काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
प्रत्ययो भवति ।"
Wait: "वि स्तॄ इति वर्तते ।" or "वि स्तृ इति वर्तते ।"?
In print: "वि स्तृ इति वर्तते ।" (single curve under त).
Then: "विपूर्वात्स्तृद्धातेश्छन्दोनाम्नि घञ् प्रत्ययो भवति ।"
Wait, "स्तृद्धातेः" or "स्तॄद्धातेः"? It has a single curve.
L22:
"वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।"
Wait: "वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।"
Wait, look at the first word: "वृत्तमात्रं" or "वृत्तमत्र"?
It has a line: "वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।"
L23:
"विष्टारपङ्क्तिश्छन्दः । विष्टारबृहतीच्छन्दः । विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न"
Wait, "विष्टारबृहतीच्छन्दः" or "विष्टारबृहतीछन्दः"?
Look at L
, why would it be पराव्?
Wait, in Ashtadhyayi:
3.3.38 is पर्यावनुपात्ययेऽणः? No, पर्यावनुपात्यये (परि + औ = पर्यौ; पर्यौ + अनुपात्यये = पर्यावनुपात्यये, by vānta-ādeśa!).
Wait, if it's पर्यावनुपात्यये, then पर्याव... has र्या!
Does line 10 have र्या?
Let's look at line 10:
प then रा? Wait, look at र्या in line 12: पर्यायः. The र्या has a hook at the top, and the letter य with ा!
Does line 10 have य? NO, it has र followed by ा: रा!
So line 10 literally says: परावनुपात्ययइणः ॥ ३८ ॥! It's a misprint in this edition (omitting the य and repha, or reading परावनुपात्ययइणः).
Wait, and at the end of line 10: यइणः! It has इणः!
So it is definitely printed as: परावनुपात्ययइणः ॥ ३८ ॥.
Line 11:
`परिश
२०८ ॥ काशिका ॥ ३ ॥ ३ ॥
संघे चानौत्तराधर्ये ॥ ४२ ॥
चेरित्येव । प्राणिनां समुदायः संघः । स च द्वाभ्यां प्रकाराभ्यां भवति ।
एकधर्मसमावेशेन, चौत्तराधर्येण वा । तत्र चौत्तराधर्यपर्युदासादितरो गृह्यते ।
संघे वाच्ये चिनोतेर्द्धातोर्घञ् प्रत्ययो भवति आदेशश्च कः । भिक्षुकनिकायः ।
ब्राह्मणनिकायः । वैयाकरणनिकायः । अनौत्तराधर्ये इति किम् । सूकरनिचयः ।
प्राणिविषयत्वात्संघस्येह न भवति । कृताकृतसमुच्चयः । प्रमाणसमुच्चयः ॥
कर्मव्यतिहारे णच् स्त्रियाम् ॥ ४३ ॥
कर्म, क्रिया । व्यतिहारः, परस्परं करणम् । कर्मव्यतिहारे गम्यमाने
धातोर्णच्प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये । तच्च भावे । णकारो विशेषाणार्थः
णचः स्त्रियामिति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्तते । स्त्रिया-
मित
॥ काशिका ॥ ३ ॥ ३ ॥ २०६
परौ यज्ञे ॥ ४७ ॥
परिशब्दउपपदे गृहेर्घञ् प्रत्ययो भवति। यज्ञविषयश्चेत्प्रत्ययान्ताभिधेयः
स्यात्। उत्तरपर्याहः। अधरपर्याहः। यज्ञ इति किम्। परिग्रहो देवदत्तस्य॥
नौ वृ धान्ये ॥ ४८ ॥
वृ इति वृङ्-वृञोः सामान्येन ग्रहणम्। निशब्दउपपदे वृ इत्येतस्माद्धा-
तोर्धान्यविशेषे ऽभिधेये घञ् प्रत्ययो भवति। अपोऽपवादः। नीवारा नाम
व्रीहयः। धान्य इति किम्। निवरा कन्या॥
उदि श्रयतियैतिपूद्रुवः ॥ ४९ ॥
उच्छब्दउपपदे श्रयत्यादिभ्यो घञ् प्रत्ययो भवति। अजपोर्पवादः।
उच्छ्रायः। उच्छावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः।
वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन संबध्यते॥
२१० ॥ काशिका ॥ ३ ॥ ३ ॥
भवति । प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते । प्रावारः । प्रवरः । आच्छा-
दनइति किम् । प्रवरा गौः ॥
परौ भुवो ऽवज्ञाने ॥ ५५ ॥
विभाषेत्येव । परिशब्दउपपदे भवतेर्धातोर्र्विभाषा घञ् प्रत्ययो भवति
अवज्ञाने गम्यमाने । अवज्ञानमसत्कारः । परिभावः । परिभवः । अवज्ञानइति
किम् । सर्वतो भवनं परिभवः ॥
एरच् ॥ ५६ ॥
भावे अकर्त्तरि च कारके इति प्रकृतमनुवर्त्तते यावत्कृत्यल्युटो बहुल-
मिति । इवर्णान्ताद्धातोर्भावे अकर्त्तरि च कारके संज्ञायामच् प्रत्ययो भवति ।
घञो पवादः । चकारो विशेषणार्थः । अन्तः थाथघञ्क्ताजबित्रकाणामिति ।
चयः । श्चयः । जयः । तयः ॥ अग्विधौ भयादीनामुपसंख्यानम् ॥ * ॥ नपुंसके
क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥ जवस्रवौ छन्दसिवक्तव्यौ ॥ * ॥ ऊर्व्वारस्तु
मे जवः । पञ्चौदनसवः * ॥
ऋदोरप् ॥ ५७ ॥
ऋकारान्तेभ्य उवर्णान्तेभ्यश्च अप् प्रत्ययो भवति । घञोपवादः ।
पित्करणं स्वरार्थम् । करः । गरः । शरः । उवर्णान्तेभ्यः । यवः । लवः । पवः ।
दकारो मुखसुखार्थः । मा भूत्तादपि परस्तपरः ॥
ग्रहवृदृनिश्चिगमश्च ॥ ५८ ॥
ग्रहादिभ्यो धातुभ्यो ऽप् प्रत्ययो भवति । घञोपवादः । निश्चिनोते-
स्त्वचोपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः । निश्चयग्रहणं स्वरा-
र्थम् ॥ वशिरण्योरुपसंख्यानम् ॥ * ॥ वशः । रणः ॥ घञर्थे कविधानं स्याद्धा-
यात्र्याधिनिधुधर्षम् ॥ * ॥ प्रतिष्ठन्तेस्मिन्निति प्रस्थः पर्वतस्य । प्रख्यात्यस्मि-
न्प्रख्यः । प्रपिबन्त्यस्यामिति प्रपा । आविध्यन्ति तेनेत्याविधः । विहन्यन्ते
ऽस्मिन्निति विघ्नः । आयुध्यतेनेनेत्यायुधम् ॥
उपसर्गे ऽदः ॥ ५९ ॥
अपित्येव । उपसर्गेउपपदे ऽदेर्धातोरप् प्रत्ययो भवति । विघसः ।
प्रघसः । उपसर्गेइति किम् । घसः ॥
न्यौ च ॥ ६० ॥
निशब्दउपपदे अदेर्धातोरण् प्रत्ययो भवति । चकारादप् च । न्यादः ।
निघसः ॥
- पिण्डोदनसव इति पा० ।
॥ काशिका ॥ ३ ॥ ३ ॥ २११
व्यधजपोरनुपसर्गे ॥ ६१ ॥
व्यध जप इत्येतयोरनुपसर्गयोरप् प्रत्ययो भवति । घञोऽपवादः । व्यधः ।
जपः । अनुपसर्गेति किम् । आव्याधः । उपजपः ॥
स्वनहसोर्वा ॥ ६२ ॥
अनुपसर्गइत्येव । स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति । स्वनः ।
स्वानः । हसः । हासः । अनुपसर्गइति किम् । प्रस्वानः । प्रहासः ॥
यमः समुपनिविषु च ॥ ६३ ॥
अनुपसर्गे वा इति वर्तते । सम् उप नि वि इत्येतेषूपपदेषु चानुपसर्गेऽपि यमेर्वा
अप् प्रत्ययो भवति । घञोऽपवादः । संयामः । उपयामः । संयमः । उपयमः ।
नियमः । नियामः । वियमः । वियामः । अनुपसर्गात्त्वपि । यमः । यामः ॥
नौ गदनदपठस्वनः ॥ ६४ ॥
[L
२१२ ॥ काशिका ॥ ३ ॥ ३ ॥
समुदोरजः पशुषु ॥ ६९ ॥
समुदोरुपपदयोरजतेर्द्धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति ।
घञो ऽपवादः । अज गतिक्षेपणयोरिति पठ्यते । स संपूर्वः समुदाये वर्तते,
उत्पूर्वश्च प्रेरणे । समजः पशूनां, समुदाय इत्यर्थः । उदजः पशूनां, प्रेरणमि-
त्यर्थः । पशुष्विति किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणां ॥
अक्षेषु ग्लहः ॥ ७० ॥
ग्लह इति निपात्यते अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप् सिद्ध एव
लत्वार्थे निपातनम् । अक्षस्य ग्लहः । अक्षेष्विति किम् । ग्रहः पादस्य । अन्ये
ग्लहिं प्रकृत्यन्तरमाहुः ते घञं प्रत्युदाहरन्ति । ग्लाहः ॥
प्रजने सर्त्तेः ॥ ७१ ॥
सर्त्तेर्द्धातोः प्रजने विषये अप् प्रत्ययो भवति, घञोऽपवादः । प्रजनं
प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुंगवानां गर्भा-
धानाय प्रथममुपसरंणमुच्यते ॥
ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥
नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेर्द्धातोः संप्रसारणम् अप् प्रत्ययो
भवति । घञोपवादः । निहवः । अभिहवः । उपहवः । विहवः । एतेष्विति
किम् । प्रह्वावः ॥
आङि युद्धे ॥ ७३ ॥
आङि उपपदे ह्वयतेर्द्धातोः संप्रसारणमप् प्रत्ययो भवति युद्धे ऽभिधेये ।
आहूयन्ते ऽस्मिन्नित्याहवः । युद्धइति किम् । आह्वायः ॥
निष्पानमाहावः ॥ ७४ ॥
आङ्पूर्वस्य ह्वयतेर्द्धातो. संप्रसारणम् प्रत्ययो वृद्धिश्च निपात्यते,
निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते ।
आहावः । पशूनां कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते ।
निपानमिति किम् । आह्वायः ॥
भावे ऽनुपसर्गस्य ॥ ७५ ॥
अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययो भवति भावे ऽभिधेये । हवः ।
हवेहवे सुहवं शूरमिन्द्रम् । अनुपसर्गस्येति किम् । आह्वावः । भावग्रहणमक-
र्तरि च कारके संज्ञायामित्यस्य निरासार्थम् ॥
हनश्च वधः ॥ ७६ ॥
॥ काशिका ॥ ३ । ३ ॥ २१३
भावेनुपसर्गस्येति वर्तते । हन्तेर्धातोरनुपसर्गे भावे अप् प्रत्ययो भवति,
तत्संनियोगेन च वधादेशः, स चान्तोदात्तः । तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं
भवति । वधश्चोराणाम् । वधो दस्यूनाम् । भावइत्येव । घातः । अनुपसर्गस्येत्येव ।
प्रघातो, विघातः । चकारो भिन्नक्रमत्वाच्चादेशेन संबध्यते । किं तर्हि प्रकृतेन
प्रत्ययेन, अप् च, यश्चापरः प्राप्नोति । तेन घञपि भवति । घातो वर्तते ॥
मूर्तौ घनः ॥ ७७ ॥
हन इत्येव, मूर्तिः, काठिन्यं, मूर्तावभिधेयायां हन्तेरप् प्रत्ययो भवति,
घश्चादेशः । अभ्रघनः । दधिघनः । कथं घनं दधीति । धर्मशब्देन धर्मी भण्यते ॥
अन्तर्घनो देशे ॥ ७८ ॥
अन्तःपूर्वाद्धन्तेरप् प्रत्ययो भवति घनादेशश्च भवति देशे ऽभिधेये ।
अन्तर्घनः, संज्ञीभूतो वाहीकेषु देशविशेष उच्यते । अन्ये णकारं पठन्ति ।
अन्तर्घणो देश इति, तदपि ग्राह्यमेव । देशइति किम् । अन्तर्घातोऽन्यः ॥
अगारैकदेशे प्रघणः प्रघाणश्च ॥ ७९ ॥
प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे
वाच्ये । प्रघणः । प्रघाणः । द्वारप्रकोष्ठो बाह्य उच्यते । अगारैकदेशइति
किम् । प्रघातो ऽन्यः ॥
उद्धनोऽत्याधानम् ॥ ८० ॥
उत्पूर्वस्य हन्तेरुद्धन इति निपात्यते ऽत्याधानं चेद्भवति । उद्धनः ।
यस्मिन्काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते । उद्घातोऽन्यः ॥
अपघनोऽङ्गम् ॥ ८१ ॥
अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत्तद्भवति । अपघनः, अङ्गम् ।
अवयव, एकदेशो न सर्वः किं तर्हि पाणिः पादश्चाभिधीयते । अपघातो ऽन्यः ॥
करणे ऽयोविद्रुषु ॥ ८२ ॥
हन इति वर्तते । अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारके
ऽप् प्रत्ययो भवति, घनादेशश्च । अयो हन्यतेनेनेत्ययोघनः । विघनः ।
द्रुघनः । द्रुघण इति के चिदुदाहरन्ति । कथं णत्वम् । अरीहणादिषु पाठात् ।
पूर्वपदात्संज्ञायामग इति वा ॥
स्तम्बे क च ॥ ८३ ॥
करणे हन इति वर्तते । स्तम्बशब्दउपपदे करणे कारके हन्तेः कः
प्रत्ययो भवति । चकारादप् । तत्र घनादेशः । स्तम्बघनः ॥ स्त्रियां स्तम्बघ्नी
स्तम्बघना इति दृश्यते ॥ करणइत्येव । स्तम्बघातः ॥
२१४ ॥ काशिका ॥ ३ ॥ ३ ॥
परौ घः ॥ ८४ ॥
करणे हन इत्येव । परिशब्दउपपदे हन्तेर्द्धातोरण् प्रत्ययो भवति ।
करणे कारके घशब्दश्चादेशः । परिहन्यतेनेनेति परिघः । पलिघः ॥
उपघ्न आश्रये ॥ ८५ ॥
उपपूर्वस्य हन्तेरण् प्रत्यय उपधालोपश्च निपात्यते । आश्रयशब्दः
सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः । आश्रयइति किम् ।
पर्वतोपघात एवान्यः ॥
संघोद्घौ गणप्रशंसयोः ॥ ८६ ॥
समुदोरुपपदयोर्हन्तेर्द्धातोरण् प्रत्ययो भवति टिलोपो घत्वं च निपात्यते,
यथासंख्यं गणेभिधेये प्रशंसायां गम्यमानायाम् । संघः पशूनाम् । उद्घो
मनुष्यः । गणप्रशंसयोरिति किम् । संघातः ॥
निघो निमितम् ॥ ८७ ॥
निघ इति निपूर्वाद्धन्तेरण् प्रत्ययष्टिलोपो घत्वं च निपात्यते, निमितं
चेदभिधेयं भवति । समन्तान्मितं निमितम् । समारोहपरिणाहम् । निघा
वृक्षाः । निघाः शालयः । निमितमिति किम् । निघातः ॥
द्वितः क्त्रिः ॥ ८८ ॥
भावे ऽकर्त्तरि च कारकेइति वर्तते । डु इत्यस्य तस्माद् द्वितो धातोः
क्त्रिः प्रत्ययो भवति । क्त्रेर्मम्नित्यमिति वचनात् केवलो न प्रयुज्यते । डुपचष्
पाके । पक्त्रिमम् । डुप्वप् । उप्त्रिमम् । डुकृञ् । कृत्रिमम् ॥
द्वितो ऽथुच् ॥ ८९ ॥
टु इत्यस्य तस्मात द्वितो धातोरथुच् प्रत्ययो भवति भावादौ । टुवेपृ ।
वेपथुः । टुओश्वि । श्वयथुः । टुदु । दवथुः ॥ *
यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९० ॥
भावे ऽकर्त्तरि च कारकेइति वर्तते । यजादिभ्यो धातुभ्यो नङ् प्रत्ययो
भवति । ङकारो गुणवृद्धिनिषेधार्थः । यज्ञः । याञ्चा । यत्नः । विश्नः ।
प्रश्नः । रक्ष्णः । प्रच्छेरसंप्रसारणं ज्ञापकात् प्रश्ने चासन्नकालइति ॥
स्वप्नो नन् ॥ ९१ ॥
स्वपेद्धातोर्नन् प्रत्ययो भवति । नकारः स्वरार्थः । स्वप्नः ॥
उपसर्गे घोः किः ॥ ९२ ॥
- टुदु । दवथुः । इदं कुत्र चिदधिकम् ।
॥ काशिका ॥ ३ ॥ ३ ॥ २१५
भावे ऽकर्त्तरि च कारकदिति वर्त्तते । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः
किः प्रत्ययो भवति । कित्करणादातो लोपार्थम् । प्रदिः । प्रधिः । अन्तर्द्धिः ॥
कर्मण्यधिकरणे च ॥ ९३ ॥
घोरित्येव । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति,
अधिकरणे कारके । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । अधिकरण-
ग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ॥
स्त्रियां क्तिन् ॥ ९४ ॥
भावे ऽकर्त्तरि च कारकदिति वर्त्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्र-
त्ययो भवति । घञपांमपवादः । कृतिः । चितिः । मतिः ॥ क्तिन्नाबादिभ्यश्च
वक्तव्यः ॥ * ॥ आबादयः प्रयोगतोऽनुसर्तव्याः । आप्तिः । राद्धिः । दीप्तिः ।
स्वस्तिः । ध्वस्तः । लब्धिः ॥ श्रुयजिस्तुभ्यः करणे ॥ * ॥ श्रूयते ऽनयेति
श्रुतिः । दृष्टिः । स्तुतिः ॥ म्लाम्नाज्याहाभ्यो निः ॥ * ॥ म्लानिः । म्नानिः ।
ज्यानिः । हानिः ॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् ॥ * ॥
कीर्त्तिः । गीर्त्तिः । जीर्त्तिः । शीर्त्तिः । लूनिः । यूनिः ॥ संपदादिभ्यः
क्विप् ॥ * ॥ संपत् । विपत् । प्रतिपत् ॥ क्तिन्नपीष्यते ॥ संपत्तिः । विपत्तिः ॥
स्थागापापचो भावे ॥ ९५ ॥
स्त्रियामिति वर्तते । स्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो
भवति । अङोपवादस्य बाधकः । प्रस्यितिः । उद्गीतिः । संगीतिः । प्रपीतिः ।
संपीतिः । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । कथमवस्था संस्थेति ।
व्यवस्था यामसंज्ञायामिति ज्ञापकाद् नात्यन्ताय बाधा भवतीति ॥
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९६ ॥
भावे स्त्रियामिति वर्तते । मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन्
प्रत्ययो भवति, उदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं
कृतम् । वैचित्र्यार्थम् । वृष्टिः । इष्टिः । पक्तिः । मतिः । वित्तिः । भूतिः ।
वीतिः । रातिः । सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्ता-
र्थवचनम् । इषेस्तु इच्छेति निपातनं वक्ष्यति । ततः क्तिन्नपि विधीयते मन्त्रा-
दन्यत्रादिरुदात्तः ॥
ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ॥ ९७ ॥
मन्त्रइति नानुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्त इति
वर्तते । अवतेर्ज्वरत्वरस्रिव्यविमवामुपधायाश्चेति ऊठ् । ऊतिः । स्वरार्थं वच-
नम् । यौतेर्जवतेश्च यूतिः । जूतिः । दीर्घत्वं च निपात्यते । सातिः । हेतिः
२१६ ॥ काशिका ॥ ३ । ३ ॥
भावो निपात्यते । सनोतेर्वा जनसनखनामित्यात्वे कृते स्वरार्थं निपातनम् ।
हन्तेर्हिन्वेतेर्वा हेतिः । कीर्त्तयतेः कीर्त्तिः ॥
व्रजयोर्भावे क्यप् ॥ ९८ ॥
उदात्त इत्येव । व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति,
उदात्तः । क्तिनोपवादः । व्रज्या । इज्या । पित्करणमुत्तरत्र तुगर्थम् ॥
संज्ञायां समजन्निषद्निपतमनविदषुञ्-
शीङ्भृञिणः ॥ ९९ ॥
भावइति न स्वर्यते । पूर्व एवान्वर्थाधिकारः । समजादिभ्यो धातुभ्यः
स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये । समजन्त्यस्यामिति
समज्या । निषद्या । निपत्या । मत्या । विद्या । सुत्या । शय्या । भृत्या ।
इत्या । कथं तदुक्तम् ॥
'स्त्रियां भावाधिकारोस्ति तेन भार्या प्रसिध्यति'इति ।
भावाधिकारो, भावव्यापारो, वाच्यत्वेन विवक्षितः, न तु शास्त्री-
योधिकारः ॥
कृञः श च ॥ १०० ॥
करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति । चकारात् क्यप् च । योगवि-
भागे ऽत्र कर्त्तव्यः । क्तिन्नपि यथा स्यात् । क्रिया । कृत्या । कृतिः ॥
इच्छा ॥ १०१ ॥
इषेर्धातोः शः प्रत्ययो यशाभावश्च निपात्यते । इच्छा ॥ परिचर्या-
परिसर्यामृगयाटाट्यानामुपसंख्यानम् ॥ * ॥ परिचर्या । परिसर्या । मृगया ।
अटाट्या ॥ जागर्तेरकारो वा ॥ * ॥ जागरा । जागर्या ॥
अ प्रत्ययात् ॥ १०२ ॥
प्रत्ययान्तेभ्यो धातुभ्यस्त्रियामकारः प्रत्ययो भवति । क्तिनोपवादः ।
चिकीर्षा । जिहीर्षा । पुत्रीया । पुत्रकाम्या । लोलूया । कण्डूया ॥
गुरोश्च हलः ॥ १०३ ॥
हलन्तो यो धातुर्गुरुमान् ततः स्त्रियामकारः प्रत्ययो भवति ।
क्तिनोपवादः । कुण्डा । हुण्डा । ईहा । ऊहा । गुरोरिति किम् । भक्तिः ।
हल इति किम् । नीतिः ॥
षिद्भिदादिभ्यो ऽङ् ॥ १०४ ॥
षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति । गणपठितेषु भिदा-
दिषु निष्कृष्य प्रकृतयो गृह्यन्ते । जॄष् । जरा । त्रपूष् । त्रपा । भिदादिभ्यः
स्वल्व्यपि । भिदा । छिदा । विदा । क्षिपा ॥ गुहा, निर्याषञ्जोः ॥ श्रद्धा ।
मेधा । गोधा । आरा । द्वारा । कारा । क्षिया । भारा । धारा । लेखा । रेखा ।
चूडा । पीडा । वपा । वसा । सृजा ॥ ऋपेः संप्रसारणं च ॥ कृपा भिदा,
विदारणे ॥ भित्तिरन्या ॥ छिदा, द्वैधीकरणे ॥ क्षितिरन्या ॥ आरा, शस्त्र्याम् ।
आर्त्तिरन्या ॥ धारा प्रपाते ॥ धृतिरन्या ॥
चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०५ ॥
चिति स्मृत्यां, पूज पूजायां, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च
अध्ययने, चुरादिः । एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति ।
चिन्ता । पूजा । कथा । कुम्बा । चर्चा । 'चकाराद्युजपि भवति । चिन्तना' * ॥
आतश्चोपसर्गे ॥ १०६ ॥
आकारान्तेभ्य उपसर्गे उपपदे स्त्रियामङ् प्रत्ययो भवति । क्तिनोपवादः ।
२१८ ॥ काशिका ॥ ३ । ३ ॥
संज्ञायाम् ॥ १०९ ॥
संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका ।
वरंणपुष्पप्रवाहिका * । आभ्यूषखादिका । आचोषखादिका । शालभञ्जिका ।
तालभञ्जिका ॥
विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ११० ॥
पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाचतरस्य पूर्वनिपातः । परि-
प्रश्ने आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति । चकाराद् ण्वुलपि ।
विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः । कां
कारिकामकार्षीः । कां क्रियामकार्षीः । कां कृत्यामकार्षीः । कां कृतिमकार्षीः ।
सर्वां कारिमकार्षम् । सर्वां कारिकामकार्षम् । सर्वां क्रियामकार्षम् । सर्वां कृत्या-
मकार्षम् । सर्वां कृतिमकार्षम् । कां गणिमजीगणः । कां गणनामजीगणः । सर्वां
गणिमजीगणम् । सर्वां गणिकाम् । सर्वां गणनाम् । एवं कां याजिम् । कां
याजिकाम् । कां याचिम् । कां याचिकाम् । कां पचाम् । कां पाठिम् । कां
पाठिकाम् । इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोरिति किम् । कृतिः । हृतिः ॥
पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ १११ ॥
पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत्परस्य †
धार्यते । उत्पत्तिर्जन्म । एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम-
पवादः । पर्याये तावत् । भवतः शायिका । भवतो ऽध्यासिका । अर्हे । अर्हति
भवानित्थंभक्तिकाम् ‡ । ऋणे । इत्थंभक्तिकां मे धारयसि । ओदनभोजिकाम् । पयः-
पायिकाम् । उत्पत्तौ । इत्थंभक्तिका मे उदपादि । ओदन भोजिका । पयःपायिका ।
विभाषेत्येव । चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ॥
आक्रोशे नञ्यनिः ॥ ११२ ॥
विभाषेति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञ्युपपदे
धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् ।
आक्रोशेति किम् । अकृतिस्तस्य कटस्य । नञीति किम् । कृतिस्ते वृषल भूयात् ॥
कृत्यल्युटो बहुलम् ॥ ११३ ॥
भावे ऽकर्त्तरि च कारकेति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च
- प्रचायिकेति पा० ।
- परस्मै इति पाठः । तत्र धारेरुत्तमर्ण इति संप्रदानसंज्ञा ।
‡ पयःपायिकामिति पुस्तकान्तरे ऽधिकम् ।
॥ काशिका ॥ ३ ॥ ३ ॥ २१८
बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोन्यत्रापि भवन्ति । भावकर्मणोः कृत्या
विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । कर-
णाधिकरणयोर्भावे च ल्युट् । अन्यत्रापि भवति । प्रसेचनमवस्त्रावकम् । राज-
भोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहु-
लग्रहणादन्येऽपि कृता यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते, पाद-
हारकः । गले चोप्यते, गलेचोपकः ॥
नपुंसके भावे क्तः ॥ ११४ ॥
नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् ।
जल्पितम् * ॥
ल्युट् च ॥ ११५ ॥
नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति । हसनं छात्रस्य । शोभ-
नम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥
कर्मणि च येन संस्पर्शात्कर्त्तुः शरीरसुखम् ॥ ११६ ॥
येन कर्मणा संस्पृश्यमानस्य कर्त्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे
धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमा-
सार्थं वचनम् । उपपदसमासादिर्नित्यः समासः । पयःपानं सुखम् । ओदनभो-
जनं सुखम् । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् ।
अग्निकुण्डस्योपासनं सुखम् । कर्त्तुरिति किम् । गुरोः स्नापनं सुखम् । स्नाप-
यतेर्न गुरुः कर्त्ता, किं तर्हि कर्म । शरीरग्रहणं किम् । पुत्रस्य परिष्वञ्जनं
सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् । कण्टकानां मर्दनं दुःखम् ।
सर्वत्रासमासः प्रत्युदाह्रियते ॥
करणाधिकरणयोश्च ॥ ११७ ॥
करणे ऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति । इध्मप्रव्रश्चनः ।
पलाशशातनः । अधिकरणे । गोदोहनी । सक्तुधानी ॥
पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥
करणाधिकरणयोरित्येव । पुंलिङ्गयोः करणाधिकरणयोरभिधेययोर्धा-
तोर्घः प्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकात्स्न्र्यार्थम् ।
दन्तच्छदः । उरश्छदः । घटः । अधिकरणे खल्वपि । कृत्य तस्मिन्कुर्वन्त्यित्या-
करः । आलयः । पुंसीति किम् । प्रसाधनम् । संज्ञायामिति किम् । प्रहरणी
दण्डः । घकारश्चादेर्घेद्विति विशेषणार्थः ॥
- जल्पितम् । भुक्तम् । आशितम् । इति क्व चित्पुस्तके ऽधिकम् ।
२२० ॥ काशिका ॥ ३ ॥ ३ ॥
गोचरसंचरवह्नव्रजव्यजापघनिगमाश्च ॥ ११९ ॥
गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे । हलश्चेति
घञं वक्ष्यति । तस्यायमपवादः । गावश्चरन्त्यस्मिन्निति, गोचरः । संचरन्ते ऽने-
नेति, संचरः । वहन्ति तेन, वहः । व्रजन्ति तेन, व्रजः । व्यजन्ति तेन, व्यजः ।
निपातनादजेर्व्यघञपोरिति वीभावो न भवति । एत्य तस्मिन्नापयन्तइत्यापघः ।
निगच्छन्ति तस्मिन्निति, निगमः । चकारोऽनुक्तसमुच्चयार्थः । कषः । निकषः ॥
अवेतृस्त्रोर्घञ् ॥ १२० ॥
अवउपपदे तरतेस्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्य-
यो भवति । घस्यापवादः । ञकारो वृद्ध्यर्थः, स्वरार्थश्च । घकार उत्तरत्र
कुत्वार्थः । अवतारः । अवस्तारः । कथमवतारो नद्याः । नहीयं संज्ञा । प्राया-
नुवृत्तेरसंज्ञायामपि भवति ॥
हलश्च ॥ १२१ ॥
पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्त्तते । हलन्ताद्धातोः
करणाधिकरणयोर्घञ् प्रत्ययो भवति । घस्यापवादः । लेखः । वेदः । वेषः ।
बन्धः । मार्गः । अपामार्गः ॥
अध्यायन्यायोध्यावसंहाराधारावायाश्च ॥ १२२ ॥
अध्यायादयः शब्दा घञन्ता निपात्यन्ते । पुंसि संज्ञायां घे प्राप्ते घञ्वि-
धीयते । अहलन्तार्थ आरम्भः । अधीयतेऽस्मिन्नित्यध्यायः । नीयतेनेनेति न्यायः ।
उद्ध्वन्ति अस्मिन्नित्युद्धावः । संह्रियन्ते ऽनेनेति संहारः । आध्रियते ऽस्मि-
नित्याधारः । आवयन्त्यस्मिन्नित्यावायः । चकारोऽनुक्तसमुच्चयार्थः । व्यवहारः ॥
उदङ्को ऽनुदके ॥ १२३ ॥
उदङ्क इति निपात्यते, अनुदकविषयश्चेद्धात्वर्थो भवति । उत्पूर्वादञ्च-
तेर्घेडिनिपात्यते । ननु च हलश्चेति सिद्ध एव घञ् । उदके प्रतिषेधार्थमिदं वच-
नम् । तैलोदङ्कः । अनुदकइति किम् । उदकोदञ्चनः । घः कस्मान्न प्रत्युदा-
ह्रियते । विशेषाभावात् । घञ्यपि यथादित्स्वरेणान्तोदात्त एव ॥
जालमानायः ॥ १२४ ॥
आनाय इति निपात्यते जालं चेत्तद्भवति । आङ्पूर्वान्नयतेः करणे घञ्
निपात्यते । आनायो मत्स्यानाम् । आनायो मृगाणाम् * ॥
खनो घ च ॥ १२५ ॥
- जालमिति किम् । आनयः । इति क्व चिदधिकमत्र ।
यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति सटीक देवनागरी लिप्यन्तरण है:
॥ काशिका ॥ ३ ॥ ३ ॥ २२१
खनेर्धातोः करणाधिकरणयोर्घः प्रत्ययो भवति । चकाराद् घञ् च ।
आखनः । आखानः ॥ डो वक्तव्यः ॥ * ॥ आखः ॥ डरो वक्तव्यः ॥ * ॥ आखरः ॥
डको वक्तव्यः ॥ * ॥ आखनिकः ॥ इकवको वक्तव्यः ॥ * ॥ आखनिकवकः* ॥
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ १२६ ॥
करणाधिकरणयोरिति निवृत्तम् । ईषत् दुस् सु इत्येतेषूपपदेषु कृच्छ्राकृच्छ्रा-
र्थेषु धातोः खल् प्रत्ययो भवति । कृच्छ्रं दुःखम् । तद् दुरो विशेषणम् । अकृच्छ्रं
सुखम् । तदितरयोर्विशेषणं, संभवात् । ईषत्करो भवता कटः । दुष्करः । सुकरः ।
ईषद्भोजः । दुर्भोजः । सुभोजः । ईषदादिष्विति किम् । कृच्छ्रेण कार्यः कटः । कृच्छ्रा-
२२२ ॥ काशिका ॥ ३ । ३ ॥
वर्त्तमानसामीप्ये वर्त्तमानवद्वा ॥ १३१ ॥
समीपमेव सामीप्यम् । ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्य-
र्थम् । वर्त्तमानसमीपे भूते भविष्यति च वर्त्तमानाद् धातोर्वर्त्तमानवत्प्रत्यया-
वा भवन्ति । वर्त्तमाने लडित्यारभ्य यावत्तुमुन्नादयो बहुलमिति वर्त्तमाने
प्रत्यया उक्तास्ते भूतभविष्यतोर्विधीयन्ते । कदा देवदत्तागतोऽसि । अयमाग-
च्छामि । आगच्छन्तमेव । मां विद्धि । अयमागमम् एषोऽस्म्यागतः । कदा देव-
दत्त गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । एष गमिष्यामि ।
गन्तास्मि । वत्करणं सर्वसादृश्यार्थम् । येन विशेषेण वर्त्तमाने प्रत्यया विहिताः
प्रकृत्युपपदोपाधिना तथैवात्र भवन्ति । पचमानः । यजमानः । अलङ्करिष्णुः ।
सामीप्यग्रहणं किम् । विप्रकर्षविवक्षायां मा भूत् । परूहगच्छत्पाटलिपुत्रम् ।
वर्षेण गमिष्यति । यो मन्यते गच्छामीति पदं वर्त्तमाने कालएव वर्तते ।
कालान्तरगतित्वस्तु वाक्याद्भवति । न च वाक्यगम्यः कालः पदसंस्कारवेला-
यामुपयुज्यतइति तादृशं वाक्यार्थज्ञं प्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते ।
तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते ।
भूत्राशंसायां तवच्च ॥ १३२ ॥
वेत्येव । वर्त्तमानसामीप्यइति नानुवर्त्तते । आशंसनमाशंसा । अप्राप्तस्य
प्रियार्थस्य प्राप्तिमिच्छा । तस्याश्च भविष्यत्कालो विषयः । तत्र भविष्यति काले
आशंसायां गम्यमानायां धातोर्वा भूतवत्प्रत्यया भवन्ति । चकाराद्वर्त्तमानवच्च ।
उपाध्यायश्चेदागमत् । आगतः । आगच्छति । आगमिष्यति । एते व्याकरणमधी-
गीष्महि । एते व्याकरणमधीतवन्तः । अधीमहे । अध्येष्यामहे ।
॥ काशिका ॥ ३ ॥ ३ ॥ २२३
नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ १३५ ॥
भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रति-
षेधः । अनद्यतनवत्प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने ।
क्रियायां प्रबन्धः सातत्येनानुष्ठानम् । कालानां सामीप्यं तुल्यजातीयेनाव्य-
वधानम् । यावज्जीवं भृशमन्नमदात् । भृशमन्नं दास्यति । यावज्जीवं पुत्रो-
ध्यापिपत् । यावज्जीवमध्यापयिष्यति । सामीप्ये खल्वपि । येयं पौर्णमास्यति-
क्रान्ता, तस्यामुपाध्यायोग्नीनाधित । सोमेनायष्ट । गामदित । येयममा-
वास्या ऽऽगामिनी एतस्यामुपाध्यायोऽग्नीनाधास्यते । सोमेन यक्ष्यते । स गां
दास्यते । द्वौ प्रतिषेधौ यथाप्राप्ताभ्यनुज्ञापनाय ॥
भविष्यति मर्यादावचने ऽवरस्मिन् ॥ १३६ ॥
नानद्यतनवदिति वर्तते । अक्रियाप्रबन्धार्थमसामीप्यार्थं वचनम् ।
भविष्यति काले मर्यादावचने ऽवरस्मिन्नविभागे ऽनद्यतनवत्प्रत्ययविधिर्न
भवति । योयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र
द्विरोदनं भोक्ष्यामहे । तत्र सक्तून्पास्यामः । भविष्यतीति किम् । योयमध्वा
गत आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र युक्ता अध्यैमहि । तत्र
द्विरोदनम् अभुञ्ज्महि । तत्र सक्तूनपिबाम । मर्यादावचनइति किम् । योय-
मध्वा निरवधिको गन्तव्यस्तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे ।
सक्तून् पातास्मः । अवरस्मिन्निति किम् । योयमध्वा गन्तव्य आपाटलिपुत्रात्
तस्य यत्परं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे । तत्र सक्तून्पातास्मः । इह
सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता तत्र च विशेषं वक्ष्यति ॥
कालविभागे चानहोरात्राणाम् ॥ १३७ ॥
भविष्यति मर्यादावचने ऽवरस्मिन्निति वर्तते । कालमर्यादाविभागे
सत्यवरस्मिन्नविभागे भविष्यति काले ऽनद्यतनवत्प्रत्ययविधिर्न भवति । न-
चेदहोरात्रसंबन्धी विभागस्तेषां च विभागे प्रतिषेधः । पूर्वेणैव सिद्धे वचनमि-
दमहोरात्रनिषेधार्थम् । योगविभाग उत्तरार्थः । योयं संवत्सर आगामी तस्य
यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । तत्रोदनं भोक्ष्यामहे । भविष्य-
तीत्येव । योयं वत्सरोतीतस्तस्य यदवरामाग्रहायण्यास्तत्र युक्ता अध्यैमहि ।
तत्रोदनमभुञ्ज्महि । मर्यादावचनइत्येव । योयं निरवधिकः काल आगामी
तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । तत्रोदनं भोक्तास्महे । अवर-
स्मिन्नित्येव । परस्मिन्विभागे वक्ष्यति । अनहोरात्राणामिति किम् । त्रिविधमुदा-
हरणम् । योयं मास आगामी तस्य योवरः पञ्चदशरात्रः, योयं त्रिंशद्रात्र आगामी
२. तृतीयाध्याय वृत्ति (कृदन्त एवं धातु-प्रत्यय विधान)
तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र
युक्ता अध्येतास्महे । तत्र सक्तून्पातास्मः । सर्वथा ऽहोरात्रस्पर्शे प्रतिषेधः ॥
परस्मिन्विभाषा ॥ १३८ ॥
भविष्यति मर्यादावचने कालविभागे चानहोरात्राणामिति सर्वमनुव-
र्तते । कालमर्यादाविभागे सति भविष्यति काले परस्मिन्प्रविभागे विभाषा
ऽनद्यतनवत्प्रत्ययविधिर्न भवति न चेदहोरात्रसम्बन्धी प्रविभागः । अवरस्मि-
न्वर्जे पूर्वमनुवर्तते । अवरस्मिन्पूर्वेण प्रतिषेध उक्तः संप्रति परस्मिन्प्राप्त एव
विकल्प उच्यते । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता
अध्येष्यामहे, अध्येतास्महे । तत्र सक्तून् पास्यामः । तत्र सक्तून्पातास्मः । अन-
होरात्राणामित्येव । योऽयं त्रिंशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र
युक्ता अध्येतास्महे । तत्र सक्तून् पातास्मः । भविष्यतीत्येव । योऽयं संवत्सरो-
तीतस्तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्यैमहि । तत्रौदनमभुञ्ज्महि ।
मर्यादावचनइत्येव । योऽयं संवत्सरो निरवधिकः काल आगामी तस्य यत्परमा-
ग्रहायण्यास्तत्र युक्ता ध्येतास्महे । तत्र सक्तून्पातास्मः । कालविभागइत्येव ।
योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र युक्ता अध्येता-
स्महे । ओदनं भोक्तास्महे । इति सर्वत्रानद्यतनवत्प्रत्यया उदाहार्याः ॥
लिङ्निमित्ते ऌङ् क्रियातिपत्तौ ॥ १३९ ॥
भविष्यतीत्यनुवर्तते । हेतुहेतुमतोर्लिङित्येवमादिकं लिङ्गो निमित्तं, तत्र
लिङ्निमित्ते भविष्यति काले ऌङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम् । कुत-
श्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः । दक्षिणेन चेदायास्यन्न
शकटं पर्यभविष्यत् । यदि कमलक*माहास्यन्न शकटं पर्यभविष्यत् । अभो-
क्ष्यत भवान्घृतेन यदि मत्त्समीपमागमिष्यत् । भविष्यत्कालविषयमेतद्वचनम् ।
भविष्यदपर्य्याभवनं च हेतुमत् तत्र हेतुभूतं च कमलकाह्वानम् । लिङ्गिल्लिङ्गे
बुद्ध्या तदतिपत्तिं च प्रमाणात्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते । यदि कमल-
कमाहास्यन्न शकटं पर्य्यभविष्यदिति, हेतुहेतुमतोराह्रानापर्य्याभवनयोर्भविष्य-
त्कालविषययोरतिपत्तिरिति वाक्यादवगम्यते ॥
भूते च ॥ १४० ॥
लिङ्निमित्ते ऌङ्क्रियातिपत्ताविति सर्वमनुवर्तते । पूर्वेण भविष्यति विहितः
संप्रति भूते विधीयते । भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां ऌङ् प्रत्ययो
भवति । उताप्योरित्यारभ्य लिङ्निमित्तेषु विधानमेतत् । प्राक्, ततो विकल्पं
वक्ष्यति । दृष्टो मया भवत्पुत्रो ऽवार्थी चङ्क्रम्यमाणः । अपरश्च द्विजो ब्राह्मणार्थी,
- कमलकः कश्चित्पुरुष इति पदमञ्जरी ।
यदि स तेन दृष्टो ऽभविष्यत् । तदा ऽभोक्ष्यत न तु भुक्तवान् । अन्येन
पथा स गतः ॥
वोताप्योः ॥ १४१ ॥
भूते लिङ्निमित्ते लङ् क्रियातिपत्ताविति सर्वमनुवर्तते । वा वा उताप्योः
वोताप्योः । मर्यादायामयमङ् नाभिविधौ । उताप्योः समर्थयोर्लिङिति वक्ष्यति
प्रागेतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियाति-
पत्तौ लृङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । वक्ष्यति विभाषा कथमि लिङ् च ।
कथं नाम तत्र भवान्वृषलमयाजयिष्यत् । यथाप्राप्तं च, याजयेत् ॥
गर्हायां लडपिजात्वोः ॥ १४२ ॥
गर्हा कुत्सेत्यनर्थान्तरम् । गर्हायां गम्यमानायामपिजात्वोरुपपदयो-
र्धातोर्लट् प्रत्ययो भवति । वर्तमाने लडुक्तः कालसामान्ये न प्राप्नोतीति विधी-
यते । कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद् अस्मिन्विषये बाधते ।
अपि तत्र भवान्वृषलं याजयति, जातु तत्र भवान्वृषलं याजयति । गर्हामहे ।
अहो अन्याय्यमेतत् । लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति ॥
विभाषा कथमि लिङ् च ॥ १४३ ॥
गर्हायामिति वर्तते । कथंशब्दउपपदे गर्हायां गम्यमानायां धातोर्लिङ्
प्रत्ययो भवति । चकाराल्लट् च । विभाषाग्रहणं यथास्वं कालविषये विहिता-
नामबाधनार्थम् । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवा-
न्वृषलं याजयति, कथं नाम तत्र भवान्वृषलं याजयिष्यति । कथं नाम तत्र
भवान्वृषलं याजयिता । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र
भवान्वृषलमयाजयत् । कथं नाम तत्र भवान्वृषलं याजयांचकार । यत्र लिङ्गि-
मित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ् । भविष्यद्विवक्षायां सर्वत्र
नित्येनैव लृङा भवितव्यम् ॥
किंवृत्ते लिङ्लुटौ ॥ १४४ ॥
गर्हायामित्येव । विभाषा न स्वर्यते । किंवृत्तउपपदे गर्हायां गम्यमा-
नायां धातोर्लिङ्लुटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । लिङ्ग्रहणं
लटो ऽपरिहारार्थम् । को नाम वृषलो यं तत्र भवान् याजयेत् । यं तत्र भवा-
न्वृषलं याजयिष्यति । कतरो नाम कतमो नाम यं तत्र भवान्वृषलं याजयेत् ।
याजयिष्यति । भूते क्रियातिपत्तौ वा लृङ् । भविष्यति तु नित्यम् । को नाम
वृषलो यं तत्र भवानयाजयिष्यत् ॥
अनवक्लृप्त्यमर्षयोःकिंवृत्तेऽपि ॥ १४५ ॥
१५