काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
५३० ॥ काशिका ॥ ६ । २ ॥
हीतम् । विलग्नम् । प्रतिपन्नम् । प्रशिष्टम् । उद्धतम् । उपस्थितम् ॥ संहिता-
ऽगवि ॥ संहिताशब्दो यदा गौरन्यस्य संज्ञा तदा ऽन्तोदात्तो न भवति । यदा
तु गोः संज्ञा तदा ऽन्तोदात्त एव ॥
प्रवृद्धादीनां च ॥ १४७ ॥
प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रवृद्धं यानम् ।
प्रवृद्धो वृषलः । प्रयुक्ताः सक्तवः । आकर्षे ऽवहितः । अवहितो भोगेषु । खट्वा-
रूढः । कपिशस्तः । यानादीनामत्र गणे पाठः प्रायो वृत्तिप्रदर्शनार्थो न विष-
यनियमार्थः । यानादिभ्योऽन्यत्रापि तेषामन्तोदात्तत्वं भवत्येव । विषयनिय-
मार्थ एवेत्येके । असंज्ञार्थोयमारम्भः । आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः । तेन
पुनर्बलस्यूतं वासो देयं पुनर्निष्कृतो रथ इत्येवमादि सिद्धं भवति ॥
कारकाद्दत्तश्रुतयोरेवाशिषि ॥ १४८ ॥
संज्ञायामिति वर्तते, क्त इति च । संज्ञायां विषये आशिषि गम्यमा-
नायां कारकादुत्तरयोर्दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति । देवा एनं
देयासुर्देवदत्तः । विष्णुरेनं श्रूयाद् विष्णुश्रुतः । कारकादिति किम् । कारका-
नियमो मा भूत् । संभूतो रामायणः । दत्तश्रुतयोरिति किम् । देवपालितः ।
एतस्मान्नियमादत्र संज्ञायामनाचितादीनामित्यन्तोदात्तत्वं न भवति तृतीया
कर्मणीत्येवात्र भवति । एवकारकरणं किम् । कारकावधारणं यथा स्याद्
दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति ।
संश्रुतः । विश्रुतः । आशिषीति किम् । अनाशिषि नियमो मा भूत् । देवैः
त्राता देवत्राता । कारकाद्दत्तश्रुतयोराशिष्येवेत्येवमत्र नियम इष्यते । तेना-
हतो नदति देवदत्त इत्यत्र न भवति । देवदत्त इति कस्य चित् शङ्खस्य
नाम । तत्र तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥
इत्थंभूतेन कृतमिति च ॥ १४९ ॥
इमं प्रकारमापन्न इत्थंभूतः । इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो
वर्तते तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुप्तप्रलपितम् । उन्मत्तप्रलपितम् ।
प्रमत्तगीतम् । विपन्नमृतम् । कृतमिति क्रियासामान्ये करोतिर्वर्तते नाभूत-
प्रादुर्भावएव तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणीत्यस्यायमपवादः ।
भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव सिद्धमन्तोदात्तं भवति ॥
ञ्नी भावकर्मवचनः ॥ १५० ॥
ञान्प्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात्परमन्तोदात्तं
भवति । ओदनभोजनं सुखम् । पयःपानं सुखम् । चन्दनप्रियङ्गुकालेपनं सुखम् ।
॥ काशिका ॥ ६ ॥ २ ॥ ५७१
कर्मवचन। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। कर्मणि च
येन संस्पर्शात्कर्त्तुः शरीरसुखमित्ययं योग उभयथा वक्ष्यते। कर्मण्युपपदे भावे
ल्युड् भवति। कर्मण्यभिधेये ल्युड्वतेति। तत्र पूर्वस्मिन्सूत्रार्थे भाववचनो-
दाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अन इति किम्। हस्तहार्यमुद्-
श्वित्। भावकर्मवचन इति किम्। दन्तधावनम्। करणे ल्युट्। कारकादि-
त्येव। निदर्शनम्। अवलेखनम्। सर्वेषु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति ॥
मन्क्तिन्व्याख्यानशयनवासनस्थानयाजकादिक्रीताः ॥ १५१ ॥
मवन्तं क्तिन्नन्तं व्याख्यान शयन आसन स्थान इत्येतानि याजकादय-
क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति। मन्। रथवर्त्म। शकटवर्त्म। क्तिन्।
याज्ञिनिकृतिः। आपिशलिकृतिः। व्याख्यान। ऋगयनव्याख्यानम्। छन्दो-
व्याख्यानम्। शयन। राजशयनम्। ब्राह्मणशयनम्। आसन। राजासनम्।
ब्राह्मणासनम्। स्थान। गोस्थानम्। अश्वस्थानम्। याजकादिः। ब्राह्म-
णयाजकः। क्षत्रिययाजकः। ब्राह्मणपूजकः। क्षत्रियपूजकः। याजकादयो ये
याजकादिभिश्चेति षष्ठीसमासार्थाः पठन्ते तएवेह गृह्यन्ते। क्रीत। गोक्रीतः।
अश्वक्रीतः। कृत्स्वरापवादोयं योगः। क्रीतशब्दे तु तृतीया कर्मणीत्यस्याप-
वादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थे ग्रहणम्। कारकादित्येव।
प्रकृतिः। प्रहूतिः॥
सप्तम्याः पुण्यम् ॥ १५२ ॥
सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यम्,
अध्ययनपुण्यम्। वेदे पुण्यं, वेदपुण्यम्। सप्तमीति योगविभागात्समासः।
तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते।
उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति। सप्तम्या
इति किम्। वेदेन पुण्यं, वेदपुण्यम् ॥
ऊनार्थकलहं तृतीयायाः ॥ १५३ ॥
ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात्पराण्यन्तोदात्तानि
भवन्ति। माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापणविकलम्।
कलह। असिकलहः। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः।
अथ केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्येनार्थो धान्यार्थः। ऊनप्र-
ख्येनेव त्वर्थेनैहार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमा-
सपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम् ॥
मिश्रं चानुपसर्गमसंधौ ॥ १५४ ॥
५७२ ॥ काशिका ॥ ६ ॥ २ ॥
तृतीयेति वर्तते । मिश्र इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात्परमन्तो-
दात्तं भवत्यसंधौ गम्यमाने । गुडमिश्राः । तिलमिश्राः । सर्पिर्मिश्राः । मिश्र-
मिति किम् । गुडधानाः । अनुपसर्गमिति किम् । गुडसंमिश्राः । इहानुपसर्गग्र-
हणं ज्ञापकमन्यत्र मिश्रग्रहणे सोपसर्गग्रहणस्य । तेन मिश्रश्लक्ष्णैरिति सोपस-
र्गेणापि मिश्रशब्देन तृतीयासमासो भवति । असंधाविति किम् । ब्राह्मण-
मिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः । संधिरिति हि यत्नबन्धे-
नैकार्थ्यमुच्यते । केचित्पुनराहुर्हृद्यमाणे विशेषाप्रत्यासत्तिः संधिरिति । तत्र
राजा ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तेर्विभागो गृह्यतइति ब्राह्मण-
मिश्रो राजेति प्रत्युदाह्रियते । उदाहरणेष्वविभागापत्तिरेव गुडमिश्रा इति ॥
नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः ॥ १५५ ॥
संपादि अर्ह हित अलम् । इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि
नञो गुणप्रतिषेधे वर्त्तमानात्पराण्यन्तोदात्तानि भवन्ति । संपादि । कर्णवेष्ट-
काभ्यां संपादि, मुखं कार्यवेष्टकिकं, न कार्यवेष्टकिकम्, अकार्यवेष्टकिकम् ।
अर्ह । छेदंमर्हति छैदिकः । न छैदिको ऽच्छैदिकः । हित । वत्सेभ्यो हितो
वत्सीयो, न वत्सीयो ऽवत्सीयः । अलमर्थ । संतापाय प्रभवति सांतापिकः ।
न सांतापिको ऽसांतापिकः । नञ इति किम् । गर्दभरथमर्हति गार्दभरथिकः ।
विगार्दभरथिकः । गुणप्रतिषेधइति किम् । गार्दभरथिकादन्यो ऽगार्दभरथिकः ।
गुण इति तद्धितार्थप्रवृत्तिनिमित्तं संपादिताद्युच्यते । तत्प्रतिषेधो यत्रोच्यते
समासे तत्रायं विधिः । कर्णवेष्टकाभ्यां न संपादि मुखमिति । संपाद्यर्हहिता-
लमर्था इति किम् । पाणिनीयमधीते पाणिनीयो न पाणिनीयो ऽपाणिनीयः ।
तद्धिता इति किम् । कन्यां वोढुमर्हति कन्यावोढा न वोढा ऽवोढा अर्हे
कृत्यतृचश्चेति तृच् ॥
ययतोश्चातदर्थे ॥ १५६ ॥
य यत् इत्येतौ यौ तद्धितावतदर्थे वर्त्तेते तदन्तस्योत्तरपदस्य नञो
गुणप्रतिषेधविषयादन्त उदात्तो भवति । पाशानां समूहः पाश्या न पाश्या
अपाश्या । अतृष्या । यत् । दन्तेषु भवं दन्त्यं न दन्त्यमदन्त्यम् । प्राक्रीडम् ।
अतदर्थेइति किम् । पादार्थमुदकं पाद्यम् । न पाद्यमपाद्यम् । तद्धिता इत्येव ।
अदेयम् । गुणप्रतिषेधइत्येव । दन्त्यादन्यददन्त्यम् । निरनुबन्धकाऽनुबन्ध-
कयोर्ययतोर्ग्रहणादिह न भवति । वामदेवाड्ढ्यड्ढ्यौ । वामदेव्यं न वामदे-
व्यमवामदेव्यमिति ॥
- मुखावयवस्योदन्तः ॥ १५७ ॥
Here is the line-by-line transcription of the page into clean Markdown in Unicode Devanagari:
॥ काशिका ॥ ६ ॥ २ ॥ ५७३
अच् क इत्येवमन्तमशक्तौ गम्यमानायामुत्तरपदं नञः परमन्तोदात्तं
भवति । अपचो यः पक्तुं न शक्नोति । अजयः । कः खल्वपि । अविक्षिपः ।
अविलिखः । अशक्ताविति किम् । अपचो दीक्षितः । अपचः परिव्राजकः * ॥
आक्रोशे च ॥ १५८ ॥
आक्रोशे च गम्यमाने नञ उत्तरमकारान्तमन्तोदात्तं भवति । अपचोऽयं जाल्मः ।
अपठोऽयं जाल्मः । पक्तुं पठितुं शक्तोऽप्येवमाक्रुश्यते । अविक्षिपः । अविलिखः ॥
संज्ञायाम् ॥ १५६ ॥
आक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां । वर्त्तमानमन्तोदात्तं
भवति । अदेवदत्तः । अयज्ञदत्तः । अविष्णुमित्रः ॥
कृत्योकेष्णुञ्चार्वादयश्च ॥ १६
५७४ ॥ काशिका ॥ ६ ॥ २ ॥
भोजनं वा स इदंप्रथमः । इदंद्वितीयः । इदंतृतीयः । एतत्प्रथमः । एतद्द्वि-
तीयः । एतत्तृतीयः । तत्प्रथमः । तद्द्वितीयः । तत्तृतीयः । बहुव्रीहाविति किम् ।
अनेन प्रथम इदंप्रथमः । तृतीयेति योगविभागात्समासः । इदमेतत्सद्वा इति
किम् । यत्प्रथमः । प्रथमपूरणयोरिति किम् । तानि बहून्यस्य तद्बहुः ।
क्रियागणनइति किम् । अयं प्रथम एषां तदिदंप्रथमाः । द्रव्यगणनमेतत् ।
गणनइति किम् । अयं प्रथम एषामिदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तर-
पदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति । इदंप्रथमकाः । बहुव्रीहावि-
त्येतदनं समासइति प्रागेतस्मादधिकृतं वेदितव्यम् ॥
संख्यायाः स्तनः ॥ १६३ ॥
संख्यायाः परः स्तनशब्दो बहुव्रीहौ
॥ काशिका ॥ ६ ॥ २ ॥ २७२
नाव्ययदिग्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ १६८ ॥
अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं
स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति । अव्यय । उच्चैर्मुखः । नीचै-
र्मुखः । दिक्शब्द । प्राङ्मुखः । प्रत्यङ्मुखः । गो । गोमुखः । महत् । महामुखः ।
स्थूल । स्थूलमुखः । मुष्टि । मुष्टिमुखः । पृथु । पृथुमुखः । वत्स । वत्स-
मुखः । पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति । गोमुष्टिवत्सपूर्वस्योपमान-
लक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते ॥
निष्ठोपमानादन्यतरस्याम् ॥ १६९ ॥
निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमूत्तरपदमन्यतरस्यां बहुव्रीहौ
समासेन्तोदात्तं भवति । प्रक्षालितमुखः । यदैतदुत्तरपदान्तोदात्तत्वं, न भवति
तदा निष्ठोपसर्गपूर्वमन्यतरस्यामिति पक्षे पूर्वपदान्तोदात्तत्वं तदभावपक्षेपि
पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति । उपमानात् ।
सिंहमुखः । २ । व्याघ्रमुखः । २ ॥
जातिकालसुखादिभ्यो ऽनाच्छादनात् क्तो
ऽकृतमितप्रतिपन्नाः ॥ १७० ॥
जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं
कृतमितप्रतिपन्नान्वर्जयित्वा बहुव्रीहौ समासेन्तोदात्तं भवति । सारङ्गजग्धः ।
बलाबड्डुर्भक्षितः । सुरापीतः । काल । मासजातः । संवत्सरजातः । द्वयहजातः ।
त्र्यहजातः । सुखादिभ्यः । सुखजातः । दुःखजातः । तृप्तजातः । जात्यादिभ्य
इति किम् । पुत्रजातः । आहिताग्न्यादित्वात्परनिपातः । अनाच्छादनादिति
किम् । वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्ना इति किम् । कुण्डकृतः ।
कुण्डमितः । कुण्डप्रतिपन्नः । एतेषु बहुव्रीहिषु निष्ठान्तस्य * पूर्वनिपातो न
भवत्येकस्मादेव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः ।
सुखादयस्तृतीयेऽध्याये पठ्यन्ते ॥
वा जाते ॥ १७१ ॥
जातशब्दोत्तरपदे वा ऽन्त उदात्तो भवति बहुव्रीहौ समासे जातिका-
लसुखादिभ्यः । दन्तजातः । २ । स्तनजातः । २ । कालात् । मासजातः ।
२ । संवत्सरजातः । २ । सुखादिभ्यः । सुखजातः । दुःखजातः ॥
नञ्सुभ्याम् ॥ १७२ ॥
नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेन्तोदात्तं भवति । अपथोदेशः ।
- पूर्वनिपातो न भवतीत्यस्य स्थाने परंनिपातो भवति । पाठः २ ।
५०६ ॥ काशिका ॥ ६ ॥ २ ॥
अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्येत्यन्तोदात्तत्व-
मिष्यते । समासान्ताश्चावयवा भवन्तीत्यनृचो बह्वृच इत्यत्र कृते समासान्ते
ऽन्तोदात्तत्वं भवति ॥
कपि पूर्वम् ॥ १७३ ॥
नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृ-
षलीकः । अब्रह्मबन्धुकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धुकः ॥
ह्रस्वान्ते ऽन्त्यात्पूर्वम् ॥ १७४ ॥
ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात्पूर्व-
मुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे । अयवको देशः ।
अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः । सुमाषकः । पूर्वमिति वर्त्तमाने
पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् । ह्रस्वान्तेन्त्यादेव पूर्वमुदात्तं भवति
न कपि पूर्वमिति । तेनाब्जकः सुब्जक इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति ॥
बहोर्नञ्वदुत्तरपदभूम्नि ॥ १७५ ॥
उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्त्तते तस्मान्नञ्वत् स्वरो भवति ।
नञ्सुभ्यामित्युक्तम् । बहोरपि तथा भवति । बहुयवो देशः । बहुव्रीहिः ।
बहुतिलः । कपि पूर्वमित्युक्तं बहोरपि तथा भवति । बहुकुमारीको देशः ।
बहुवृषलीकः । बहुब्रह्मबन्धुकः । ह्रस्वान्तेन्त्यात्पूर्वमित्युक्तं बहोरपि तथा
भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृता
इत्युक्तं बहोरपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः ।
उत्तरपदभूम्नीति किम् । बहुषु मनो ऽस्य बहुमना अयम् ॥
न गुणादयो ऽवयवाः ॥ १७६ ॥
गुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति ।
बहुगुणा रज्जुः । बहुत्तरं पदम् । बहुच्छन्दो मानम् । बहुसूक्तः । बहुऋचः ।
गुणादिराकृतिगणो द्रष्टव्यः । अवयवा इति किम् । बहुगुणो ब्राह्मणः ।
अध्ययनश्रुतसदाचारादयो ऽत्र गुणाः ॥
उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ १७७ ॥
उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे ।
प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवमित्येकरूपमुच्यते । ध्रुवमस्य शीतमिति
यथा । सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः । उपसर्गादिति किम् । दर्श-
नीयललाटः । स्वाङ्गमिति किम् । प्रहस्तो हयः । ध्रुवमिति किम् । उद्बाहुः
क्रोशति । अपर्श्विति किम् । उत्पर्शुः । विपर्शुः ॥
॥ काशिका ॥ ६ ॥ २ ॥ ५७७
वनं समासे ॥ १७८ ॥
समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात्परमन्तोदात्तं भवति । प्रवणे
यष्टव्यम् । निर्वणे प्रविधीयते । प्रनिरन्तरिति णत्वम् । समासग्रहणं समास-
मात्रपरिग्रहार्थं बहुव्रीहावेव हि स्यात् ॥
अन्तः ॥ १७९ ॥
अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ
चारम्भः ॥
अन्तश्च ॥ १८० ॥
अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति । प्रान्तः । पर्यन्तः ।
बहुव्रीहिरयं प्रादिसमासो वा ॥
न निर्विभ्याम् ॥ १८१ ॥
नि वि इत्येताभ्यामुत्तरोन्तश्शब्दो नान्तोदात्तो भवति । न्यन्तः ।
व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः । तत्रोदात्तस्वरितयोर्यणः स्वरि-
तोऽनुदात्तस्येति स्वरितो भवति ॥
परेरभितोभावि मण्डलम् ॥ १८२ ॥
परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति । परिकूलम् ।
परितीरम् । परिमण्डलम् । बहुव्रीहिरयं प्रादिसमासो ऽव्ययीभावो वा । अव्य-
यीभावपक्षेपि हि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेष्विति पूर्वपदप्रकृतिस्व-
रत्वं प्राप्तमनेन बाध्यते । अभित इत्युभयतः । अभितो भावो ऽस्यास्तीति
तदभितोभावि । यच्चैवं स्वभावं कूलादि तदभितोभाविव्यपदेशेन गृह्यते ॥
प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ॥
प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषये ऽन्तोदात्तं भवति । प्रकोष्ठम् ।
प्रवहम् । प्रहारम् । अस्वाङ्गमिति किम् । प्रहस्तम् । प्रपदम् । संज्ञाया-
मिति किम् । प्रपीठम् * ॥
निरुदकादीनि च ॥ १८४ ॥
निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति । निरुदकम् । निरू-
दपम् । निरुपलमित्यन्ये पठन्ति । निर्मशकम् । निर्मक्षिकम् । एषां प्रादिस-
मासो बहुव्रीहिर्वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । निष्का-
लकः । निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः । नि-
- प्राष्ठः । पा० ।
३७
' or 'अ-'? Yes, it looks like प्र- with a hyphen.
And line 30 starts with: नु ज्येष्ठः । or नुऽष्ठः?
Look at line 30, first word:
नु then ज् under which there is something, ष्ठः!
Wait, between नु and ष्ठः, there is ज् and ये?
Look at line 30:
It has: नु followed by ज् with ये? Wait, no!
Look at line 30:
नु then a letter with े and ष्ठः! It looks like नुज्येष्ठः or नु ज्येष्ठः?
Wait, look at the space: between नु and ज्येष्ठः?
Wait, let's look closely at:
नु then a mark, then ष्ठः? No, look at line 30:
नु then a vertical stroke with a bar? No, it's नुज्येष्ठः! But wait, look at the letters:
नु then a hyphen/space? No, it's नु followed by a broken ज्ये:
Wait, ज् + य + े = ज्ये. In ज्ये, the ज् is on the left, य on the right, े on top.
Here, look
॥ काशिका ॥ ६ ॥ २ ॥ ५७८
पुरुषश्चान्वादिष्टः ॥ १६० ॥
पुरुषशब्दो ऽन्वादिष्टवाची चानोत्तरान्तोदात्तो भवति । अन्वादिष्टः
पुरुषो, ऽनुपुरुषः । अन्वादिष्टो ऽन्याचितः कथितमनुकथितो वा । अन्वादिष्ट
इति किम् । अनुगतः पुरुषो ऽनुपुरुषः ॥
अतेरकृत्पदे ॥ १६१ ॥
अतेः परमकूदन्तं पदशब्दश्चान्तोदात्तो भवति । अत्यङ्कुशो नागः ।
अतिकशोश्वः । पदशब्दः खल्वपि । अतिपदा शक्वरी । अकृत्पदे इति किम् ।
अतिकारकः ॥ अतेर्गातुलोपइति वक्तव्यम् ॥ * ॥ इह मा भूत् । शोभनो
गार्ग्यः । अतिगार्ग्यः । इह च यथा स्यात् । अतिक्रान्तः कारकादतिकारक इति ॥
नेरनिधाने ॥ १६२ ॥
नेः परमुत्तरपदमन्तोदात्तं भवति । निधानमप्रकाशता । निर्मूलम् ।
न्यक्षम् । नित्यग्निम् । बहुव्रीहिर
५८० ॥ काशिका ॥ ६ । २ ॥
सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपमसूयया तथाभिधानात् । सोरिति
किम् । कुब्राह्मणः । अवक्षेपग्रहणं किम् । शोभनेषु तृणेषु सुतृणेषु ॥
विभाषोत्पुच्छे ॥ १६६ ॥
उत्पुच्छशब्दे तत्पुरुषे विभाषा ऽन्त उदात्तो भवति । उत्क्रान्तः
पुच्छाद्, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति उत्पुच्छयतेर्वा उत्पु-
च्छस्तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र
विभाषा भवति । तत्पुरुष इत्येव । उदस्तं पुच्छमस्य, उत्पुच्छः ॥
द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ १६७ ॥
द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्द्धन् इत्येवमुत्तरपदेषु यो बहुव्री-
हिस्तत्र विभाषा ऽन्त उदात्तो भवति । द्वौ पादाव
Here is the line-by-line transcription of the page:
॥ काशिका ॥ ६ ॥ ३ ॥ ५८१
पूर्व्वादिः ॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ * ॥
दिवोदासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति ॥
इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः ॥
॥ अथ षष्ठाध्यायस्य तृतीयः पादः ॥
अलुगुत्तरपदे ॥ १ ॥
अलुगिति च उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदित ऊर्द्ध्व-
मनुकमिष्यामो ऽलुगुत्तरपदइत्येवं तद्वेदितव्यम् । वक्ष्यति पञ्चम्याः स्तोका-
दिभ्यः । स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदेइति किम् । निष्क्रान्तः स्तोकात्,
निस्तोकः । अन्यार्थमिदमुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थे
लक्षणप्रतिपदोक्तपरिभाषा नाश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरप-
[
५८२ ॥ काशिका ॥ ६ ॥ ३ ॥
मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग्भवति । मनसादत्ता । मनसा-
गुप्ता । मनसासङ्गता । संज्ञायामिति किम् । मनोदत्ता । मनोगुप्ता ॥
अज्ञायिनि च ॥ ५ ॥
आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग्भवति । मनसा
ऽऽज्ञातुं शीलमस्य, मनसाऽऽज्ञायी ॥
आत्मनश्च पूरणे ॥ ६ ॥
आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्तउत्तरपदे ऽलुग्भवति ।
आत्मनापञ्चमः चात्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानमिति
तृतीया । तृतीयेति योगविभागात्समासः । आत्मना वा कृतः पञ्चम, आत्म-
नापञ्चमः । कथं जनार्दनस्त्वत्मचतुर्थ एवेति । बहुव्रीहिरयमात्मा चतुर्थो
ऽस्यासावात्मचतुर्थः ॥
वैयाकरणाख्यायां चतुर्थ्याः ॥ ७ ॥
वैयाकरणाख्या वैयाकरणाख्या । आख्या संज्ञा । यया संज्ञया वैया-
करणा एव व्यवहरन्ति तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मने-
पदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थ्येति योगविभागात्समासः ॥
परस्य च ॥ ८ ॥
परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् ।
परस्मैभाषा ॥
हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ९ ॥
हलन्ताददन्ताच्चोत्तरस्याः सप्तम्याः संज्ञायामलुग्भवति । युधिष्ठिरः ।
त्वचिसारः । गविष्ठिर इत्यत्र गविषुधिभ्यां स्थिर इत्यत एव वचनादलुक् ।
अदन्तात् । बारयेतिलकाः । बारयेमाषकाः । वनेकिंशुकाः । वनेहरिद्राकाः ।
वनेबल्वजकाः । पूर्वाहेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम् ।
नद्यां कुक्कुटिका, नदीकुक्कुटिका । भूम्यां पाशाः, भूमिपाशाः । संज्ञायामिति
किम् । अन्तशोषदः ॥ हृद्दिव्भ्यां ङेः ॥ * ॥ हृद् दिव् इत्येताभ्यामुत्तरस्य
ङेरुलुक् भवति । हृदिस्पृक् । दिविस्पृक् ॥
कारनाम्नि च प्राचां हलादौ ॥ १० ॥
प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्त-
म्या अलुग्भवति । सूपेशाखः * । दृषद्विमाषकः । हलेद्विपदिका । हलेत्रिष-
- मुकुटेकार्षापणमित्यधिकं पुस्तकान्तरे ।
द्विका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च
त्रयो नियमविकल्पा अत्रेण्यन्ते। कारनाम्न्येव प्राचामेव हलादावेवेति। कार-
नाम्नीति किम्। आभ्यर्हिते पशुः, आभ्यर्हितपशुः। कारादन्यस्यैतद्धेयस्य नाम।
प्राचामिति किम्। यूथेपशुः, यूथपशुः। हलादाविति किम्। अविकटे उरभ्रः,
अविकटोरभ्रः। हलदन्तादित्येव। नद्यां दोहनी, नदीदोहनी ॥
मध्याद्गुरौ ॥ ११ ॥
मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदे ऽलुग्भवति। मध्येगुरुः ॥ अन्ता-
च्वेति वक्तव्यम् ॥ * ॥ अन्तेगुरुः। सप्तमीति योगविभागात्समासः ॥
अमूर्द्धमस्तकात् स्वाङ्गादकामे ॥ १२ ॥
मूर्द्धमस्तकवर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्या अकामउत्तरपदे ऽलुग्भवति।
कण्ठे कालोस्य, कण्ठेकालः। उरसिलोमा। उदरेरोमाः। अमूर्द्धमस्तकादिति
किम्। मूर्द्धिशिखः। मस्तकशिखः। अकामइति किम्। मुखे कामो ऽस्य, मुख-
कामः। स्वाङ्गादिति किम्। आतपशौण्डः। हलदन्तादित्येव। अङ्गुलित्राणः।
अङ्गुलावलेः ॥
बन्धे च विभाषा ॥ १३ ॥
बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या
विभाषा ऽलुग्भवति। हस्तेबन्धः। हस्तबन्धः। चक्रेबन्धः। चक्रबन्धः। उभयत्र
विभाषेयम्। स्वाङ्गाद्वहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वा-
ङ्गाच्च नेन्सिद्धबध्नातिषु चेति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव। गुप्तिबन्धः * ॥
तत्पुरुषे कृति बहुलम् ॥ १४ ॥
तत्पुरुषे समासे कृदन्तउत्तरपदे सप्तम्या बहुलमलुग्भवति। स्तम्बेरमः।
कर्णेजपः। न च भवति कुरुचरो मद्रचरः ॥
प्रावृट्शरत्कालदिवां जे १५ ॥
प्रावृट् शरत् काल दिव् इत्येतेषां जउत्तरपदे सप्तम्या अलुग्भवति।
प्रावृषिजाः। शरदिजः। कालेजाः। दिविजः। पूर्वस्यैवायं प्रपञ्चः ॥
विभाषावर्षचरशरवरात् ॥ १६ ॥
वर्ष चर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या जउत्तरपदे विभाषा ऽलु-
ग्भवति। वर्षेजः। वर्षजः। चरेजः। चरजः। शरेजः। शरजः। वरेजः। वरजः ॥
घकालतनेषु कालनाम्नः ॥ १७ ॥
- कारिकाबन्ध इत्यधिकमेकस्मिन् पुस्तके।
५८४ ॥ काशिका ॥ ६ ॥ ३ ॥
घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः
सप्तम्या विभाषा ऽलुग्भवति । घ । पूर्वाह्नेतरे । पूर्वाह्णतरे । पूर्वाह्नेतमे । पूर्वा-
ह्णतमे । काल । पूर्वाह्नेकाले । पूर्वाह्णकाले । तन । पूर्वाह्नेतने । पूर्वाह्णतने ।
कालनाम्न इति किम् । शुक्कतरे । शुक्कतमे । हलदन्तादित्येव । रात्रितरायाम् ।
उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नेष्यते । हृदयस्य हल्लेखेति लेखग्र-
हणाल्लिङ्गात् । तेन घतनग्रहणे तदन्तग्रहणं न भवति । कालेति स्वरूपग्र-
हणम् ॥
शयवासवासिष्वकालात् ॥ १८ ॥
शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या
विभाषा ऽलुग्भवति । खेशयः । खशयः । यामेवासः । यामवासः । यामेवासी ।
[
वक्तव्यः ॥ * ॥ देवानांप्रियः ॥ शेषपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग्व-
क्तव्यः ॥ * ॥ शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ॥ दिवश्च दासे षष्ठ्या अलु-
ग्वक्तव्यः ॥ * ॥ दिवोदासाय गायति ॥
पुत्रे ऽन्यतरस्याम् ॥ २२ ॥
पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्या अलुग्भवति। दास्याः
पुत्रः, दासीपुत्रः । वृषल्याः पुत्रः, वृषलीपुत्रः । आक्रोश इत्येव । ब्राह्मणीपुत्रः ॥
ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥
ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः
षष्ठ्या अलुग्भवति । होतुरन्तेवासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः ।
ऋत इति किम् । आचार्यपुत्रः । मातुलपुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वो-
त्तरपदग्रहणम् ॥ विद्यायोनि संबन्धवाचिन्येवोत्तरपदे यथा स्यादन्यत्र मा भूत् ।
होतृधनम् । पितृधनम् । होतृगृहम् । पितृगृहम् ॥
विभाषा स्वसृपत्योः ॥ २४ ॥
स्वसृ पति इत्येतयोरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्यो
विभाषा ऽलुग्भवति । मातुःष्वसा । मातुःस्वसा । मातृष्वसा । पितुःष्वसा ।
पितुःस्वसा । पितृष्वसा । यदा लुक् तदा मातृपितृभ्यां स्वसेति नित्यं षत्व-
म् । यदा त्वलुक् तदा मातुःपितृभ्यामन्यतरस्यामिति विकल्पेन षत्वम् ।
दुहितुः पतिः । दुहितृपतिः । ननान्दुः पतिः । ननान्दृपतिः ॥
आनङ् ऋतो द्वन्द्वे ॥ २५ ॥
ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपद-
स्थानङादेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्तारप्रतिहर्तारौ ।
योनिसंबन्धेभ्यः । मातापितरौ । याताननान्दरौ । नकारोच्चारणं रपरत्वनिवृत्त्य-
र्थम् । ऋत इति किम् । पितृपितामहौ । पुत्रइत्यनुवर्त्तते ऋत इति च । तेन
पुत्रशब्देप्युत्तरपदे ऋकारान्तस्यानङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥
देवताद्वन्द्वे च ॥ २६ ॥
देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति ।
इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वइति वर्त्तमाने पुनर्द्वन्द्वग्रहणं
प्रसिद्धसाहचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वइति निपात्यते ।
तत्र ये लोके प्रसिद्धसाहचर्या वेदे च सहभावेन ये निर्द्दिष्टास्तेषामिह ग्रहणं
भवति । तेन ब्रह्मप्रजापती शिववैश्रवणावित्येवमादौ न भवति ॥ उभयत्र
वायोः प्रतिषेधो वक्तव्यः ॥ * ॥ अग्निवायू । वाय्वग्नी ॥
५८६ ॥ काशिका ॥ ६ । ३ ॥
ईदग्नेः सोमवरुणयोः ॥ २७ ॥
सोम वरुण इत्येतयोर्देवताद्वन्द्वे ऽग्नेरीकारादेशो भवति । अग्नीषोमौ ।
अग्नीवरुणौ । अग्नेः स्तुतस्तोमसोमा इति षत्वम् ॥
इद्दृद्धौ ॥ २८ ॥
ऋत्यवृद्धावुत्तरपदे देवताद्वन्द्वे ऽग्नेरिकारादेशो भवति । आग्निमारुती-
मनड्वाहीमालभेत । आग्निमारुतं कर्म्म क्रियते । अग्नीवरुणौ देवता ऽस्य
आग्नीमरुतो देवतास्येति तद्धितः । तत्र देवताद्वन्द्वे चेत्युभयपदवृद्धौ कृताया-
मानङ् ह्रस्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् । आग्नेन्द्रः । नेन्द्रस्य
परस्येत्युत्तरपदवृद्धिः प्रतिषिध्यते ॥ इद्दृद्धौ विष्णोः प्रतिषेधो । वक्तव्यः ॥ * ॥
आग्नावैष्णवं चरुं निर्वपेत् ॥
दिवो द्यावा ॥ २९ ॥
दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे ।
द्यावाक्षामा । द्यावाभूमी * ॥
दिवसश्च पृथिव्याम् ॥ ३० ॥
पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति चका-
राद् द्यावा च । दिवसंपृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य
विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । कथं द्यावा चिदस्मै
पृथिवी नमेते इति । क्लीबेऽत्र यणः ॥
उषासोषासः ॥ ३१ ॥
उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासा-
सूर्य्यम् । उषासानक्ता ॥
मातरपितरावुदीचाम् ॥ ३२ ॥
मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते ।
मातरपितरौ । उदीचामिति किम् । मातापितरौ ॥
पितरामातरा च च्छन्दसि ॥ ३३ ॥
पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा
च। पूर्वपदस्य चाङादेशो निपात्यते। उत्तरपदे तु सुप्सुं सुलुगिति आकारादेशः ।
तत्र ऋतो ङिसर्वनामस्थानयोरिति गुणः । छन्दसि किम् । मातापितरौ ॥
- द्यौश्च पृथिवी च द्यावापृथिव्यौ इत्यधिकं पुस्तकान्तरे ।
दुर्भागा, भक्तिः, चित्रा, अम्बा, कान्ता, सान्ता, समा, चपला, दुहिता, वामा..."
In L20: is it "सचित्रा" or "चित्रा"?
Looking at L20:
Before "चित्रा", there is "स"?
Wait, look at: "भक्तिः । सचित्रा ।"
Wait, is it "सचित्रा" or "चित्रा"?
Look at the character:
It has 'स' then 'चि' then 'त्रा': "सचित्रा ।" Yes, printed as "सचित्रा ।"!
Wait, what about after कान्ता?
"सान्ता ।" (शान्ता/सान्ता). Printed as "सान्ता ।".
Line 27:
"गणनं कर्तव्यम् । अतसौ । तरप्तमपौ । चरट्जातीयरी ।"
Wait, is it "चरट्जातीयरौ" or "चरट्जातीयरी"?
The letter is 'र' with au-matra: 'रौ'.
Line 28:
"रूपप्पाशपौ । थम्थालौ । दाहिनौ । तिल्तातिलौ ॥"
Wait, "रूपब्याशपौ" or "रूपप्याशपौ"?
Look at "रू प प्या श पौ": it's 'प' conjunct with 'प' or 'य', looks like 'रूपप्याशपौ'. Let's write "रूपप्याशपौ".
Line 3
५८८ ॥ काशिका ॥ ६ । ३ ॥
अठन्निति किम् । श्येनेयः । रोहिणेयः । कथमग्नायी देवताऽस्य चाग्नेयः
स्थालीपाक इति । कर्त्तव्योऽत्र यत्नः ॥ ठक्छंसोश्च पुंवद्भावो वक्तव्यः ॥ * ॥
भवत्याश्छात्रा भावत्काः । भवदीयाः ॥
क्यङ्मानिनोश्च ॥ ३६ ॥
क्यङि परतो मानिनि च स्त्रिया भाषितपुंस्कादनूङ् पुंवद्भवति ।
एनी । एतायते । श्येनी । श्येतायते । मानिनि । दर्शनीयमानी अयमस्याः ।
दर्शनीयमानिनीयमस्याः । मानिनो ग्रहणमस्वार्थमसमानाधिकरणार्थं च ।
इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति पूर्वेणैव सिद्धम् ॥
न कोपधायाः ॥ ३७ ॥
कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः ।
शुक्तिकाभार्यः । मद्रिकाभार्यः । मद्रिकाकल्पा । मद्रिकायते । शुक्तिकायते । मद्रि-
कामानिनी । शुक्तिकामानिनी । विलेपिकाया धर्म्यं वैलेपिकम् ॥ कोपधप्रतिषेधे-
षु तद्धितग्रहणं कर्तव्यम् ॥ * ॥ इह मा भूत्, पाकभार्या भेकभार्य इति ॥
संज्ञापूरणयोश्च ॥ ३८ ॥
संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति । दत्ताभार्यः । गुप्ता-
भार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्ता-
मानिनी । पूरण्याः । पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमी-
पाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ॥
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ॥ ३९ ॥
नेति वर्तते । वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः स यदि
रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति । सौघ्नी-
भार्यः । माथुरीभार्यः । सौघ्नीपाशा । माथुरीपाशा । सौघ्नीयते । माथुरीयते ।
सौघ्नीमानिनी । माथुरीमानिनी । वृद्धिनिमित्तस्येति किम् । मध्यमभार्यः ।
तद्धितस्येति किम् । काण्डलावभार्यः । बहुव्रीहिपरिग्रहः किमर्थः । तावद्भार्यः ।
यावद्भार्यः । अरक्तविकार इति किम् । कषायेण रक्ता काषायी, काषायी बृह-
तिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईषा यस्य
रथस्य स लौहेषः * ॥
स्वाङ्गाच्चेतो ऽमानिनि ॥ ४० ॥
स्वाङ्गादुत्तरो य ईकारस्तदन्तायाः स्त्रिया न पुंवद्भवति अमानिनि
परतः । दीर्घकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते ।
- खादिरैष इति पुस्तकान्तरे ऽधिकम् ।
[Page Header]
॥ काशिका ॥ ६ ॥ ३ ॥ ५८२
श्लक्ष्णकेशीयते । स्वाङ्गादिति किम् । पटुभार्यः । ईत इति किम् । चक्रोश-
भार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥
जातेश्च ॥ ४१ ॥
जातेश्च स्त्रिया न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृची-
भार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनीत्येव ।
कठमानिनी । बह्वृचमानिनी ॥ अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य
नेष्यते ॥ हस्तिनीनां समूहो, हास्तिकम् ॥
पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥
कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्का-
दनूङ्स्त्रियाः पुंवद्भवति । प्रतिषेधार्थोयमारम्भः । न कोपधाया इत्युक्तं तत्रापि
भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । संज्ञापूरणयो-
श्चेत्युक्तं तत्रापि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः ।
पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । वृद्धिनिमित्तस्य च तद्धि-
तस्यारक्तविकारइत्युक्तं तत्रापि भवति । शौच्रजातीया । शौच्रदेशीया । स्वाङ्गा-
च्चेतो ऽमानिनीत्युक्तं तत्रापि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजा-
तीया । श्लक्ष्णमुखदेशीया । जातेश्चेत्युक्तं तत्रापि भवति । कठवृन्दारिका । कठ-
जातीया । कठदेशीया । भाषितपुंस्कादित्येव । खट्वावृन्दारिका । अनूङित्येव ।
ब्रह्मबन्धूवृन्दारिका ॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः ॥ * ॥ कुक्कुट्या
अण्डं, कुक्कुटाण्डम् । मृग्याः पदं, मृगपदम् । मृग्याः क्षीरं, मृगक्षीरम् । काक्याः
शावः, काकशावः । न वा ऽस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्वातन्त्र्येण विना पूर्वप-
दार्थोत्र जातिः सामान्येन विवक्षितः । पुंवद्भावाद् ह्रस्वत्वं खित्घ्रादिषु भवति
विप्रतिषेधेन । खित् । कालिंमन्या । हरिणींमन्या । घादि । पटुतरा । पटुतमा ।
पटुरूपा । पटुकल्पा । क । पटुका । शुढिका । एडेडबिड् दरद् एषु उशिजिलेत्येते
जनपदशब्दाः क्षत्रियवाचिनः । तत्र तद्राजप्रत्ययस्य स्त्रियामतश्चेति लुकि कृते
एडबिड्वृन्दारिकेति विगृह्य समासः क्रियते । ततः पुंवद्भावेन ऐड़बिक्रादयः
पुंशब्दाः क्रियन्ते । ऐड़बिक्वृन्दारिका । औशिजवृन्दारिका * ॥
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योने-
काचो ह्रस्वः ॥ ४३ ॥
घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्का-
[Footnote]
- दारद्वृन्दारिका । पार्थवृन्दारिकेत्यधिकं पुस्तकान्तरे ।