कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 51, कुल 172 में से
संदर्भ में पढ़ें४२ कर्पूरमञ्जरी
विचक्षणा—जं देवी आणवेदि ।
देवी—(राजानं प्रति ।) अज्जउत्त ! पेसिहि मं, जेण अहं बहिणीए
एदावस्थाए णेवच्छलच्छीलीलाणिमित्तं अंतउरं गमिस्सं ।
राजा—जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरि-
पूरणं ।
(नेपथ्ये ।)
वैतालिकयोरेकः—सुहसंझा भोदु देवस्स ।
एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं
को जाणादि कहिं पि संपदि गअं पत्तम्मि कालंतरे।
जादा किं च इअं पि दीहविरहा सोऊण णाहे गदे
¹णिच्चामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥
विचक्षणा—
यद्देव्याज्ञापयति ।
देवी—
आर्यपुत्र ! प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्त-
मन्तःपुरं गमिष्यामि ।
राजा—
युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् ।
अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे
(१०।१९७)—‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति ।
वैतालिकः—
सुखाय सन्ध्या भवतु देवस्य ।
एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं
को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे ।
जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते
मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥
1 'मुच्छामुद्दिअ' इति टीकाधृतः पाठः ।