सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 577, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 577

५०६ ॥ काशिका ॥ ६ ॥ २ ॥
अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्येत्यन्तोदात्तत्व-
मिष्यते । समासान्ताश्चावयवा भवन्तीत्यनृचो बह्वृच इत्यत्र कृते समासान्ते
ऽन्तोदात्तत्वं भवति ॥
कपि पूर्वम् ॥ १७३ ॥
नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृ-
षलीकः । अब्रह्मबन्धुकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धुकः ॥
ह्रस्वान्ते ऽन्त्यात्पूर्वम् ॥ १७४ ॥
ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात्पूर्व-
मुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे । अयवको देशः ।
अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः । सुमाषकः । पूर्वमिति वर्त्तमाने
पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् । ह्रस्वान्तेन्त्यादेव पूर्वमुदात्तं भवति
न कपि पूर्वमिति । तेनाब्जकः सुब्जक इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति ॥
बहोर्नञ्वदुत्तरपदभूम्नि ॥ १७५ ॥
उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्त्तते तस्मान्नञ्वत् स्वरो भवति ।
नञ्सुभ्यामित्युक्तम् । बहोरपि तथा भवति । बहुयवो देशः । बहुव्रीहिः ।
बहुतिलः । कपि पूर्वमित्युक्तं बहोरपि तथा भवति । बहुकुमारीको देशः ।
बहुवृषलीकः । बहुब्रह्मबन्धुकः । ह्रस्वान्तेन्त्यात्पूर्वमित्युक्तं बहोरपि तथा
भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृता
इत्युक्तं बहोरपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः ।
उत्तरपदभूम्नीति किम् । बहुषु मनो ऽस्य बहुमना अयम् ॥
न गुणादयो ऽवयवाः ॥ १७६ ॥
गुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति ।
बहुगुणा रज्जुः । बहुत्तरं पदम् । बहुच्छन्दो मानम् । बहुसूक्तः । बहुऋचः ।
गुणादिराकृतिगणो द्रष्टव्यः । अवयवा इति किम् । बहुगुणो ब्राह्मणः ।
अध्ययनश्रुतसदाचारादयो ऽत्र गुणाः ॥
उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ १७७ ॥
उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे ।
प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवमित्येकरूपमुच्यते । ध्रुवमस्य शीतमिति
यथा । सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः । उपसर्गादिति किम् । दर्श-
नीयललाटः । स्वाङ्गमिति किम् । प्रहस्तो हयः । ध्रुवमिति किम् । उद्बाहुः
क्रोशति । अपर्श्विति किम् । उत्पर्शुः । विपर्शुः ॥