काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 587, कुल 828 में से
संदर्भ में पढ़ें५८६ ॥ काशिका ॥ ६ । ३ ॥
ईदग्नेः सोमवरुणयोः ॥ २७ ॥
सोम वरुण इत्येतयोर्देवताद्वन्द्वे ऽग्नेरीकारादेशो भवति । अग्नीषोमौ ।
अग्नीवरुणौ । अग्नेः स्तुतस्तोमसोमा इति षत्वम् ॥
इद्दृद्धौ ॥ २८ ॥
ऋत्यवृद्धावुत्तरपदे देवताद्वन्द्वे ऽग्नेरिकारादेशो भवति । आग्निमारुती-
मनड्वाहीमालभेत । आग्निमारुतं कर्म्म क्रियते । अग्नीवरुणौ देवता ऽस्य
आग्नीमरुतो देवतास्येति तद्धितः । तत्र देवताद्वन्द्वे चेत्युभयपदवृद्धौ कृताया-
मानङ् ह्रस्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् । आग्नेन्द्रः । नेन्द्रस्य
परस्येत्युत्तरपदवृद्धिः प्रतिषिध्यते ॥ इद्दृद्धौ विष्णोः प्रतिषेधो । वक्तव्यः ॥ * ॥
आग्नावैष्णवं चरुं निर्वपेत् ॥
दिवो द्यावा ॥ २९ ॥
दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे ।
द्यावाक्षामा । द्यावाभूमी * ॥
दिवसश्च पृथिव्याम् ॥ ३० ॥
पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति चका-
राद् द्यावा च । दिवसंपृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य
विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । कथं द्यावा चिदस्मै
पृथिवी नमेते इति । क्लीबेऽत्र यणः ॥
उषासोषासः ॥ ३१ ॥
उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासा-
सूर्य्यम् । उषासानक्ता ॥
मातरपितरावुदीचाम् ॥ ३२ ॥
मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते ।
मातरपितरौ । उदीचामिति किम् । मातापितरौ ॥
पितरामातरा च च्छन्दसि ॥ ३३ ॥
पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा
च। पूर्वपदस्य चाङादेशो निपात्यते। उत्तरपदे तु सुप्सुं सुलुगिति आकारादेशः ।
तत्र ऋतो ङिसर्वनामस्थानयोरिति गुणः । छन्दसि किम् । मातापितरौ ॥
- द्यौश्च पृथिवी च द्यावापृथिव्यौ इत्यधिकं पुस्तकान्तरे ।