कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 58, कुल 172 में से
संदर्भ में पढ़ें५० कर्पूरमञ्जरी
विदूषकः—एसा अहिंमदजणपेसिदलेहहत्था णं विअक्खणा
आगदा ।
राजा—(गन्धं सूचयित्वा ।) केदईकुसुमगंधो विअ आआदि ।
विचक्षणा—केदईदललेहो एव्व एसो मह हत्थे ।
राजा—महुसमए किं केदईकुसुमं ?
विचक्षणा—भेरवाणंददिण्णमंतप्पहावेण देवीभवणुज्जाणे केदई-
लट्ठीए एको दाव पसवो दंसिदो। तस्स दोहि दलसंपुडेहिं अज्ज हिंदो-
लअप्पभंजणीए चउत्थीए हरवल्लहाए देवीए देवी अच्चिदा । अण्णं च
दलसंपुडजुअलं पुण कणिद्वबहिणीआए कप्पूरमंजरीए पसादीकिदं ।
तीए वि एकेण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च,—
विदूषकः—
एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता ।
इदमेव संधिफलमित्याशयः ।
राजा—
केतकीकुसुमगन्ध इवायाति ।
विचक्षणा—
केतकीदललेख एवेष मम हस्ते ।
तस्यैष गन्ध इत्याशयः ।
राजा—
मधुसमये किं केतकीकुसुमम् ?
विचक्षणा—
भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनेोद्याने केतकीलतयामेकस्तावत्प्रसवो दर्शितः।
तस्य दलसंपुटद्वयेन हिन्दोलप्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता ।
अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमञ्जर्यै प्रसादीकृतम् । तयाप्येकेन
दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च,—