काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 450, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४४९
अनुकम्पायाम् ॥ ७६ ॥
कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा । तस्यां गम्यमानायां सुबन्तात्तिङ-
न्ताच्च यथाविहितं प्रत्ययो भवति । पुत्रकः । वत्सकः । दुर्बलकः । बुभुक्षि-
तकः * । विश्वसितकि । स्वपितकि ॥
नीतौ च तद्युक्तात् ॥ ७७ ॥
सामदानादिरुपायो नीतिः । नीतौ च गम्यमानायां तद्युक्तादनुकम्पायु-
क्ताद्यथाविहितं प्रत्ययो भवति । हन्त ते धानकाः । हन्त ते तिलकाः । एहिकि ।
बहुकि । अनुकम्प्यमाने दानेनाराधयति । पूर्वेणाप्रत्यासत्त्यानुकम्पासंबन्धादनुक-
म्प्यमानादेव प्रत्ययो विहितः । संप्रति व्यवहितादपि यथा स्यादिति वचनम् ॥
बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥
अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । बह्वचः प्रातिपदिकान्मनु-
ष्यनामधेयाद्वा ठच्प्रत्ययो भवति अनुकम्पायां गम्यमानायां नीतौ च ।
देविकः । देवदत्तकः । यज्ञिकः । यज्ञदत्तकः । बह्वच इति किम् । दत्तकः ।
गुप्तकः । मनुष्यनाम्न इति किम् । मद्रबाहुकः । भद्रबाहुकः ॥
घनिलचौ च ॥ ७९ ॥
अनुकम्पायामित्यादि सर्वमनुवर्तते । पूर्वेण ठचि विकल्पेन प्राप्ते वच-
नम् । बह्वचो मनुष्यनाम्नो घन् इलच् इत्येतौ प्रत्ययौ भवतः । चकाराद्यथा-
प्राप्तम् । देवियः । देविलः । देविकः । देवदत्तकः । यज्ञियः । यज्ञिलः ।
यज्ञिकः । यज्ञदत्तकः ॥
प्राचामुपादेरड्वुचौ च ॥ ८० ॥
पूर्ववत् सर्वमनुवर्तते । उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद्
बह्वचो मनुष्यनाम्नो ऽडच् बुच् प्रत्ययौ भवतः । चकाराद् घनिलचौ प्रत्ययौ
भवतः । ठच्च वा । उपडः । उपकः । उपियः । उपिलः । उपिकः । उपेन्द्रद-
त्तकः । प्राचांग्रहणं पूजार्थम् । वेत्येव हि वर्तते ॥
जातिनाम्नः कन् ॥ ८१ ॥
बह्वच इति नानुवर्तते । सामान्येन विधानं, जातिशब्दो यो मनुष्यना-
मधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति ।
व्याघ्रकः । सिंहकः । शरभकः । वावचनानुवृत्तेर्यथादर्शन†मन्यो ऽपि भवति ।
व्याघ्रिलः । सिंहिलः । नामग्रहणं स्वरूपनिवृत्त्यर्थम् ॥
- ज्वरितकः । इत्याधिकं पुस्तकान्तरे ।
- यथासंभवमिति पा० २ ।
२६