षकारो ङीषर्थः । ह्रस्वा कासूः, कासूतरी । गोणीतरी । कासू-
रिति शक्त्यायुधविशेष उच्यते ॥
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९१ ॥
ह्रस्वइति निवृत्तम् । वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये
ष्टरच्प्रत्ययो भवति । यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे
प्रत्ययः । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रथमवया वत्सः तस्य
तनुत्वं द्वितीयवयःप्राप्तिः । तदृक्ष उक्षा । तस्य तनुत्वं तृतीयवयःप्राप्तिः ।
अश्वेनाश्वायामुत्पन्नो ऽश्वस्तस्य तनुत्वमन्यपितृकता । अनड्वानृषभः । तस्य
तनुत्वं भारवहने मन्दशक्तिता ॥
कियत्तदोर्निर्द्धारणे द्वयोरेकस्य डतरच् ॥ ९२ ॥

४५२ ॥ काशिका ॥ ५ । ३ ॥
किं यत् तत् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच्
प्रत्ययो भवति । निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः । जात्या * क्रियया गुणेन
वा संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । कतरो भवतोः कठः ।
कतरो भवतोः कारकः । कतरो भवतोः पटुः । कतरो भवतोर्देवदत्तः । यतरो
भवतोः कारकः । यतरो भवतोः पटुः । यतरो भवतोर्देवदत्तः । ततर आगच्छतु ।
महाविभाषया ऽत्र प्रत्ययो विकल्प्यते । को भवतोर्देवदत्तः, स आगच्छतु ।
निर्धारणइति विषयसप्तमीनिर्देशः । द्वयोरिति समुदायान्निर्धारणविभक्तिः ।
एकस्येति निर्देशः निर्धार्यमाणनिर्देशः ॥
वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९३ ॥
कियत्तद् इति वर्तते, निर्धारणे एकस्येति च । बहूनामिति निर्धारणे
षष्ठी । बहूनां मध्ये एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमा-
दिभ्यः वा डतमच् प्रत्ययो भवति । कतमो भवतां कठः । यतमो भवतां कठः ।
ततम आगच्छतु । वावचनमकर्तव्यम्, यको भवतां कठः । सक आगच्छतु । महा-
विभाषा च प्रत्ययविकल्पार्थानुवर्ततएव । को भवतां कठः । योभवतां कठः । स
आगच्छतु । जातिपरिप्रश्नइति किम् । को भवतां देवदत्तः । परिप्रश्नग्रहणं च
किम एव विशेषणं, न यत्तदोरसंभवात् । जातिग्रहणं तु सर्वैरेव संबध्यते । किमो
ऽस्मिन्विषये डतरमपीच्छन्ति के चित् । कतरो भवतां कठः । कतरो भवतां
कालाप इति । तन्न कतरकतमौ जातिपरिप्रश्नइति वचनात्सिद्धम् ॥
एकाच्च प्राचाम् ॥ ९४ ॥
एकशब्दात्प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ
भवतः स्वस्मिन्विषये । चकारो डतरचो ऽनुकर्षणार्थः । द्वयोर्निर्धारणे डतरच् ।
बहूनां निर्धारणे डतमच् । जातिपरिप्रश्नइति नानुवर्तते । सामान्येन विधा-
नम् । एकतरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । प्राचांग्रहणं
पूजार्थे, विकल्प्यानुवर्तते ॥
अवक्षेपे कन् ॥ ९५ ॥
अवक्षिप्यते येन तदवक्षेपणम् । तस्मिन्वर्तमानात्प्रातिपदिकात्कन्प्र-
त्ययो भवति । व्याकरणकेन नाम त्वं गर्वितः । याज्ञिक्यकेन नाम त्वं गर्वितः ।
परस्य कुत्सार्थे यदुपादीयते तदिहोदाहरणम् । यत्पुनः स्वयमेव कुत्सितं तत्र
कुत्सितइत्यनेन कन्प्रत्ययो भवति । देवदत्तको, यज्ञदत्तक इति । प्रागिवीयस्य
परो ऽवधिः ॥

  • जात्येत्येकस्मिन् पुस्तके नास्ति, कतरो भवतोः कठ इति तदुदाहरणं च । तच्चैव युक्त-
    म्पदभञ्जन्यां जात्या वेत्यपि दृष्टव्यं, कतरो भवतोः कठ इत्यादेरपि संभवदिति दर्शनात् ।

॥ काशिका ॥ ५ ॥ ३ ॥ ४५३
इवे प्रतिकृतौ ॥ ९६ ॥
कनित्यनुवर्त्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो
भवति इवार्थः सादृश्यं तस्य विशेषणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं
प्रतिच्छन्दकम् । अश्व इवायमश्वप्रतिकृतिः, अश्वकः । उष्ट्रकः । गर्दभकः ।
प्रतिकृताविति किम् । गौरिव गवयः ॥
संज्ञायां च ॥ ९७ ॥
इवेत्यनुवर्त्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति समु-
दायेन चेत् संज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य संज्ञा, अश्वकः ।
उष्ट्रकः । गर्दभकः ॥
लुम्मनुष्ये ॥ ९८ ॥
संज्ञायामित्येव । संज्ञायां विहितस्य कनो मनुष्ये ऽभिधेये लुप् भवति ।
चञ्चेव मनुष्यः, चञ्चा । दासी । खरकुटी । मनुष्यइति किम् । अश्वकः ।
उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्यैवायं प्रपञ्चो वेदितव्यः ॥
जीविकार्थे चापण्ये ॥ ९९ ॥
जीविकार्थे यदपण्यं तस्मिनभिधेये कनो लुप् भवति । विक्रीयते
यत्तत्पण्यम् । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलका-
दीनां जीविकार्थे देवप्रतिकृतय उच्यन्ते । अपण्यइति किम् । हस्तिकान्वि-
क्रीणीते । अश्वकान् । रथकान् । देवपथादेरेवायं प्रपञ्चः ॥
देवपथादिभ्यश्च ॥ १०० ॥
इवे प्रतिकृतौ संज्ञायां च विहितस्य कनो देवपथादिभ्य उत्तरस्य
लुप् भवति । आदिशब्दः प्रकारे । आकृतिगणश्चायम् । देवपथः । हंसपथः ।
अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च ।
इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥
अर्चासु तावत् । शिवः । विष्णुः । चित्रकर्मणि । अर्जुनः । दुर्योधनः ।
ध्वजेषु । कपिः । गरुडः । सिंहः । देवपथ । हंसपथ । वारिपथ । जलपथ ।
राजपथ । शतपथ । सिंहगति । उष्णग्रीवा । चामरज्जुः । रज्जुः । हस्त ।
कर्ण । दण्ड । पुष्य । मत्स्य* ॥
वस्तेर्ढञ् ॥ १०१ ॥
इवेत्यनुवर्त्तते, इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति प्रतिकृतौ चाप्रतिकृतौ
च । वस्तिशब्दादिवाऽर्थे द्योत्ये ढञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥

  • रथपथ । ऋजुपथ । सिंहपथ । इत्येते शब्दा अत्र गणेऽधिकाः पुस्तकान्तरे ।

४५४ ॥ काशिका ॥ ५ ॥ ३ ॥
शिलाया ढः ॥ १०२ ॥
शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव, शिलेयं दधि। केचि-
दत्र ठजमपीच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलाया ठञ्प्रत्ययो भवति।
शैलेयम्। ततो ढः। शिलेयम् ॥
शाखादिभ्यो यत् ॥ १०३ ॥
शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति इवार्थे। शाखेव,
शाख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण।
स्कन्ध। शिरस्। उरस्। अङ्ग। शरण। शाखादिः ॥
द्रव्यं च भव्ये ॥ १०४ ॥
द्रव्यशब्दो निपात्यते भव्ये ऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपा-
त्यते। द्रव्यम्। भव्य आत्मवान्। अभिप्रेतानामर्थानां पात्रभूत उच्यते।
द्रव्योयं राजपुत्रः। द्रव्योयं माणवकः ॥

॥ काशिका ॥ ५ । ३ ॥ ४५५

अङ्गुल्यादिभ्यष्ठक् ॥ १०८ ॥
अङ्गुल्यादिभ्यः स्वार्थे ठक् प्रत्ययो भवति । अङ्गुलीवाङ्गुलिकः । भाह-
ङ्गिकः । अङ्गुलि । भहङ्ग । बभ्रु । वल्गु । मण्डर । मण्डल । वक्कुल । कपि ।
उदश्वित् । गोणी । उरस् । शिखा । कुलिश । अङ्गुल्यादिः ॥
एकशालायाष्ठञन्यतरस्याम् ॥ १०९ ॥
एकशाला शब्दात्स्वार्थे ऽन्यतरस्यां ठञ् प्रत्ययो भवति । अन्यतरस्यांग्र-
हणेनानन्तरष्ठुक् प्राप्यते । एकशालेव, एकशालिकः । ऐकशालिकः ॥
कर्कूलोहितादीकक् ॥ ११० ॥
कर्कूलोहितशब्दाभ्यामिवार्थे ईकक् प्रत्ययो भवति । कर्कूः शुक्लो ऽश्वः,
तेन सदृशः, कार्कीकः । लोहितीकः स्फटिकः । स्वयमलोहितोऽप्युपाश्रयवशा-
त्तथा