सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 437, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 437

४३६ ॥ काशिका ॥ ५ ॥ ३ ॥
अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्याय,स्ताभ्यां
युस्प्रत्ययो भवति मत्त्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः।
शुभंयुः । कल्याणवानित्यर्थः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
पञ्चमस्याध्यायस्य द्वितीयः पादः ॥
॥ अथ पञ्चमाध्यायस्य तृतीयः पादः ॥
प्राग्दिशो विभक्तिः ॥ १ ॥
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्य इति वक्ष्यति, प्रागेतस्माद्दिक्शं-
ब्दानाख्यानादित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसंज्ञास्ते वेदितव्याः । वक्ष्यति । पञ्च-
म्यास्तसिल् । ततः । यतः । कुतः । तसिलादीनां विभक्तित्वे प्रयोजनं त्यदा-
दिविधयः, इदमो विभक्तिस्वरश्च । इह । उँडिदमिति विभक्त्युदात्तत्वं सिद्धं
भवति । इतः परं स्वार्थिकाः प्रत्ययास्तेषु समर्थाधिकारः प्रथमाग्रहणं च प्रति-
योग्यपेक्षत्वाच्चोपयुज्यतइति निवृत्तम् । वावचनमनुवर्त्ततएव, तेन विकल्पेन
तसिलादयो भवन्ति । कुतः । कस्मात् । कुत्र । कस्मिन्निति ॥
किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः ॥ २ ॥
प्राग्दिश इत्येव । किमः सर्वनाम्नो बहुशब्दाच्च प्राग्दिशः प्रत्यया वेदि-
तव्याः । सर्वनामत्वात्प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते । कुतः । कुत्र । यतः ।
यत्र । ततः । तत्र । बहुत्तः । बहुत्र । अद्व्यादिभ्य इति किम् । द्वाभ्याम् ।
द्वयोः । प्रकृतिपरिसंख्यानं किम् । वृत्तात् । वृत्ते । प्राग्दिश इत्येव । वैयाकर-
णपाशः । सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासात् ॥ बहुग्रहणे
संख्याग्रहणम् ॥ * ॥ इह न भवति । बहोः सूपात् । बहौ सूपइति ॥
इदम इश् ॥ ३ ॥
प्राग्दिश इत्येव । इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्य-
येषु परतः । शकारः सर्वादेशार्थः । इह ॥
एतेतौ रथोः ॥ ४ ॥
रेफथकारादौ प्राग्दिशीये प्रत्यये परत इदम एतेतावादेशौ भवतः । इशो-
पवादः । रेफे ऽकार उच्चारणार्थः । इदमो र्हिल् । एतर्हि । इदमस्थमुः । इत्थम् ॥
एतदोऽन् ॥ ५ ॥