काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 226, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २१८
बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोन्यत्रापि भवन्ति । भावकर्मणोः कृत्या
विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । कर-
णाधिकरणयोर्भावे च ल्युट् । अन्यत्रापि भवति । प्रसेचनमवस्त्रावकम् । राज-
भोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहु-
लग्रहणादन्येऽपि कृता यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते, पाद-
हारकः । गले चोप्यते, गलेचोपकः ॥
नपुंसके भावे क्तः ॥ ११४ ॥
नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् ।
जल्पितम् * ॥
ल्युट् च ॥ ११५ ॥
नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति । हसनं छात्रस्य । शोभ-
नम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥
कर्मणि च येन संस्पर्शात्कर्त्तुः शरीरसुखम् ॥ ११६ ॥
येन कर्मणा संस्पृश्यमानस्य कर्त्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे
धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमा-
सार्थं वचनम् । उपपदसमासादिर्नित्यः समासः । पयःपानं सुखम् । ओदनभो-
जनं सुखम् । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् ।
अग्निकुण्डस्योपासनं सुखम् । कर्त्तुरिति किम् । गुरोः स्नापनं सुखम् । स्नाप-
यतेर्न गुरुः कर्त्ता, किं तर्हि कर्म । शरीरग्रहणं किम् । पुत्रस्य परिष्वञ्जनं
सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् । कण्टकानां मर्दनं दुःखम् ।
सर्वत्रासमासः प्रत्युदाह्रियते ॥
करणाधिकरणयोश्च ॥ ११७ ॥
करणे ऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति । इध्मप्रव्रश्चनः ।
पलाशशातनः । अधिकरणे । गोदोहनी । सक्तुधानी ॥
पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥
करणाधिकरणयोरित्येव । पुंलिङ्गयोः करणाधिकरणयोरभिधेययोर्धा-
तोर्घः प्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकात्स्न्र्यार्थम् ।
दन्तच्छदः । उरश्छदः । घटः । अधिकरणे खल्वपि । कृत्य तस्मिन्कुर्वन्त्यित्या-
करः । आलयः । पुंसीति किम् । प्रसाधनम् । संज्ञायामिति किम् । प्रहरणी
दण्डः । घकारश्चादेर्घेद्विति विशेषणार्थः ॥
- जल्पितम् । भुक्तम् । आशितम् । इति क्व चित्पुस्तके ऽधिकम् ।