सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 225, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 225

२१८ ॥ काशिका ॥ ३ । ३ ॥
संज्ञायाम् ॥ १०९ ॥
संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका ।
वरंणपुष्पप्रवाहिका * । आभ्यूषखादिका । आचोषखादिका । शालभञ्जिका ।
तालभञ्जिका ॥
विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ११० ॥
पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाचतरस्य पूर्वनिपातः । परि-
प्रश्ने आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति । चकाराद् ण्वुलपि ।
विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः । कां
कारिकामकार्षीः । कां क्रियामकार्षीः । कां कृत्यामकार्षीः । कां कृतिमकार्षीः ।
सर्वां कारिमकार्षम् । सर्वां कारिकामकार्षम् । सर्वां क्रियामकार्षम् । सर्वां कृत्या-
मकार्षम् । सर्वां कृतिमकार्षम् । कां गणिमजीगणः । कां गणनामजीगणः । सर्वां
गणिमजीगणम् । सर्वां गणिकाम् । सर्वां गणनाम् । एवं कां याजिम् । कां
याजिकाम् । कां याचिम् । कां याचिकाम् । कां पचाम् । कां पाठिम् । कां
पाठिकाम् । इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोरिति किम् । कृतिः । हृतिः ॥
पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ १११ ॥
पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत्परस्य †
धार्यते । उत्पत्तिर्जन्म । एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम-
पवादः । पर्याये तावत् । भवतः शायिका । भवतो ऽध्यासिका । अर्हे । अर्हति
भवानित्थंभक्तिकाम् ‡ । ऋणे । इत्थंभक्तिकां मे धारयसि । ओदनभोजिकाम् । पयः-
पायिकाम् । उत्पत्तौ । इत्थंभक्तिका मे उदपादि । ओदन भोजिका । पयःपायिका ।
विभाषेत्येव । चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ॥
आक्रोशे नञ्यनिः ॥ ११२ ॥
विभाषेति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञ्युपपदे
धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् ।
आक्रोशेति किम् । अकृतिस्तस्य कटस्य । नञीति किम् । कृतिस्ते वृषल भूयात् ॥
कृत्यल्युटो बहुलम् ॥ ११३ ॥
भावे ऽकर्त्तरि च कारकेति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च

  • प्रचायिकेति पा० ।
  • परस्मै इति पाठः । तत्र धारेरुत्तमर्ण इति संप्रदानसंज्ञा ।
    ‡ पयःपायिकामिति पुस्तकान्तरे ऽधिकम् ।