काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 572, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ २ ॥ ५७१
कर्मवचन। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। कर्मणि च
येन संस्पर्शात्कर्त्तुः शरीरसुखमित्ययं योग उभयथा वक्ष्यते। कर्मण्युपपदे भावे
ल्युड् भवति। कर्मण्यभिधेये ल्युड्वतेति। तत्र पूर्वस्मिन्सूत्रार्थे भाववचनो-
दाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अन इति किम्। हस्तहार्यमुद्-
श्वित्। भावकर्मवचन इति किम्। दन्तधावनम्। करणे ल्युट्। कारकादि-
त्येव। निदर्शनम्। अवलेखनम्। सर्वेषु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति ॥
मन्क्तिन्व्याख्यानशयनवासनस्थानयाजकादिक्रीताः ॥ १५१ ॥
मवन्तं क्तिन्नन्तं व्याख्यान शयन आसन स्थान इत्येतानि याजकादय-
क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति। मन्। रथवर्त्म। शकटवर्त्म। क्तिन्।
याज्ञिनिकृतिः। आपिशलिकृतिः। व्याख्यान। ऋगयनव्याख्यानम्। छन्दो-
व्याख्यानम्। शयन। राजशयनम्। ब्राह्मणशयनम्। आसन। राजासनम्।
ब्राह्मणासनम्। स्थान। गोस्थानम्। अश्वस्थानम्। याजकादिः। ब्राह्म-
णयाजकः। क्षत्रिययाजकः। ब्राह्मणपूजकः। क्षत्रियपूजकः। याजकादयो ये
याजकादिभिश्चेति षष्ठीसमासार्थाः पठन्ते तएवेह गृह्यन्ते। क्रीत। गोक्रीतः।
अश्वक्रीतः। कृत्स्वरापवादोयं योगः। क्रीतशब्दे तु तृतीया कर्मणीत्यस्याप-
वादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थे ग्रहणम्। कारकादित्येव।
प्रकृतिः। प्रहूतिः॥
सप्तम्याः पुण्यम् ॥ १५२ ॥
सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यम्,
अध्ययनपुण्यम्। वेदे पुण्यं, वेदपुण्यम्। सप्तमीति योगविभागात्समासः।
तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते।
उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति। सप्तम्या
इति किम्। वेदेन पुण्यं, वेदपुण्यम् ॥
ऊनार्थकलहं तृतीयायाः ॥ १५३ ॥
ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात्पराण्यन्तोदात्तानि
भवन्ति। माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापणविकलम्।
कलह। असिकलहः। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः।
अथ केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्येनार्थो धान्यार्थः। ऊनप्र-
ख्येनेव त्वर्थेनैहार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमा-
सपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम् ॥
मिश्रं चानुपसर्गमसंधौ ॥ १५४ ॥