कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 49, कुल 172 में से
संदर्भ में पढ़ें४० कर्पूरमञ्जरी
नायिका—तस्स घरणी ससिप्पहा णाम ।
देवी—( स्वगतम् ।) सा वि मे माउच्छिआ ।
नायिका—( विहस्य ।) तेहि अहं खलखंडेहि कीणिदा दुहिद त्ति
वुच्चामि ।
देवी—( स्वगतम् ।) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी
रूवसोहा । ण हु विद्दूरभूमिं अंतरेण वेरुळिअमणिसलाआ णिप्प-
ज्जदि । (प्रकाशम् ।) णं तुवं कप्पूरमंजरी ।
(नायिका सलज्जमधोमुखी तिष्ठति ।)
देवी—एहि वहिणिए । आलिंगसु मं । (इति परिष्वजते ।)
कर्पूरमञ्जरी—अम्महे, कप्पूरमंजरीए एसो पढमो पणामो ।
नायिका—
तस्य गृहिणी शशिप्रभा नाम ।
देवी—
साऽपि मे मातृष्वसा ।
नायिका—
ताभ्यामहं खडिरखण्डैः क्रीणिता दुहितेति ।
देवी—
न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा । न खलु वैदूर्यभूमिमन्तरेण
वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी ।
देवी—
एहि भगिनिके ! आलिङ्गय माम् ।
कर्पूरमञ्जरी—
• अये ! कर्पूरमञ्जर्या एष प्रथमः प्रणामः ।
प्रथम इत्येतावन्तं कालमदृष्टपादपद्मस्य प्राथम्यमुक्तम् ।