काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 580, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 580
॥ काशिका ॥ ६ ॥ २ ॥ ५७८
पुरुषश्चान्वादिष्टः ॥ १६० ॥
पुरुषशब्दो ऽन्वादिष्टवाची चानोत्तरान्तोदात्तो भवति । अन्वादिष्टः
पुरुषो, ऽनुपुरुषः । अन्वादिष्टो ऽन्याचितः कथितमनुकथितो वा । अन्वादिष्ट
इति किम् । अनुगतः पुरुषो ऽनुपुरुषः ॥
अतेरकृत्पदे ॥ १६१ ॥
अतेः परमकूदन्तं पदशब्दश्चान्तोदात्तो भवति । अत्यङ्कुशो नागः ।
अतिकशोश्वः । पदशब्दः खल्वपि । अतिपदा शक्वरी । अकृत्पदे इति किम् ।
अतिकारकः ॥ अतेर्गातुलोपइति वक्तव्यम् ॥ * ॥ इह मा भूत् । शोभनो
गार्ग्यः । अतिगार्ग्यः । इह च यथा स्यात् । अतिक्रान्तः कारकादतिकारक इति ॥
नेरनिधाने ॥ १६२ ॥
नेः परमुत्तरपदमन्तोदात्तं भवति । निधानमप्रकाशता । निर्मूलम् ।
न्यक्षम् । नित्यग्निम् । बहुव्रीहिर