सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 578, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 578

॥ काशिका ॥ ६ ॥ २ ॥ ५७७
वनं समासे ॥ १७८ ॥
समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात्परमन्तोदात्तं भवति । प्रवणे
यष्टव्यम् । निर्वणे प्रविधीयते । प्रनिरन्तरिति णत्वम् । समासग्रहणं समास-
मात्रपरिग्रहार्थं बहुव्रीहावेव हि स्यात् ॥
अन्तः ॥ १७९ ॥
अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ
चारम्भः ॥
अन्तश्च ॥ १८० ॥
अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति । प्रान्तः । पर्यन्तः ।
बहुव्रीहिरयं प्रादिसमासो वा ॥
न निर्विभ्याम् ॥ १८१ ॥
नि वि इत्येताभ्यामुत्तरोन्तश्शब्दो नान्तोदात्तो भवति । न्यन्तः ।
व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः । तत्रोदात्तस्वरितयोर्यणः स्वरि-
तोऽनुदात्तस्येति स्वरितो भवति ॥
परेरभितोभावि मण्डलम् ॥ १८२ ॥
परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति । परिकूलम् ।
परितीरम् । परिमण्डलम् । बहुव्रीहिरयं प्रादिसमासो ऽव्ययीभावो वा । अव्य-
यीभावपक्षेपि हि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेष्विति पूर्वपदप्रकृतिस्व-
रत्वं प्राप्तमनेन बाध्यते । अभित इत्युभयतः । अभितो भावो ऽस्यास्तीति
तदभितोभावि । यच्चैवं स्वभावं कूलादि तदभितोभाविव्यपदेशेन गृह्यते ॥
प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ॥
प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषये ऽन्तोदात्तं भवति । प्रकोष्ठम् ।
प्रवहम् । प्रहारम् । अस्वाङ्गमिति किम् । प्रहस्तम् । प्रपदम् । संज्ञाया-
मिति किम् । प्रपीठम् * ॥
निरुदकादीनि च ॥ १८४ ॥
निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति । निरुदकम् । निरू-
दपम् । निरुपलमित्यन्ये पठन्ति । निर्मशकम् । निर्मक्षिकम् । एषां प्रादिस-
मासो बहुव्रीहिर्वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । निष्का-
लकः । निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः । नि-

  • प्राष्ठः । पा० ।
    ३७