काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 583, कुल 828 में से
संदर्भ में पढ़ें५८२ ॥ काशिका ॥ ६ ॥ ३ ॥
मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग्भवति । मनसादत्ता । मनसा-
गुप्ता । मनसासङ्गता । संज्ञायामिति किम् । मनोदत्ता । मनोगुप्ता ॥
अज्ञायिनि च ॥ ५ ॥
आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग्भवति । मनसा
ऽऽज्ञातुं शीलमस्य, मनसाऽऽज्ञायी ॥
आत्मनश्च पूरणे ॥ ६ ॥
आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्तउत्तरपदे ऽलुग्भवति ।
आत्मनापञ्चमः चात्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानमिति
तृतीया । तृतीयेति योगविभागात्समासः । आत्मना वा कृतः पञ्चम, आत्म-
नापञ्चमः । कथं जनार्दनस्त्वत्मचतुर्थ एवेति । बहुव्रीहिरयमात्मा चतुर्थो
ऽस्यासावात्मचतुर्थः ॥
वैयाकरणाख्यायां चतुर्थ्याः ॥ ७ ॥
वैयाकरणाख्या वैयाकरणाख्या । आख्या संज्ञा । यया संज्ञया वैया-
करणा एव व्यवहरन्ति तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मने-
पदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थ्येति योगविभागात्समासः ॥
परस्य च ॥ ८ ॥
परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् ।
परस्मैभाषा ॥
हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ९ ॥
हलन्ताददन्ताच्चोत्तरस्याः सप्तम्याः संज्ञायामलुग्भवति । युधिष्ठिरः ।
त्वचिसारः । गविष्ठिर इत्यत्र गविषुधिभ्यां स्थिर इत्यत एव वचनादलुक् ।
अदन्तात् । बारयेतिलकाः । बारयेमाषकाः । वनेकिंशुकाः । वनेहरिद्राकाः ।
वनेबल्वजकाः । पूर्वाहेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम् ।
नद्यां कुक्कुटिका, नदीकुक्कुटिका । भूम्यां पाशाः, भूमिपाशाः । संज्ञायामिति
किम् । अन्तशोषदः ॥ हृद्दिव्भ्यां ङेः ॥ * ॥ हृद् दिव् इत्येताभ्यामुत्तरस्य
ङेरुलुक् भवति । हृदिस्पृक् । दिविस्पृक् ॥
कारनाम्नि च प्राचां हलादौ ॥ १० ॥
प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्त-
म्या अलुग्भवति । सूपेशाखः * । दृषद्विमाषकः । हलेद्विपदिका । हलेत्रिष-
- मुकुटेकार्षापणमित्यधिकं पुस्तकान्तरे ।