सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 219, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 219

२१२ ॥ काशिका ॥ ३ ॥ ३ ॥
समुदोरजः पशुषु ॥ ६९ ॥
समुदोरुपपदयोरजतेर्द्धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति ।
घञो ऽपवादः । अज गतिक्षेपणयोरिति पठ्यते । स संपूर्वः समुदाये वर्तते,
उत्पूर्वश्च प्रेरणे । समजः पशूनां, समुदाय इत्यर्थः । उदजः पशूनां, प्रेरणमि-
त्यर्थः । पशुष्विति किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणां ॥
अक्षेषु ग्लहः ॥ ७० ॥
ग्लह इति निपात्यते अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप् सिद्ध एव
लत्वार्थे निपातनम् । अक्षस्य ग्लहः । अक्षेष्विति किम् । ग्रहः पादस्य । अन्ये
ग्लहिं प्रकृत्यन्तरमाहुः ते घञं प्रत्युदाहरन्ति । ग्लाहः ॥
प्रजने सर्त्तेः ॥ ७१ ॥
सर्त्तेर्द्धातोः प्रजने विषये अप् प्रत्ययो भवति, घञोऽपवादः । प्रजनं
प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुंगवानां गर्भा-
धानाय प्रथममुपसरंणमुच्यते ॥
ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥
नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेर्द्धातोः संप्रसारणम् अप् प्रत्ययो
भवति । घञोपवादः । निहवः । अभिहवः । उपहवः । विहवः । एतेष्विति
किम् । प्रह्वावः ॥
आङि युद्धे ॥ ७३ ॥
आङि उपपदे ह्वयतेर्द्धातोः संप्रसारणमप् प्रत्ययो भवति युद्धे ऽभिधेये ।
आहूयन्ते ऽस्मिन्नित्याहवः । युद्धइति किम् । आह्वायः ॥
निष्पानमाहावः ॥ ७४ ॥
आङ्पूर्वस्य ह्वयतेर्द्धातो. संप्रसारणम् प्रत्ययो वृद्धिश्च निपात्यते,
निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते ।
आहावः । पशूनां कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते ।
निपानमिति किम् । आह्वायः ॥
भावे ऽनुपसर्गस्य ॥ ७५ ॥
अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययो भवति भावे ऽभिधेये । हवः ।
हवेहवे सुहवं शूरमिन्द्रम् । अनुपसर्गस्येति किम् । आह्वावः । भावग्रहणमक-
र्तरि च कारके संज्ञायामित्यस्य निरासार्थम् ॥
हनश्च वधः ॥ ७६ ॥