सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

२८ कर्पूरमञ्जरी
देवी—( समन्तादवलोक्य । )
गाअंतगोअवहुपअपैखिदासु
दोलासु विभमवदीसु ¹णिविट्ठदिट्ठी ।
जं जादि खंजिदतुरंगरहो दिणेसो
तेण घ होंति दिअहा अइदीहदीहा ॥ २१ ॥
( प्रविश्यापटीक्षेपेण । )
विदूषकः—आसणं आसणं ।
देवी—
गायद्गोपवधूपदप्रेङ्खितासु
दोलासु विभ्रमवतीषु निषण्णदृष्टिः ।
यद्याति खञ्जिततुरङ्गरथो दिनेश-
स्तेन भवन्ति दिवसा अतिदीर्घदीर्घाः ॥
पदेधरणं । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्दिनातिदीर्घा दिवसा आलस्यमा-
वहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति व्यज्यते, तेन प्रकृतसंगतिः । अत्र हेत्वति-
शयोक्तिपर्यायोक्तमुत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्तौ दण्डिमते—(का. २।२१४)
‘विवक्षा या विशेषस्य लोकसीमानिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा
यथा ॥’ इति । ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं
पर्यायोक्तमिदिष्यते ॥’ (का. २।२९५) इति ।
प्रविश्येति । अपटी जवनिका ।
विदूषकः—
आसनमासनम् ।
दीयतामिति शेषः ।
१ 'निमण्ण' इति टीकानुगुणः पाठः ।

प्रथमं जवनिकान्तरम् २९
राजा—किं तेण ?
विदूषकः—भइरवाणंदो दुआरे चिट्ठदि ।
देवी—किं सो, जो जणवयणादो अञ्चब्भुदसिद्धी सुणीअदि ?
विदूषकः—अध इं ।
राजा—पवेसअ ।
(विदूषको निष्क्रम्य तेनैव सह प्रविशति ।)
भैरवानन्दः—(किञ्चिन्मदमभिनीय ।)
मंतो ण तंतो ण अ किं पि जाणे झाणं च णो किं पि गुरुप्पसादा ।
मज्जं पिवामो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥ २२ ॥

राजा—
किं तेन ?
प्रयोजनमिति शेषः ।
विदूषकः—
भैरवानन्दो द्वारे तिष्ठति ।
देवी—
किं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते ?
विदूषकः—
अथ किम् ।
राजा—
प्रवेशय ।
मंतो इति ।
मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् ।
मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गसंलग्नाः ॥

३० कर्पूरमञ्जरी
अवि अ,—
रंडा चंडा दिक्खिदा धम्मदारा
मज्जं मंसं पिज्जए खज्जए अ ।
भिक्खा भोज्जं चम्मखंडं च सेज्जा
कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥
किं च,—
मुत्तिं भणंति हरिबम्हमुहा वि देवा
झाणेण वेअपढणेण कदुकिआहिं ।
एक्केण केवलमुमाइदएण दिट्ठो
मोक्खो समं सुरअकेलिमुगारसेहिं ॥ २४ ॥
राजा—इदं आसणं । उबविसदु भइरवाणंदो ।
मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा
दण्डिना प्रोक्तः (का. २।१३३)—'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम्
विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति ।
अवि अ इति ।
अपि च,—
रण्डा चण्डा दीक्षिता धर्मदारा
मद्यं मांसं पीयते खाद्यते च ।
भिक्षा भोज्यं चर्मखण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः ॥
किं च इति,—
मुक्तिं भणन्ति हरिब्रह्ममुखाऽऽदिदेवा
ध्यानेन वेदपठनेन ऋतुक्रियाभिः ।
एकेन केवलमुमादयितेन दृष्टो
मोक्षः समं सुरतकेलिमुगारसैः ।
हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः ।
राजा—
इदमासनम् । उपविशतु भैरवानन्दः ।

प्रथमं जवनिकान्तरम् ३१
भैरवानन्दः—(उपविश्य।) किं कादव्वं !
राजा—कहिं पि विसए अच्छरिअं दट्ठुं इच्छामि ।
भैरवानन्दः—
दंसेमि तं पि ससिणं वसुहावइण्णं
थंभेमि तस्स वि रविस्र रहं णहद्धे ।
आणेमि जक्खसुरसिद्धगणंगणाओ
तं णत्थि भूमितलए मह जं ण सज्झं ॥ २५ ॥
ता भण किं कीरदु ।
भैरवानन्दः—
किं कर्तव्यम् ?
किमीप्सितं ते मया कर्तव्यमित्यर्थः ।
राजा—
कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि ।
अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।'
इत्युक्तत्वात् ।
भैरवानन्दः—
दर्शयामि तमपि शशिनं वसुधावतीर्णं
स्तम्भामि तस्यापि रवे रथं नभोऽर्धे ।
आनयामि यक्षसुरसिद्धगणाङ्गना-
स्तन्नास्ति भूमितलये मम यन्न साध्यम् ॥
एतेनावमर्शसन्ध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके
( १।४३)—'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भेनिर्भिन्नबीजार्थः
सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः स्वश-
क्त्युक्तिः' (१।४७) इति ।
ता इति ।
तद्ब्रूहि किं क्रियताम् ।

३४ कर्पूरमञ्जरी
विदूषकः—
ण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए ।
ओल्हंसुउल्लासितणुल्लआए सुंदेरसघवस्समिमीअ दिट्ठी ॥ २८ ॥
नायिका—(सर्वानवलोक्य । स्वगतम् ।) एसो महाराओ को वि
इमिणा गंभीरमहुरेण सोहासमुदाएण जाणीअदि । एसा वि एदस्स
महादेवी लक्खीअदि । अद्धनारीसरस्स वामद्धे विअ अरूहिआ वि
गोरी मुणीज्जदि । एसो को वि जोईसरो । एस उण परिअणो ।
(विचिन्त्य ।) ता कि ति एदस्स महिलासहिदस्स वि दिट्ठी मं बहु
मण्णेदि । ( इति त्र्यस्रं वीक्षते । )
लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विगो भावः । स यथा रसकलिकायाम्—
'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः ।' इति । स एव चानुभावः । चिन्तादयो
व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था ।
विदूषकः—
स्नानावमुक्ताभरणोदयायास्तरङ्गभङ्गक्षतमण्डनायाः ।
आर्द्रांशुकोल्लासिततनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥
दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे—'अङ्गा-
न्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥'
इति । मृदवं नामाङ्गमुक्तम्—'दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ।'
इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिवन्धो यत्तत्सौन्दर्यमितीर्यते' । इति सौन्दर्यलक्षणम् ।
नायिका—एसो इति ।
एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभामुदायेन ज्ञायते । एषा-
प्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्द्धेवारूढितापि गौरी ।
एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि
दृष्टिर्मां बहु मन्यते ?
त्र्यस्रमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं
यत्तत्कातरमुच्यते ।' इति तल्लक्षणम् ।

प्रथमं जवनिकान्तरम् ३५
राजा—(विदूषकमपवार्य ।)
जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा
भिंगाद्विट्ठिदिनेदअग्गिमदलद्दोणीसरिच्छच्छई ।
तं कप्पूररसेण णं धवलिदो जोण्हाइ णं व्हाविदो
मुत्ताणं घणरेणुण व्व छुरिदो जादो म्हि पत्थंतरे ॥ २९ ॥
राजा—अपवार्येति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दश-
रूपके (१।६५-६६)—'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्या-
मन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥' इति । त्रिपताका तु संगीतरत्नाकरे—
'तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत् । पताकः सहताकारः प्रसारितकराङ्गुलिः ॥
स एव त्रिपताकः स्याद्विनानामिकाङ्गुलिः ।' इति ।
यन्मुक्ता श्रवणान्तरेण सहसा तीक्ष्णा कटाक्षच्छटा
भृङ्गाधिष्ठितरेवतसीमदलद्रोणीसदृशच्छविः ।

३६ कर्पूरमञ्जरी
विदूषकः—अहो से रूवसोहा।
मण्णे मज्झं तिवलिवलिअं डिम्भमुट्ठिअ गेज्झं
णो बाहूहि रमणफलअं वेद्विदु जादि दोहि।
णेत्तच्छेत्तं तरणिपसईदिज्जमाणोवमाणं
ता पञ्चक्खं मइ विलिहिदु जादि एसा ण चित्ते ॥ ३० ॥
कध ण्हाणधोदविलेवणा वि समुच्चारितविभूसणा वि रमणिज्जा। अह वा,—
रूवेणं मुक्का वि विभूसअंति ताणं अलंकारवसेण सोहा।
णिसग्गचग्गस्स वि¹ माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥३१॥
विदूषकः—
अहो अस्या रूपशोभा।
मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्ट्या ग्राह्यं
नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम्।
नेत्रक्षेत्रं तरणिप्रसृतिदीयमानोपमानं
तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥
रमणफलकं जघनपरिसरः। नेत्रक्षेत्रं चक्षुः परिसरः। चित्ते विलिखितुं धारयितुं
न शक्नोमीत्यर्थः। डिम्भो बालः। 'क्षेत्र'शब्देन नानाविकारास्पदत्वं व्यङ्ग्यम्।
अत्र रूपलावण्यसौन्दर्याण्युक्तानि। लावण्यं तु 'मुक्ताफलेषु छायायास्तरळत्वमिवान्तरा।
प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥' इति। उपमालङ्कारः। शृङ्गारस्य
दीप्तत्वात् 'कान्तिर्दीप्तरसं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः। गाम्भीर्यं च।
विभावादिकं तु पूर्ववदेव ॥
कथं स्नानधौतविलेपना समुच्चारितविभूषणापि रमणीया। अथवा,—
या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा।
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥
यासां सौन्दर्यं नास्ति तासामलंकारैः शोभा। यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्यं
तस्यालङ्कारैः कान्तिरुन्मीलति, महत्त्वमेत्य जायत इत्यर्थः। अत्र समाधिः। यथा
काव्यप्रकाशे (१०।१२५)—'समाधिः सुकरं कार्यं कारणान्तरयोगतः' ॥
१ 'रेहोणं' इति टीकापाठः। २ 'तु' 'मनुजस्स' इति च भिन्नः पाठः।

३८ कर्पूरमञ्जरी
इत्थं जायं अवअवगदा का वि सुंदेरमुद्दा
मण्णे ताणं चलइदधणू णिच्चभिच्चो अणंगो ॥ ३३ ॥
अवि अ, एदाए—
तहा रमणवित्थरो जह ण ठाइ कंचीलदा
तहा १सिद्धिणतुंगिमा जह २णिपइ णाहिं ण हु ।
तहा णअणवह्निमा जह ण किंपि कण्णुप्पलं
तहा अ मुहमुज्जलं दुस्ससिणी जहा पुण्णिमा ॥ ३४ ॥
देवी—अज्ज कविंजल ! पुच्छिअ जाण का एस त्ति ।
इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा
मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः ॥
अवयवगतेति । सर्वाङ्गव्यापि सौन्दर्यमुद्रम् । नित्यभृत्य इति । भृत्यो यथा
भर्त्राज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्यं कुरुते तथा कामिनीकटाक्षमात्रेणैव
कामिनो वशी करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते । अत्र सारः । स यथा काव्य-
प्रकाशे ( १०।११३ )—'उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।' इति ॥
अपि च, एतस्याः—
तथा रमणविस्तारो यथा न तिष्ठति काञ्चीलता
तथा च स्तनतुङ्गिमा यथा नैति नाभि मुखम् ।
तथा नयनवह्निमा यथा न किमपि कर्णोत्पलं
तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा ॥
न क्षिमतीति न शोभापहमित्यर्थः । क्वचित् 'तुट्टिमा' इति पाठः । क्वचित्
'वह्निमा' इति। तदुभयमप्यप्रमाणम् । 'दृढस्थूलशब्दाभ्याम्' इति दृ. क्वचिद्-
दृष्टत्वात् । द्विशशिनीति 'नद्यृतश्च' (पा. ५।४।१५३) इति न कप् । अनिर्देश्यात् ।
अद्भूतोपमया वपुषः परमाह्लादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतुः ।
चतुर्थे तूपमायाः कृत्याद्यप्रक्रमभङ्गः 'तदा अ मुहमुज्जलं जह ण उज्जलं संचनं'
इति पठित्वा समाधेयः ॥
देवी—
आर्य कपिञ्जल ! पृष्ट्वा जानीहि कैवेति ।
१ 'तहा थणतुंगिमा' इति पाठः । २ 'ण पर णांहि मुहं' इति टी०• ।

४० कर्पूरमञ्जरी
नायिका—तस्स घरणी ससिप्पहा णाम ।
देवी—( स्वगतम् ।) सा वि मे माउच्छिआ ।
नायिका—( विहस्य ।) तेहि अहं खलखंडेहि कीणिदा दुहिद त्ति
वुच्चामि ।
देवी—( स्वगतम् ।) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी
रूवसोहा । ण हु विद्दूरभूमिं अंतरेण वेरुळिअमणिसलाआ णिप्प-
ज्जदि । (प्रकाशम् ।) णं तुवं कप्पूरमंजरी ।
(नायिका सलज्जमधोमुखी तिष्ठति ।)
देवी—एहि वहिणिए । आलिंगसु मं । (इति परिष्वजते ।)
कर्पूरमञ्जरी—अम्महे, कप्पूरमंजरीए एसो पढमो पणामो ।
नायिका—
तस्य गृहिणी शशिप्रभा नाम ।
देवी—
साऽपि मे मातृष्वसा ।
नायिका—
ताभ्यामहं खडिरखण्डैः क्रीणिता दुहितेति ।
देवी—
न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा । न खलु वैदूर्यभूमिमन्तरेण
वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी ।
देवी—
एहि भगिनिके ! आलिङ्गय माम् ।
कर्पूरमञ्जरी—
• अये ! कर्पूरमञ्जर्या एष प्रथमः प्रणामः ।
प्रथम इत्येतावन्तं कालमदृष्टपादपद्मस्य प्राथम्यमुक्तम् ।

प्रथमं जवनिकान्तरम् ४१
देवी—अज्ज भइरवाणंद ! तुज्झ प्पसाएण अपुव्वं संविहाणअं
णुभविदं कप्पूरमंजरीदंसणेण । ता चिट्ठदु दाव एसा पंचदसदिवसाइं ।
च्छा झाणविमाणेण णइस्सह ।
भैरवानन्दः—जं भणादि देवी ।
विदूषकः—(राजानमुद्दिश्य ।) भो वअस्स ! अम्हे परं दुवे वि
बाहिरा तुवं अह च । जदो एदाणं मिलिदं कुटुंबं वट्टदि । जदो
इमीओ दो वि बहिणिआओ । भइरवाणंदो उण एदाणं संजोअअरो
अच्चिदो महग्घिदो अ । एसा विअक्खणा महीअलसरस्सदी अ कुट्टिणी^१
देवी ज्जेव देहंतरेण ।
देवी—विअक्खणे ! णिअजेट्ठबहिणिअ सुलक्खणं भणिअ भइरवा-
णंदस्स हिअइच्छिदा सपज्जा कादव्वा ।
देवी—
आर्य भैरवानन्द ! तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन ।
संतिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ ।
संविधानकमुपचारः । भ्रान्तस्य विमानं ध्यानविमानम् । नेष्यथेति पूजायां
बहुवचनम् ।
भैरवानन्दः—
यद्भणति देवी ।
विदूषकः—
भो वयस्य ! आवां परं द्वावपि बाह्यौ त्वमहं च । यत एतासां मिलितं कुटुम्बकं
वर्तते । यत इमे द्वे अपि भगिन्यौ । भैरवानन्द पुनरेतयोः संयोजकरोऽर्चितो
महार्धितश्च । एषा विचक्षणा महीतलसरस्वती च कुट्टनी देहान्तरेण देव्येव । यथा
रात्रीदृशिना सङ्गेयमपीति सोत्कण्ठम् ।
देवी—
विचक्षणे ! निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता
सपर्या कर्तव्या ।
हृदयस्थितेन यार्थः । तदा यथामिलितमित्यर्थः ।
१ 'देहंतरेण देवी ज्जेव' इति टीकापाठः ।

४२ कर्पूरमञ्जरी
विचक्षणा—जं देवी आणवेदि ।
देवी—(राजानं प्रति ।) अज्जउत्त ! पेसिहि मं, जेण अहं बहिणीए
एदावस्थाए णेवच्छलच्छीलीलाणिमित्तं अंतउरं गमिस्सं ।
राजा—जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरि-
पूरणं ।
(नेपथ्ये ।)
वैतालिकयोरेकः—सुहसंझा भोदु देवस्स ।
एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं
को जाणादि कहिं पि संपदि गअं पत्तम्मि कालंतरे।
जादा किं च इअं पि दीहविरहा सोऊण णाहे गदे
¹णिच्चामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥
विचक्षणा—
यद्देव्याज्ञापयति ।
देवी—
आर्यपुत्र ! प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्त-
मन्तःपुरं गमिष्यामि ।
राजा—
युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् ।
अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे
(१०।१९७)—‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति ।
वैतालिकः—
सुखाय सन्ध्या भवतु देवस्य ।
एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं
को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे ।
जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते
मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥
1 'मुच्छामुद्दिअ' इति टीकाधृतः पाठः ।

४४ कर्पूरमञ्जरी
द्वितीयं जवनिकान्तरम्
( ततः प्रविशति राजा प्रतीहारी च । )
प्रतीहारी—( परिक्रामितकेन । ) इदो इदो महाराओ ।
राजा—( कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे
ण ट्ठाणाहिं तिलांतरं पि चलिदा सुत्था णिअंबत्थली
थोउद्वेल्लद्धलीतरंगमुदरं कंठो तिरिच्छिद्विदो ।
वेणीए उण आणणेन्दुभमणे लद्धं थणालिंगणं
जादा तीअ चउव्विहा तणुलदा तंसं वलंती मए ॥ १ ॥
प्रतीहारी—
इत इतो महाराजः ।
राजा—
गत्वेत्यनन्तरमाह स्मेति शेषः ।
तस्मिन्खल्ववसरे,—
न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली
स्तोकोद्वेल्लद्वलीतरङ्गमुदरं कण्ठस्तिर्यक्स्थितः ।
वेण्या पुनराननेन्दुभ्रमणे लब्धं स्तनालिङ्गनं
जातात्तस्याश्चतुर्विधा तनुलता निष्ध्यायन्त्या माम् ॥
अत्र स्मृतिः । तल्लक्षणं साहित्यदर्पणे ( ३।१६२)—'सदृशज्ञानचिन्ताद्यैर्भ्रू-
समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्ल-
क्षणमुक्तं वृद्धैः—'विशेषणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेष-
णानां तथात्वमूह्यम् । रूपकं चान्न । तल्लक्षणमुक्तं मम्मटेन—( का. प्र. १०।९३)
'तद्रूपकमभेदो य उपमानोपमेययोः।' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य
गरिमातिशयो व्यज्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्यज्यते । 'तनु-
लता' इत्यनेन च सादृश्यचापल्याश्लेषादिलातागुणवत्त्वं वपुषो व्यज्यते ।
१ 'णिज्झायन्तीअ म' इति टीकापाठः; 'तंसं वुलंती अ मं' इत्यपि पाठः क्वचित् ।

द्वितीयं जवनिकान्तरम् ४५
प्रतीहारी—( स्वगतम् ।) कहं अज्ज वि सो ज्जेव सिरितालीपत्तसं-
चओ, ताओ ज्जेव अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से
तग्गदं हिअआवज्जं । ( प्रकाशम् ।) दिट्ठिं देदु महाराओ ईसीसि जरढा-
, अमाणे कुसुमाअरम्मि ।
मूलाहिंतो परहुदबहूकंठमुद्दं दलंता
देंता दीढमहुरिमगुणं जंपिए छप्पआणं ।
संचारेंता विरहिंसु णवं पंचमं किं च राअं
राउम्मत्ता रइकुलहरा वासरा वित्थरंति ॥ २ ॥
प्रतीहारी—
कथमद्यापि स एव श्रीतालीपत्रसञ्चयः, ता एवाक्षरपङ्क्तयः । तद्वसन्तवर्णनेन
शिथिलयाम्यस्य तद्गतं हृदयावेगम् ।
'आवेग'शब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि
विषयान्तरसंचारेण किञ्चिच्छिथिलयामीति चोच्यते ।
दिट्ठिं इति ।
दृष्टिं ददातु महाराज ! ईषदीरजठायमाने कुसुमाकरे ।
कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा ।
कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ।' इति विश्वः ।
मूला इति ।
मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलयन्तो
ददतो दीर्घं मधुरिमगुणं जल्पिते षट्पदानाम् ।
सञ्चारयन्तो विरहिषु नवं पञ्चमं किञ्चिद्रागं
रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥
परभृतवध्वः कोकिलस्त्रियः । परभृता वध्य इवेति वा । पक्षद्वयेऽपि संभोग-
शृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । येन दुःसहा
च तेषां सम्भा भाषादिरिति भावः ( १) । 'पुष्पसाधारणे वासि पिकः कूजति पञ्चमम्
'किञ्चिद्रागम्'इति 'पञ्चमम्' इत्यस्य विशेषणम् । किञ्चिद्रागो यस्यां क्रियायामिति वा

४६ कर्पूरमञ्जरी
राजा—(तदनाकर्ण्य सानुरागम् ।)
आत्थाणीजणलोअणाण बहुला लावण्णकल्लोलिणी
लील़ाविब्भमहासवासणअरी सोहग्गपालित्थिआ ।
पेक्खेंदीवरदीहिआ मह पुणो सिंगारसंजीविणी
१अं जादा णह मम्महेण धणुहे तिक्खो सरो २संधिदो ॥३॥
(सोन्मादमिव ।) दंसणक्खणादो पहुदि कुरंगच्छी
भवति तथेति क्रियाविशेषणं वा । रतयः संभोगास्तेषां गृहे समुद्भूतस्य गृहाः
स्थानानीत्यर्थः । यद्वा,–रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकरू-
दित्वाशयः ।
राजा—
आस्थानीजनलोचनानां बहुला लावण्यकल्लोलिनी
लीलाविलासमहासवासनगरी सौभाग्यपालिस्थिता ।
प्रेक्षेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी
संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः ॥
'लावण्यकल्लोलिनी' इत्यनेन प्रतिक्षणं सौन्दर्यातिशयसौन्दर्यञ्जायते । 'वासनगरी'
इत्यनेन क्षणमपि तद्विश्लेषाभावो गम्यते । 'तीक्ष्ण' इत्यनेन पूर्वमपि शरसंधान-
मासीदेव, इदानीं स्वतिदुःसहं तदेतादृशशरविदारणं द्योत्यते ।
सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके ( २।१२ )—'श्वासप्रमोद-
गोष्पष्पवपुषोपोषनंरपि । व्यापारे जायते यत्र स उन्मादः स्मृतो यथा ॥'
इति । साहित्यदर्पणेऽपि ( ३।१६० )—'चित्तस्य भ्रम उन्मादः कामशोक-
भयादिभिः । अभ्यानहासगदितगीतरुदतनादिहृत् ॥' इति ।
दंसण इति ।
दर्शनक्षणप्रभृति कुरङ्गाक्षी
1 'संजाअ' इति टीकाकृतः पाठः । 2 'पुंखिदो' इति टीकाकृतः पाठः ।

द्वितीयं जवनिकान्तरम् ४७
चित्ते पप्फुट्ठदि ण खुट्टदि सा गुणेसुं
सेज्जाए लुट्ठदि विसप्पदि दिक्कहेसुं ।
घोलम्मि वट्टदि पअट्टदि कव्वबन्धे
झाणे ण तुट्ठदि चिरं तरुणी तरट्ठी ॥ ४ ॥
अवि अ,—
जे तीअ तिक्खचलचक्खुत्तिहायदिट्ठा
ते कामचन्दमहुपंचममारणिज्जा ।
जेसुं पुणो णिवडिआ सअला वि दिट्ठी
वट्टन्ति ते तिलजलंजलिदाणजोग्गा ॥ ५ ॥
( सम्मरणमिव । ) अवि अ,—
अग्गम्मि भिंगसरणी घअणस्स तीए
मज्झे पुणो घडिददुद्धतरंगमाला ।
चित्ते प्रस्फुटति न क्षीयते सा गुणेषु
शय्यायां लुटति विसर्पति दिक्पुरेषु ।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिरं तरुणी तरलाक्षी ॥
अपि च,—
ये तया तीक्ष्णचञ्चच्चक्षुस्त्रिभागदृष्टा-
स्ते कामचन्द्रमधुपञ्चममारणीयाः ।
येषु पुनर्निपतिता सकलाऽपि दृष्टि-
र्वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥
मधुरेशन्न । स्मृतिश्चाप्युक्तम् ।
अपि च,—
अग्रे भृङ्गसरणिर्वदनयोस्तस्या
मध्ये पुनः घटितदुग्धतरङ्गमाला ।

४८ कर्पूरमञ्जरी
पच्छा अ से सरदि तंसणिरिक्खिदेसुं
आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥
(विचिन्त्य ।) चिराअदि पिअवअस्सो ।
(प्रविश्य विदूषको विचक्षणा च परिक्रामतः ।)
विदूषकः—अइ विअक्खणे ! सव्वं सच्चं एदं ?
विचक्षणा—सव्वं सच्चअरं ।
विदूषकः—णाहं पत्तिआमि, जंदो परिहाससीला खु तुम्हं ।
विचक्षणा—अज्ज ! मा एवं भण । अण्णो वंक्करकालो, अण्णो
कज्जविआरकालो ।
पश्चाच्च तस्याः स्मरति तिर्यङ्निरीक्षितेषु
आकर्णमण्डलितचापधरोऽनङ्गः ॥
तद्दर्शननिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च
कविप्रौढोक्तिसिद्धो ध्वनि ।
चिरयति प्रियवयस्यः ।
विदूषकः—
अयि विचक्षणे ! सर्वं सत्यमिदम् ?
विचक्षणा—
सर्वं सत्यतरम् ।
विदूषकः—
नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् ।
कदाचिदयमपि परिहास एव भवेदिति भावः ।
विचक्षणा—
आर्य ! मैवं भण । अन्यो वर्करकालः, अन्यः कार्यविचारकालः ।
तथा च नेदं सर्वमसत्यमिति भावः ।
१ 'मटलिइ' इति टीकापाठः । ३ बर्करकालः=सोत्कण्ठभाषणसमयः ।

द्वितीयं जवनिकान्तरम् ४९
विदूषकः—( पुरोऽवलोक्य ।) एसो पिअवअस्सो हंसो विअ विमु-
क्तमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो,
दिणदिण्णदीवो विअ विअलिअच्छायो, पभादपुण्णिमाचंदो विअ
पंडुरपरिक्खीणो चिट्ठदि ।
उभौ—( परिक्रम्य ।) जअदु जअदु महाराओ ।
राजा—वअस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि !
विदूषकः—अज्ज विअक्खणा मए सह संधिं कादुं आददा ।
किदसंधीए एदाए सह भंतअंतस्स एत्तिआ वेला लग्गा ।
राजा—संधिकरणस्स किं फलं ?
विदूषकः—
एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव
घनघर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि-
क्षीणस्तिष्ठति ।
विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः ।
दृगोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः ।
उभौ—
जयतु जयतु महाराजः ।
राजा—
वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ?
विदूषकः—
अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह भ्रम्यमाणस्यै-
तावती वेला लग्ना ।
राजा—
संधिकरणस्य किं फलम् ?
क० प्र० ४

५० कर्पूरमञ्जरी
विदूषकः—एसा अहिंमदजणपेसिदलेहहत्था णं विअक्खणा
आगदा ।
राजा—(गन्धं सूचयित्वा ।) केदईकुसुमगंधो विअ आआदि ।
विचक्षणा—केदईदललेहो एव्व एसो मह हत्थे ।
राजा—महुसमए किं केदईकुसुमं ?
विचक्षणा—भेरवाणंददिण्णमंतप्पहावेण देवीभवणुज्जाणे केदई-
लट्ठीए एको दाव पसवो दंसिदो। तस्स दोहि दलसंपुडेहिं अज्ज हिंदो-
लअप्पभंजणीए चउत्थीए हरवल्लहाए देवीए देवी अच्चिदा । अण्णं च
दलसंपुडजुअलं पुण कणिद्वबहिणीआए कप्पूरमंजरीए पसादीकिदं ।
तीए वि एकेण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च,—
विदूषकः—
एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता ।
इदमेव संधिफलमित्याशयः ।
राजा—
केतकीकुसुमगन्ध इवायाति ।
विचक्षणा—
केतकीदललेख एवेष मम हस्ते ।
तस्यैष गन्ध इत्याशयः ।
राजा—
मधुसमये किं केतकीकुसुमम् ?
विचक्षणा—
भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनेोद्याने केतकीलतयामेकस्तावत्प्रसवो दर्शितः।
तस्य दलसंपुटद्वयेन हिन्दोलप्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता ।
अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमञ्जर्यै प्रसादीकृतम् । तयाप्येकेन
दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च,—

द्वितीयं जवनिकान्तरम् ५१
घेन्दईकुसुमपत्तसंपुडं पाहुडं तुअ सहीए पेसिदं ।
एणणाहिमसिअण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ ७ ॥
( इति लेखमर्पयति । )
राजा—( प्रसार्य वाचयति । )
हंसिं कुंकुमपंकपिंजरतणुं काऊण अं वंचितो
तब्भत्ता किल चक्कवाअघरणी एस त्ति मण्णंतओ ।
एवं तं मह दुक्कदं परिणदं दुक्खाण सिफ्फाधणं
एक्कत्थो वि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि ॥ ८ ॥
( राजा तदेव द्वित्रिर्वाचयति । )
विदूषकः—एदाईं ताईं मअणरसाअणाईं अक्खराईं ।
विचक्षणा—दुदिओ उण मए पिअसहीए अवत्थाणिवेदओ कडुअ
सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ ।
चेतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् ।
एणनाभिमर्षीवर्णशोभिना तच्छ्लोकयुगलेन लाञ्छितम् ॥
राजा—
हंसीं कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित-
स्तद्भर्त्ता किल चक्रवाकगृहणीयेति मन्यमानः ।
एवन्तन्मम दुष्कृतं परिणतं दुःखानां विस्फारकं
एकस्थोऽपि न यासि येन विषयं दृष्टिविभागस्यापि ॥
विदूषकः—एतानि तानि मदनरसायनाक्षराणि ।
विचक्षणा—
द्वितीयः पुनर्मया प्रियसख्या अवस्थावेदकः कृत्वा श्लोको लिखितोऽत्र । तं
वाचयतु महाराजः ।

५२ कर्पूरमञ्जरी
राजा—(वाचयति ।)
सह दिवसणिसाहिं दीहरा सासदंडा
सह मणिवलएहिं बाहधारा गलंति ।
तुह सुहअ विक्खोए तीअ उव्विग्गिणीए
सह अ तणुलदाए दुव्वला जीविदासा ॥ ९ ॥
विचक्षणा—इह जेव एदाए अवस्थाए मह महल्लवहिणीआए
सुलक्खणाए ओलग्या भविअ सिलोगो कदो, तं महाराओ सुणदु ।
(पठति ।)
णीसासा हारजट्टीसरिसपसरणा चंदणुच्छोडकारी
चंडो देहस्स दाहो सुमरणसरणा हाससोहा मुहम्मि ।
अंगाणं पंडुभावो दिअहससिकलाकोमलो किं च तीए
णिच्चं बाहप्पवाहा तुह सुहअ ! कदे होंति कुल्लाहि तुल्ला ॥ १० ॥
राजा—
सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः
सह मणिवलयैर्बाष्पधारा गलन्ति ।
तव सुभग ! वियोगे तस्या उद्वेगिन्या
सह च तनुलतया दुर्बला जीविताशा ॥
'श्वासदण्डा' इत्यनेन निश्वासप्राचुर्यं व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं
वृद्धैः—'सहभावकथनं सहोक्ति' इति ।
विचक्षणा—
इहैवैतस्या अवस्थायां मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा
श्लोकः कृतः, तं महाराजः शृणोतु ।
णीसासा इति—
निश्वासा हारयष्टिसदृशप्रसरणाश्चन्दन स्फोटकारी
चण्डो देहस्य दाहः स्मरणसहचरी हासशोभा मुखे ।
अङ्गानां पाण्डुभावो दिवसशशिकलाकोमलं किं च तस्या
नित्यं बाष्पप्रवाहास्तव सुभग ! कृते भवन्ति कुल्याभिस्तुल्याः ॥
१ 'उव्वेअग्गीए' इति टीकाकृतः पाठः । २ 'चंदण फ्फोडकारी' इति टीकाकृतः पाठः ।
३ 'सुमरणमरीची' इति टीकाकृतः पाठः ।