काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 438, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४३७
प्राग्दिशइत्येव । एतदः प्राग्दिशीये परतो ऽशित्ययमादेशो भवति ।
शकारः सर्वादेशार्थः । अतः । अत्र । एतद् इति योगविभागः कर्त्तव्यः । एतदो
रथोः परत एत इत् इत्येतावादेशौ भवतः । एतर्हि । इत्थम् । रेफादिरनद्य-
तने र्हिलन्यतरस्यामिति विद्घातएव । थमुप्रत्ययः पुनरेतद् उपसंख्येयः ॥
सर्वस्य सो ऽन्यतरस्यां दि ॥ ६ ॥
सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो
ऽन्यतरस्याम् । सर्वदा । सदा । प्राग्दशीयइत्येव । सर्वं ददातीति सर्वदा
ब्राह्मणी ॥
पञ्चम्यास्तसिल् ॥ ७ ॥
पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल्प्रत्ययो भवति । कुतः । यतः ।
ततः । बहुतः ।
तसेश्च ॥ ८ ॥
प्रतियोगे पञ्चम्यास्तसिः, अपादाने चाहीयरुहोरिति वक्ष्यति । तस्य
तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशोभवति । कुत आगतः । यतः ।
ततः । बहुत आगतः । तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च ॥
पर्यभिभ्यां च ॥ ९ ॥
परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति ॥ सर्वोभयार्थे वर्त्तमानाभ्यां
प्रत्यय इष्यते ॥ परितः सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥
सप्तम्यास्त्रल् ॥ १० ॥
किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति । कुत्र । तत्र ।
बहुत्र ॥
इदमो हः ॥ ११ ॥
इदमः सप्तम्यन्ताद्धः प्रत्ययो भवति । त्रलो ऽपवादः । इह ॥
किमो ऽत् ॥ १२ ॥
किमः सप्तम्यन्तादत्प्रत्ययो भवति । त्रलो ऽपवादः । क्व भोक्ष्यसे ।
क्वाध्येष्यसे । त्रलमपि के चिदिच्छन्ति । कुत्र । तत्कथ, मुत्तरसूत्राद्वावचनं
पुरस्तादपकृष्यते ॥
वा ह च्छन्दसि ॥ १३ ॥
किमः सप्तम्यन्ताद्वा हः प्रत्ययो भवति छन्दसि विषये । यथाप्राप्तं
च । क्व । कुह । कुत्र चिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः ॥