सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 221, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 221

२१४ ॥ काशिका ॥ ३ ॥ ३ ॥
परौ घः ॥ ८४ ॥
करणे हन इत्येव । परिशब्दउपपदे हन्तेर्द्धातोरण् प्रत्ययो भवति ।
करणे कारके घशब्दश्चादेशः । परिहन्यतेनेनेति परिघः । पलिघः ॥
उपघ्न आश्रये ॥ ८५ ॥
उपपूर्वस्य हन्तेरण् प्रत्यय उपधालोपश्च निपात्यते । आश्रयशब्दः
सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः । आश्रयइति किम् ।
पर्वतोपघात एवान्यः ॥
संघोद्घौ गणप्रशंसयोः ॥ ८६ ॥
समुदोरुपपदयोर्हन्तेर्द्धातोरण् प्रत्ययो भवति टिलोपो घत्वं च निपात्यते,
यथासंख्यं गणेभिधेये प्रशंसायां गम्यमानायाम् । संघः पशूनाम् । उद्घो
मनुष्यः । गणप्रशंसयोरिति किम् । संघातः ॥
निघो निमितम् ॥ ८७ ॥
निघ इति निपूर्वाद्धन्तेरण् प्रत्ययष्टिलोपो घत्वं च निपात्यते, निमितं
चेदभिधेयं भवति । समन्तान्मितं निमितम् । समारोहपरिणाहम् । निघा
वृक्षाः । निघाः शालयः । निमितमिति किम् । निघातः ॥
द्वितः क्त्रिः ॥ ८८ ॥
भावे ऽकर्त्तरि च कारकेइति वर्तते । डु इत्यस्य तस्माद् द्वितो धातोः
क्त्रिः प्रत्ययो भवति । क्त्रेर्मम्नित्यमिति वचनात् केवलो न प्रयुज्यते । डुपचष्
पाके । पक्त्रिमम् । डुप्वप् । उप्त्रिमम् । डुकृञ् । कृत्रिमम् ॥
द्वितो ऽथुच् ॥ ८९ ॥
टु इत्यस्य तस्मात द्वितो धातोरथुच् प्रत्ययो भवति भावादौ । टुवेपृ ।
वेपथुः । टुओश्वि । श्वयथुः । टुदु । दवथुः ॥ *
यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९० ॥
भावे ऽकर्त्तरि च कारकेइति वर्तते । यजादिभ्यो धातुभ्यो नङ् प्रत्ययो
भवति । ङकारो गुणवृद्धिनिषेधार्थः । यज्ञः । याञ्चा । यत्नः । विश्नः ।
प्रश्नः । रक्ष्णः । प्रच्छेरसंप्रसारणं ज्ञापकात् प्रश्ने चासन्नकालइति ॥
स्वप्नो नन् ॥ ९१ ॥
स्वपेद्धातोर्नन् प्रत्ययो भवति । नकारः स्वरार्थः । स्वप्नः ॥
उपसर्गे घोः किः ॥ ९२ ॥

  • टुदु । दवथुः । इदं कुत्र चिदधिकम् ।