कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 44, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् ३१
भैरवानन्दः—(उपविश्य।) किं कादव्वं !
राजा—कहिं पि विसए अच्छरिअं दट्ठुं इच्छामि ।
भैरवानन्दः—
दंसेमि तं पि ससिणं वसुहावइण्णं
थंभेमि तस्स वि रविस्र रहं णहद्धे ।
आणेमि जक्खसुरसिद्धगणंगणाओ
तं णत्थि भूमितलए मह जं ण सज्झं ॥ २५ ॥
ता भण किं कीरदु ।
भैरवानन्दः—
किं कर्तव्यम् ?
किमीप्सितं ते मया कर्तव्यमित्यर्थः ।
राजा—
कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि ।
अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।'
इत्युक्तत्वात् ।
भैरवानन्दः—
दर्शयामि तमपि शशिनं वसुधावतीर्णं
स्तम्भामि तस्यापि रवे रथं नभोऽर्धे ।
आनयामि यक्षसुरसिद्धगणाङ्गना-
स्तन्नास्ति भूमितलये मम यन्न साध्यम् ॥
एतेनावमर्शसन्ध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके
( १।४३)—'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भेनिर्भिन्नबीजार्थः
सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः स्वश-
क्त्युक्तिः' (१।४७) इति ।
ता इति ।
तद्ब्रूहि किं क्रियताम् ।