सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 446, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 446

॥ काशिका ॥ ५ ॥ ३ ॥ ४४५
भवतः । प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति । सर्वेऽमी आढ्याः,
अयमेषामतिशयेनाढ्य, आढ्यतमः । दर्शनीयतमः । सुकुमारतमः । अयमेषाम-
तिशयेन पटुः, पटिष्ठः । लघिष्ठः । गरिष्ठः । यदा च प्रकर्षवतां पुनः प्रकर्षो
विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव । देवो वः सविता प्रार्प-
यतु श्रेष्ठतमाय कर्मणे । युधिष्ठिरः श्रेष्ठतमः कुरूणामिति ॥
तिङश्च ॥ ५६ ॥
तिङन्ताच्चातिशायने द्योत्ये तमप् प्रत्ययो भवति । ङ्याप्प्रातिपदिका-
दित्यधिकारात्सिद्धो न प्राप्नोतीति इदं वचनम् । सर्वेऽमी पचन्तीति अयमेषा-
मतिशयेन पचति, पचतितमाम् । जल्पतितमाम् । इष्ठन्नोदाह्रियते । गुणवचने
नियमितत्वात् ॥
द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५७ ॥
द्वयोरर्थयोर्वचनं द्विवचनम् । विभक्तव्यो विभज्यः । निपातनाद्वात् ।
द्व्यर्थे विभज्ये चोपपदे प्रातिपदिकात्तिङन्ताच्चातिशायने तरबीयसुनौ प्रत्ययौ
भवतः । तमबिष्ठनोरपवादौ ॥ यथासंख्यमत्र नेष्यते ॥ द्वाविमावाढ्यौ, अयम-
नयोरतिशयेनाढ्यतरः । सुकुमारतरः । पचतितराम् । जल्पतितराम् । ईयसु-
न्खल्वपि । द्वाविमौ पटू । अयमनयोरतिशयेन पटुः, पटीयान् । लघीयान् ।
विभज्ये चोपपदे । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । दर्शनीयतराः । पटी-
यांसः । लघीयांसः ॥
अजादी गुणवचनादेव ॥ ५८ ॥
इष्ठन्नीयसुनावजादी सामान्येन विहितौ तयोरयं विषयनियमः क्रियते ।
गुणवचनादेव भवतस्तौ नान्यस्मादिति पटीयान् । लघीयान् । पटिष्ठः ।
लघिष्ठः । इह न भवतः । पाचकतरः । पाचकतम इति । एवकार इष्टतो
ऽवधारणार्थः । प्रत्ययनियमो ऽयं न प्रकृतिनियम इति । पटुतरः पटुतमः ॥
तुश्छन्दसि ॥ ५९ ॥
तुरिति तृन्तृचोः सामान्येन ग्रहणम् । तृन्ताच्छन्दसि विषये अजादी
प्रत्ययौ भवतः पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तरादप्यभ्यनुज्ञा-
यन्ते तृन्तादप्यजादी भवत इति । आहुतिं करिष्ठः । दोहीयसी धेनुः ।
भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयस्स्विति तृचो निवृत्तिः ॥
प्रशस्यस्य श्रः ॥ ६० ॥
प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः ।
अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते । ननु च प्रशस्यशब्द