कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 52, कुल 172 में से
संदर्भ में पढ़ें४४ कर्पूरमञ्जरी
द्वितीयं जवनिकान्तरम्
( ततः प्रविशति राजा प्रतीहारी च । )
प्रतीहारी—( परिक्रामितकेन । ) इदो इदो महाराओ ।
राजा—( कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे
ण ट्ठाणाहिं तिलांतरं पि चलिदा सुत्था णिअंबत्थली
थोउद्वेल्लद्धलीतरंगमुदरं कंठो तिरिच्छिद्विदो ।
वेणीए उण आणणेन्दुभमणे लद्धं थणालिंगणं
जादा तीअ चउव्विहा तणुलदा तंसं वलंती मए ॥ १ ॥
प्रतीहारी—
इत इतो महाराजः ।
राजा—
गत्वेत्यनन्तरमाह स्मेति शेषः ।
तस्मिन्खल्ववसरे,—
न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली
स्तोकोद्वेल्लद्वलीतरङ्गमुदरं कण्ठस्तिर्यक्स्थितः ।
वेण्या पुनराननेन्दुभ्रमणे लब्धं स्तनालिङ्गनं
जातात्तस्याश्चतुर्विधा तनुलता निष्ध्यायन्त्या माम् ॥
अत्र स्मृतिः । तल्लक्षणं साहित्यदर्पणे ( ३।१६२)—'सदृशज्ञानचिन्ताद्यैर्भ्रू-
समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्ल-
क्षणमुक्तं वृद्धैः—'विशेषणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेष-
णानां तथात्वमूह्यम् । रूपकं चान्न । तल्लक्षणमुक्तं मम्मटेन—( का. प्र. १०।९३)
'तद्रूपकमभेदो य उपमानोपमेययोः।' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य
गरिमातिशयो व्यज्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्यज्यते । 'तनु-
लता' इत्यनेन च सादृश्यचापल्याश्लेषादिलातागुणवत्त्वं वपुषो व्यज्यते ।
१ 'णिज्झायन्तीअ म' इति टीकापाठः; 'तंसं वुलंती अ मं' इत्यपि पाठः क्वचित् ।