कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 41, कुल 172 में से
संदर्भ में पढ़ें२८ कर्पूरमञ्जरी
देवी—( समन्तादवलोक्य । )
गाअंतगोअवहुपअपैखिदासु
दोलासु विभमवदीसु ¹णिविट्ठदिट्ठी ।
जं जादि खंजिदतुरंगरहो दिणेसो
तेण घ होंति दिअहा अइदीहदीहा ॥ २१ ॥
( प्रविश्यापटीक्षेपेण । )
विदूषकः—आसणं आसणं ।
देवी—
गायद्गोपवधूपदप्रेङ्खितासु
दोलासु विभ्रमवतीषु निषण्णदृष्टिः ।
यद्याति खञ्जिततुरङ्गरथो दिनेश-
स्तेन भवन्ति दिवसा अतिदीर्घदीर्घाः ॥
पदेधरणं । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्दिनातिदीर्घा दिवसा आलस्यमा-
वहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति व्यज्यते, तेन प्रकृतसंगतिः । अत्र हेत्वति-
शयोक्तिपर्यायोक्तमुत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्तौ दण्डिमते—(का. २।२१४)
‘विवक्षा या विशेषस्य लोकसीमानिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा
यथा ॥’ इति । ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं
पर्यायोक्तमिदिष्यते ॥’ (का. २।२९५) इति ।
प्रविश्येति । अपटी जवनिका ।
विदूषकः—
आसनमासनम् ।
दीयतामिति शेषः ।
१ 'निमण्ण' इति टीकानुगुणः पाठः ।