कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 56, कुल 172 में से
संदर्भ में पढ़ें४८ कर्पूरमञ्जरी
पच्छा अ से सरदि तंसणिरिक्खिदेसुं
आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥
(विचिन्त्य ।) चिराअदि पिअवअस्सो ।
(प्रविश्य विदूषको विचक्षणा च परिक्रामतः ।)
विदूषकः—अइ विअक्खणे ! सव्वं सच्चं एदं ?
विचक्षणा—सव्वं सच्चअरं ।
विदूषकः—णाहं पत्तिआमि, जंदो परिहाससीला खु तुम्हं ।
विचक्षणा—अज्ज ! मा एवं भण । अण्णो वंक्करकालो, अण्णो
कज्जविआरकालो ।
पश्चाच्च तस्याः स्मरति तिर्यङ्निरीक्षितेषु
आकर्णमण्डलितचापधरोऽनङ्गः ॥
तद्दर्शननिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च
कविप्रौढोक्तिसिद्धो ध्वनि ।
चिरयति प्रियवयस्यः ।
विदूषकः—
अयि विचक्षणे ! सर्वं सत्यमिदम् ?
विचक्षणा—
सर्वं सत्यतरम् ।
विदूषकः—
नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् ।
कदाचिदयमपि परिहास एव भवेदिति भावः ।
विचक्षणा—
आर्य ! मैवं भण । अन्यो वर्करकालः, अन्यः कार्यविचारकालः ।
तथा च नेदं सर्वमसत्यमिति भावः ।
१ 'मटलिइ' इति टीकापाठः । ३ बर्करकालः=सोत्कण्ठभाषणसमयः ।