काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 222, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २१५
भावे ऽकर्त्तरि च कारकदिति वर्त्तते । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः
किः प्रत्ययो भवति । कित्करणादातो लोपार्थम् । प्रदिः । प्रधिः । अन्तर्द्धिः ॥
कर्मण्यधिकरणे च ॥ ९३ ॥
घोरित्येव । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति,
अधिकरणे कारके । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । अधिकरण-
ग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ॥
स्त्रियां क्तिन् ॥ ९४ ॥
भावे ऽकर्त्तरि च कारकदिति वर्त्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्र-
त्ययो भवति । घञपांमपवादः । कृतिः । चितिः । मतिः ॥ क्तिन्नाबादिभ्यश्च
वक्तव्यः ॥ * ॥ आबादयः प्रयोगतोऽनुसर्तव्याः । आप्तिः । राद्धिः । दीप्तिः ।
स्वस्तिः । ध्वस्तः । लब्धिः ॥ श्रुयजिस्तुभ्यः करणे ॥ * ॥ श्रूयते ऽनयेति
श्रुतिः । दृष्टिः । स्तुतिः ॥ म्लाम्नाज्याहाभ्यो निः ॥ * ॥ म्लानिः । म्नानिः ।
ज्यानिः । हानिः ॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् ॥ * ॥
कीर्त्तिः । गीर्त्तिः । जीर्त्तिः । शीर्त्तिः । लूनिः । यूनिः ॥ संपदादिभ्यः
क्विप् ॥ * ॥ संपत् । विपत् । प्रतिपत् ॥ क्तिन्नपीष्यते ॥ संपत्तिः । विपत्तिः ॥
स्थागापापचो भावे ॥ ९५ ॥
स्त्रियामिति वर्तते । स्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो
भवति । अङोपवादस्य बाधकः । प्रस्यितिः । उद्गीतिः । संगीतिः । प्रपीतिः ।
संपीतिः । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । कथमवस्था संस्थेति ।
व्यवस्था यामसंज्ञायामिति ज्ञापकाद् नात्यन्ताय बाधा भवतीति ॥
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९६ ॥
भावे स्त्रियामिति वर्तते । मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन्
प्रत्ययो भवति, उदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं
कृतम् । वैचित्र्यार्थम् । वृष्टिः । इष्टिः । पक्तिः । मतिः । वित्तिः । भूतिः ।
वीतिः । रातिः । सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्ता-
र्थवचनम् । इषेस्तु इच्छेति निपातनं वक्ष्यति । ततः क्तिन्नपि विधीयते मन्त्रा-
दन्यत्रादिरुदात्तः ॥
ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ॥ ९७ ॥
मन्त्रइति नानुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्त इति
वर्तते । अवतेर्ज्वरत्वरस्रिव्यविमवामुपधायाश्चेति ऊठ् । ऊतिः । स्वरार्थं वच-
नम् । यौतेर्जवतेश्च यूतिः । जूतिः । दीर्घत्वं च निपात्यते । सातिः । हेतिः