काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 439, कुल 828 में से
संदर्भ में पढ़ें४३८ ॥ काशिका ॥ ५ ॥ ३ ॥
इतराभ्योऽपि दृश्यन्ते ॥ १४ ॥
सप्तमीपञ्चम्यपेक्षमितरत्वम् । इतराभ्यो विभक्तिभ्यस्तसिलादयो
दृश्यन्ते । दृशिग्रहणं प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एवैतद्विधानम् । के
पुनर्भवदादयः । भवान्दीर्घायुरायुष्मान् देवानांप्रिय इति । स भवान् । ततो
भवान् । तत्र भवान् । तं भवन्तम् । तत्र भवन्तम् । ततो भवन्तम् । तेन
भवता । तत्र भवता । ततो भवता । तस्मै भवते । ततो भवते । तत्र भवते ।
तस्माद्भवतः । ततो भवतः । तत्र भवतः । तस्य भवतः । ततो भवतः ।
तत्र भवतः । तस्मिन् भवति । ततो भवति । तत्र भवति । एवं दीर्घायुष्प्र-
भृतिष्वप्युदाहार्यम् ॥
सर्वेकान्यकिंयत्तदः काले दा ॥ १५ ॥
सप्तम्या इति वर्तते, न त्वितराभ्य इति । सर्वादिभ्यः प्रातिपदिकेभ्यो
दा प्रत्ययो भवति । त्रलोपवादः । सर्वस्मिन्काले, सर्वदा । एकदा । अन्यदा ।
कदा । तदा । काले इति किम् । सर्वत्र देशे ॥
इदमो हिँल् ॥ १६ ॥
सप्तम्या इत्येव । काल इति च । इदमः सप्तम्यन्तात्काले वर्तमानाद्
हिँल् प्रत्ययो भवति । हस्यापवादः । लकारः स्वरार्थः । अस्मिन् काले,
एतर्हि । कालेत्येव । इह देशे ॥
अधुना ॥ १७ ॥
अधुनेति निपात्यते । इदमो ऽश्भावो धुना च प्रत्ययः । अस्मिन्काले,
अधुना ॥
दानीं च ॥ १८ ॥
इदमः सप्तम्यन्तात्काले वर्तमानाद्द्दानीं प्रत्ययो भवति । अस्मिन्काले,
इदानीम् ॥
तदो दा च ॥ १९ ॥
तदः सप्तम्यन्तात्काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद्द्दानीं
च । तस्मिन्काले, तदा । तदानीम् । तदो दावचनमनर्थकं, विहितत्वात् ॥
तयोर्दाहिँलौ चच्छन्दसि ॥ २० ॥
तयोरिति प्रातिपदिकनिर्देशः । तयोरिदमः तदश्च यथासंख्यं दाहिँलौ
प्रत्ययौ भवतश्छन्दसि विषये । चकाराद्यथाप्राप्तं च । इदावत्सरीमः । इत्थं
तर्हि । इदानीम् । तदानीम् ॥