काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 585, कुल 828 में से
संदर्भ में पढ़ें५८४ ॥ काशिका ॥ ६ ॥ ३ ॥
घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः
सप्तम्या विभाषा ऽलुग्भवति । घ । पूर्वाह्नेतरे । पूर्वाह्णतरे । पूर्वाह्नेतमे । पूर्वा-
ह्णतमे । काल । पूर्वाह्नेकाले । पूर्वाह्णकाले । तन । पूर्वाह्नेतने । पूर्वाह्णतने ।
कालनाम्न इति किम् । शुक्कतरे । शुक्कतमे । हलदन्तादित्येव । रात्रितरायाम् ।
उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नेष्यते । हृदयस्य हल्लेखेति लेखग्र-
हणाल्लिङ्गात् । तेन घतनग्रहणे तदन्तग्रहणं न भवति । कालेति स्वरूपग्र-
हणम् ॥
शयवासवासिष्वकालात् ॥ १८ ॥
शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या
विभाषा ऽलुग्भवति । खेशयः । खशयः । यामेवासः । यामवासः । यामेवासी ।
[