काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 452, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४५१
अल्पे ॥ ८५ ॥
परिमाणापचये अल्पशब्दः, प्रकृतिविशेषकं चैतत् । अल्पत्वविशिष्टे ऽर्थे
वर्तमानात्प्रातिपदिकाद्यथाविहितं प्रत्ययो भवति । अल्पं तैलं, तैलकम् ।
घृतकम् । सर्वकम् । विश्वकम् । उच्चकैः । नीचकैः । पचतकि । जल्पतकि ॥
ह्रस्वे ॥ ८६ ॥
ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो
भवति । दीर्घप्रतियोगी ह्रस्वः । ह्रस्वो वृक्षो, वृक्षकः । प्लक्षकः । स्तम्बकः ॥
संज्ञायां कन् ॥ ८७ ॥
ह्रस्वइत्येव । ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् प्रत्ययो
भवति । पूर्वस्यायमपवादः । वंशकः । वेणुकः । दण्डकः ॥
कुटीशमीशुण्डाभ्यो रः ॥ ८८ ॥
ह्रस्वइत्येव । संज्ञाग्रहणं नानुवर्त्तते, सामान्येन विधानम् । कुटीशमी-
शुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्यापवादः । ह्रस्वा कुटी,
कुटीरः । शमीरः । शुण्डारः । स्वार्थकत्वे ऽपि पुंल्लिङ्गता लोकाश्रयत्वा-
ल्लिङ्गस्य ॥
कुत्वा डुपच् ॥ ८९ ॥
ह्रस्वइत्येव । कुतूशब्दाद्ध्रस्वत्वे द्योत्ये डुपच्प्रत्ययो भवति । कस्यापवादः ।
ह्रस्वा कुतूः कुतुपञ्चर्ममयं स्नेहभाजनमुच्यते । कूतूरित्यावपनस्याख्या ॥
कासूगोणीभ्यां ष्टरच् ॥ ९० ॥
ह्रस्वइत्येव । कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच्प्रत्ययो भवति ।
कस्यापवादः । षकारो ङीषर्थः । ह्रस्वा कासूः, कासूतरी । गोणीतरी । कासू-
रिति शक्त्यायुधविशेष उच्यते ॥
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९१ ॥
ह्रस्वइति निवृत्तम् । वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये
ष्टरच्प्रत्ययो भवति । यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे
प्रत्ययः । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रथमवया वत्सः तस्य
तनुत्वं द्वितीयवयःप्राप्तिः । तदृक्ष उक्षा । तस्य तनुत्वं तृतीयवयःप्राप्तिः ।
अश्वेनाश्वायामुत्पन्नो ऽश्वस्तस्य तनुत्वमन्यपितृकता । अनड्वानृषभः । तस्य
तनुत्वं भारवहने मन्दशक्तिता ॥
कियत्तदोर्निर्द्धारणे द्वयोरेकस्य डतरच् ॥ ९२ ॥