सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 582, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 582

Here is the line-by-line transcription of the page:

॥ काशिका ॥ ६ ॥ ३ ॥ ५८१
पूर्व्वादिः ॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ * ॥
दिवोदासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति ॥
इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः ॥
॥ अथ षष्ठाध्यायस्य तृतीयः पादः ॥
अलुगुत्तरपदे ॥ १ ॥
अलुगिति च उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदित ऊर्द्ध्व-
मनुकमिष्यामो ऽलुगुत्तरपदइत्येवं तद्वेदितव्यम् । वक्ष्यति पञ्चम्याः स्तोका-
दिभ्यः । स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदेइति किम् । निष्क्रान्तः स्तोकात्,
निस्तोकः । अन्यार्थमिदमुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थे
लक्षणप्रतिपदोक्तपरिभाषा नाश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरप-
[