सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 454, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 454

॥ काशिका ॥ ५ ॥ ३ ॥ ४५३
इवे प्रतिकृतौ ॥ ९६ ॥
कनित्यनुवर्त्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो
भवति इवार्थः सादृश्यं तस्य विशेषणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं
प्रतिच्छन्दकम् । अश्व इवायमश्वप्रतिकृतिः, अश्वकः । उष्ट्रकः । गर्दभकः ।
प्रतिकृताविति किम् । गौरिव गवयः ॥
संज्ञायां च ॥ ९७ ॥
इवेत्यनुवर्त्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति समु-
दायेन चेत् संज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य संज्ञा, अश्वकः ।
उष्ट्रकः । गर्दभकः ॥
लुम्मनुष्ये ॥ ९८ ॥
संज्ञायामित्येव । संज्ञायां विहितस्य कनो मनुष्ये ऽभिधेये लुप् भवति ।
चञ्चेव मनुष्यः, चञ्चा । दासी । खरकुटी । मनुष्यइति किम् । अश्वकः ।
उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्यैवायं प्रपञ्चो वेदितव्यः ॥
जीविकार्थे चापण्ये ॥ ९९ ॥
जीविकार्थे यदपण्यं तस्मिनभिधेये कनो लुप् भवति । विक्रीयते
यत्तत्पण्यम् । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलका-
दीनां जीविकार्थे देवप्रतिकृतय उच्यन्ते । अपण्यइति किम् । हस्तिकान्वि-
क्रीणीते । अश्वकान् । रथकान् । देवपथादेरेवायं प्रपञ्चः ॥
देवपथादिभ्यश्च ॥ १०० ॥
इवे प्रतिकृतौ संज्ञायां च विहितस्य कनो देवपथादिभ्य उत्तरस्य
लुप् भवति । आदिशब्दः प्रकारे । आकृतिगणश्चायम् । देवपथः । हंसपथः ।
अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च ।
इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥
अर्चासु तावत् । शिवः । विष्णुः । चित्रकर्मणि । अर्जुनः । दुर्योधनः ।
ध्वजेषु । कपिः । गरुडः । सिंहः । देवपथ । हंसपथ । वारिपथ । जलपथ ।
राजपथ । शतपथ । सिंहगति । उष्णग्रीवा । चामरज्जुः । रज्जुः । हस्त ।
कर्ण । दण्ड । पुष्य । मत्स्य* ॥
वस्तेर्ढञ् ॥ १०१ ॥
इवेत्यनुवर्त्तते, इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति प्रतिकृतौ चाप्रतिकृतौ
च । वस्तिशब्दादिवाऽर्थे द्योत्ये ढञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥

  • रथपथ । ऋजुपथ । सिंहपथ । इत्येते शब्दा अत्र गणेऽधिकाः पुस्तकान्तरे ।