सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

१२० कर्पूरमञ्जरी
राज्ञी—अज्जउत्त ! एसो उवज्झाओ अज्जकविंजलओ चिट्ठदि । ता
कीरदु अग्गिआरिअं ।
विदूषकः—एस सज्जो म्हि । भो वअस्स ! उत्तरीए गंठिं दाइस्सं
दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए ।
राज्ञी—( सचमत्कारम् । ) कुदो कप्पूरमंजरी !
भैरवानन्दः—( तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्ठुतरं
मुद्धो सि । जदो कप्पूरमंजरीए घणसारमंजरि त्ति णामंतरं जाणासि ।
राजा—( करमादाय । )
जे कंटआ तिउसमुद्धफलेसु होंति
जे केअईकुसुमगब्भदलावलीसु ।
फंसेण णूणमिह मज्झ ¹सरीरदिण्णा
ते सुंदरीअ बहला पुल²अंकुरिल्ला ॥ २० ॥

राज्ञी —
आर्यपुत्र ! एष उपाध्याय आर्यकपिंजलस्तिष्ठति । तत्करोत्वग्न्याचार्यकम् ।
विदूषकः—
एष सज्जोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थिं दास्यामि तावत् हस्तेन हस्तं
गृहाण कर्पूरमञ्जर्याः ।
राज्ञी—
कुतः कर्पूरमञ्जरी ?
भैरवानन्दः—
त्वं सुष्ठुतरं भ्रान्तोऽसि । यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तरं जानासि ।
राजा—
ये कण्टकास्त्रपुसमुग्धफलानां सन्ति
ये केतकीकुसुमगर्भदलावलौषु ।
स्पर्शेन नूनमिद मम शरीरस्य
ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥

1 'शरीरभरस' इति टीकापाठः । 2 '"अंकुराओ' इति दीक्षितः पाठः ।

चतुर्थं जवनिकान्तरम् १२१
विदूषकः—भो वअस्स ! भामरीओ दिज्जंतु । हुदवहे लाजंजलीओ
खिपिज्जंतु ।
( राजा भ्रमणं नाटयति । नायिका धूमेन व्यावृत्तमुखी तिष्ठति । राजा परिणयति ।
राज्ञी सपरिवारा निष्क्रान्ता । )
भैरवानन्दः—विवाहे दक्खिणा दिज्जदु आचारिअस्स ।
राजा—दिज्जदु । वयस्स ! गामसअं ते दिण्णं ।
विदूषकः—सोत्थि होदु । ( इति नृत्यति । )
भैरवानन्दः—महाराअ ! किं ते पुणो अ पिअं कुणोमि ?
राजा—जोईसर ! किमवरं पिअं वट्टदि । जदो,—
कुंतलेसरसुआकरफंसप्फारसोक्खसिढिलीकिदसव्गो ।
पालएमि वसुहातलज्जं चक्कवट्टिपअधीरमणिज्जं ॥ २१ ॥
तथा वि इदं होदु दाव ।

विदूषकः—
भो वयस्य ! भ्राम्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् ।
भैरवानन्दः—
विवाहे दक्षिणा दीयते आचार्यस्य ।
राजा—
दीयते । वयस्य ! ग्रामशते ते दत्तम् ।
विदूषकः—
स्वस्ति भवतु ।
भैरवानन्दः—
महाराज ! किं ते पुनरपि प्रियं करोमि ?
राजा—
योगीश्वर ! किमपरं प्रियं वर्तते ? यतः,—
कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः ।
पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥
तथापीदं भवतु तावत् ।

१ अस्याग्रे वैतालिकः—'सुहाअ भोदु विवाहमहूत्सवो देवरस' इति पाठः ।

१२२ कर्पूरमञ्जरी

सँत्थो णंददु सज्जणाण सअलो वग्गो खलाणं पुणो
णिच्चं खिज्जदु भोदु बंभणजणो सच्चासिहो सब्बदा ।
मेहो मुंचदु साचेदं पि सलिलं सस्सोचिअं भूतले
लोओ लोहपरम्मुहो णुदिअहं धम्मे मदि भोदु अ ॥ २२ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति चतुर्थं जवनिकान्तरम् ।
सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां पुन-
र्नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा ।
मेघो मुञ्चतु संचितमपि सलिलं सस्योचितं भूतले
लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥
इति श्रीमद्द्विद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्र-
खरकठोरकिरणकरप्रभप्रतिभप्रभासरभट्टात्मजवासुदेवविरचिते
कर्पूरमञ्जरी-प्रकाशे चतुर्थं जवनिकान्तरं समाप्तम् ।
समाप्तोऽयं ग्रन्थः ।
1 'तणुदिभहं विप्फुरंतो मणीसिजणसअलगुणविणासअरो । रित्तत्तणदारग्गी विरमउ
कमलावडकखवरिसेण ॥' इति चात्र पाठो लभ्यते । एवमेव
'जं मुद्धं, तिमिसं णवं च पणसं जे पारिभद्ददुमा
'जे षंडा कमलाण किं च कुसुमं जं केअईसंभवं ।
संके तुज्झ कलेवरे गुणगणं लद्धं बला तारिमा
रोमंचा फुडपुट्टकंटअमिसा णेल्हंति णिस्सुच्छसा ॥
भैरवानन्दः-
अण्णं किं दे पिअं करीअदु ? तथा वि इदं भोदु,—
अणुदिवहं विप्फुरंतो मणीसिजणसअलगुणविणामकरो ।
रित्तत्तणहारग्गी विरमउ विमलाक्रडक्ख व रिसेण
राजा-
इदो वि परे किं पिअं जदो,-
देवी रोसकसाअमाणसबई णो होइ सावत्त ए
लद्धापुण्णससंकमंडलमुही सिंगारसंजीविणी ।
संजाभा भवि चक्कवट्टिपमदी किं अण्णमब्भत्थणं
सव्वं तुज्झ अणुग्गहेण भरिअं जं माणुसे लब्भइ ॥' इत्यधिकः पाठः ।

महाकविश्रीराजशेखरविरचितं
बा ल भा र त म्
प्रथमोऽङ्कः
नमः शिवाय संसारसरोजस्य रजस्विने ।
विकासाश्चर्यसूर्याय संकोचसकलेन्दवे ॥ १ ॥
अपि च,—
ये सीमन्तितगात्रभस्मरजसो ये कुम्भकण्ठेषिणो
ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यह्रुदः ।
ये कुप्यद्गिरिजायिभक्तवपुषश्चित्तव्यथासाक्षिणः
शंभोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥ २ ॥
( नान्यन्ते । )
सूत्रधारः—( परिक्रम्य विचिन्त्य च । ) अहो, किमपि कमनीया कवे-
रात्मन्याशीः ।
आद्यः कन्दो वेदविद्यालतानां जैत्रं चक्षुर्निर्निमेषं कवीनाम् ।
यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्तिर्मे देवता संनिधत्ताम् ॥ ३ ॥
व्यासो वैखानसयूपा सत्यः सत्यवतीसुतः ।
भारतीं मारतकविर्देयाद्वैपायनो मम ॥ ४ ॥
( विशृश्य च । ) अहो मसृणोद्धता सरस्वती यायावरस्य । यदाह,—
ब्राह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे
हे सन्तः ! शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः ।
यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं
प्रास्यन्ति स्वयमेव तत्सुमनसो याच्ञा परं दैन्यभूः ॥ ५॥
१. अस्य नाटकस्य प्रचण्डपाण्डवमित्यपि नामान्तरम्, अस्याङ्कद्वयमेव लब्धमस्माभिः.

२ बालभारतम्
(पुरोऽवलोक्य च ।) कथमेते महोदयमहानगरलीलावतंसा विद्वांसः
सामाजिकाः । तदेवं विज्ञापयामि । (अञ्जलिं बद्ध्वा ।)
सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः
सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली ।
पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं
चित्रं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः ॥ ६ ॥
तत्र च,―
नमितमुरलमौलिः पाकलो मेकलानां
रणकलितकलिङ्गः केलितट् केरलेन्दोः ।
अजनि जितकुलूतः कुन्तलानां कुठारो
हठहृतरमठश्रीः श्रीमहीपालदेवः ॥ ७ ॥
तेन च रघुवंशमुक्तामणिना आर्यावर्त्तमहाराजाधिराजेन श्रीनिर्भयनरेन्द्र-
नन्दनेनाधिकृताः सभासदः ! सर्वानिप वो गुणाकरः सप्रश्रयं विज्ञा-
पयति―विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण
प्रतिज्ञातम्―
राजशेखरकवेर्महात्मनो बालभारतमिदं हि नाटकम् ।
योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ ॥ ८ ॥
(आकाशे ।) तत्रभवन्तः ! कि ब्रूथ―इदं हि तद्बालभारतं यस्य हि
प्रचण्डपाण्डवमिति नामान्तरम् ! (अञ्जलिं बद्ध्वा ।) यदादिशन्ति परि-
१. महोदयमिति कान्यकुब्ज (कनोज) नगरस्य नामान्तरम् २ मुरल मेकल कलिङ्ग-
केरलकुलूत-कुन्तल-रमठाख्या देशविशेषा. ३. पाकलो हस्तिज्वरः 'गा०धारापिगन्ध-
भवभूतिः । फल ' इति हर्षचरितम् 'कलभं कठ र इव कूटपाकल 'इति मालतीमाधवे
द्विपणा पाकळ एव कूटपाकल'. ४, आदिश्टोऽस्मि―श्रीमहीपालदेवेन, यस्येमां
पुराविदः प्रशस्तिगाथामुदाहरन्ति―'यः संक्षुद्य प्रकृतिगहनामायंचाणक्यनीतिं जित्वा
नन्दान्कुसुमनगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं भुजगपशनाव तानेव हन्तु दोर्दण्डौद्य
स पुनरभवच्छ्रीमहीपालदेवः ॥' इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि
महीपालदेव इति तु न निश्चयः.

प्रथमोऽङ्कः ३
पदमेसराः । (किञ्चित्सलज्जम् ।) भवदनुचराः पञ्च भ्रातरो वयम्, पञ्चापि
नाम समर्थास्तदभिनये, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति
भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च-ते शक्नुवन्ति । तन्निमित्तं
च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ—एकविष-
याभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् ।
यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,—
श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्ष्टि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ॥ ९ ॥
(अञ्जलिं बद्ध्वा ।) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदिस्थ-
मामनन्ति,—
अनूचानो हि यद्ब्रूते सा स्वयंभूः सरस्वती ।
तदार्षे न मृषार्थं स्यात्सा दृष्टिर्विदुषां दृढा ॥ १० ॥
अपि च,—
आपन्नार्त्तिहरः पराक्रमधनः सौजन्यवारंनिधि-
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः ।
वर्ण्यः स्या गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥
तत्रैवंविधो दैवज्ञानां प्रवादः,—
बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमेण्ठताम् ।
स्थितः पुनर्यो भवभूतिरेथया स वर्तते संप्रति राजशेखरः ॥ १२ ॥
(आकाशे ।) किं ब्रूथ—तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः ।
(नेपथ्ये गीयते ।)
हरचूडामणिरेन्दुर्निजगद्दीपश्च दिनकरो देवः ।
मासान्तसंगताविह लोकस्य दिनाय वर्तते ॥ १३ ॥

४ बालभारतम्
सूत्रधारः—( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ! यद्वाल्मीकि-
व्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य
प्रथमे प्राणाः । यतः,—
प्रथयति पात्रविशेषान् सामाजिकजनमनांसि रञ्जयति ।
अनुसंदधाति च रसान्नाट्यविधाने ध्रुवा गीतिः ॥ १४ ॥
तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । )
प्रस्तावना ।
──────────
( ततः प्रविशति वाल्मीकिर्व्यासश्च । )
व्यासः—( सपादोपग्रहम् । ) भगवन् अद्भुतसंभव ! एष व्यासः
पाराशर्योऽभिवादयते ।
वाल्मीकिः—( पृष्ठे पाणिं निधाय । ) वत्स सत्यवतेय ! स्वप्रबन्ध-
परिसमाप्त्या वर्धस्व ।
व्यासः—परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । )
योगीन्द्रश्छन्दसां द्रष्टा रामायणमहाकविः ।
वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ १५ ॥
वाल्मीकिः—अष्टादशपुराणसारसंग्रहकारिन् ! कियान्वर्तते नवे-
तिहासो भारतम् ?
व्यासः—पुनः पुनर्विनयोद्घाटनेन मा लज्जयतु मामुपाध्यायः ।
के वयं नाम रामायणमहाकवेः पुरतः ?
ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे
येषां वेदवदादृता स्मृतिमयी वाग्लोकयात्राविधौ ।
स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यथ ये
व्युत्पत्त्या परया रसोपनिषदं रामायणस्यास्य ते ॥ १६ ॥

६ बालभारतम्
वाल्मीकिः—तदेहि । प्राप्तां सायंतनीं संध्यामुपासहे । ततः
श्रावयि(श्रो)ष्यामि । संप्रति हि,—
अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः ।
जलनिधिमकरैरुदीक्ष्यते द्राग्व्रणरुधिरारुणमांसपिण्डलोभात् ॥ २१ ॥
अपि च,—
निर्यद्वासरजीवपिण्डकरणं कुर्वन् कयोष्णैः करै-
र्मोक्षिप्तं रविबिम्बमम्बरतलादस्तोचलं चुम्बति ।
किं च स्तोकतमःकलापकलनाइयाभायमानं मना-
ग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते ॥ २२ ॥
(इति परिक्रम्य निष्क्रान्तौ ।)
विष्कम्भकः ।
(ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च)
सहदेवः—इत इतः ।
(सर्वे परिक्रामन्ति ।)
युधिष्ठिरः—वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपा-
ण्डवकुल नकुल ! द्विषद्दुःसह सहदेव ! इह हि महाराजसमाजे न जाने
कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती ।
भीमः—(विहस्य ।)
आद्या वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः
किंब्रूमोऽद्य किरीटिनो न घटते द्रोणेन यस्योपमा ।
माद्रीन्दनयोनरेन्द्र ! विनयच्छद्मं हि वीरव्रतं
न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥ २३ ॥
अर्जुनः—
दुर्नेमं यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् ।
दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥ २४ ॥
१. राधा धन्विनां लक्ष्यविशेषः

प्रथमोऽङ्कः ७
नकुलः—निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्राय-
विप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव ।
(सर्वे समारुह्य यथोचितमुपविशन्ति ।)
(नेपथ्ये ।)
इँदो इदो कुमारधिट्ठजुण्णो भट्टिआरिआ अ ।
युधिष्ठिरः—प्राप्तेवैषा स्वयंवरमित्री ।
(तत प्रविशति सधृष्टद्युम्ना द्रौपदी बन्दी राज्ञी च ।)
(परिक्रामितकेन)
धृष्टद्युम्नः—(एकतोऽवलोक्य ।) कथं तातद्रुपदमनुग्रहीतुं महर्ष-
योऽपि स्वयंवरयात्रामञ्चमध्यासते, तदेतानभ्यर्हयामि । (सप्रश्रयमञ्जलिं
बध्वा ।)
स्वस्त्यापस्तम्ब ! तुभ्यं त्वमसि ननु मुने ! कस्य नो माननीय-
स्त्वां वन्दे याज्ञवल्क्य ! द्विजसदसि कवे ! त्वां स्तुवे भारतस्य ।
विश्वामित्रः पवित्रं जगति विजयते वाममग्रे ! नमस्ते
विश्वप्रेष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि दृप्तान्महर्षीन् ॥ २५ ॥
(द्रौपदी प्रणमति ।)
धृष्टद्युम्नः—(अन्यतोऽवलोक्य ।)
लक्ष्मी संचननेऽर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं
नन्येते गृहमेधिनां धुरि धयं यत्त्वयमभ्यागताः ।
दृष्टः येन भवादृशां पुनरियम्पूज्यः समाजो जग-
त्युत्कण्ठा भयता च संप्रति पुरः सेयं स्थिता द्रौपदी ॥ २६ ॥
सखी—इँदो इदो भट्टिशरिआ । जग्ग्याहिवाहिणो, वामगाधिमेढुं ।
युधिष्ठिरः—(सस्पृहमवलोक्य स्वगतम् ) अहो लोचनचकोरी ! युवा-
मन्यादृशैः पिवन्त द्रौपदीवदनेन्दुचन्द्रिकाम् ।
१. 'इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च' इति च्छाया २ 'इत इतो भर्तृदारिका ।
दिग्वाहिणि, वामगमधिष्ठतु ।' (?) इति च्छाया
क० म० १

८ बालभारतम्
कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः
सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि ।
तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती
शीतांशोरधिदेयतेव गलिता व्योम्नि द्रुतं गच्छतः ॥ २७ ॥
भीमः—(द्रौपदीसंभाषणमनुसंधाय । स्वगतम् ।)
श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
पद्भ्यां मुक्तास्तरलगत्तयः संश्रिता लोचनाभ्याम् ।
धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ २८ ॥
अर्जुनः—(स्वगतम् ।) हृदय ! कारय चक्षुषी पारणम् । पुरतो
द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,—
शारीदूतकलाकूतूहलि मनश्छेकोक्तिशिक्षारति-
र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् ।
प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना-
क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ २९ ॥
नकुलः—(स्वगतम् ।) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् ।
स्मितपरिचयाद्वृत्तिर्याचामपाङ्गतराङ्गितं
नयनरचितं पादन्यासो नितम्बभरालसः ।
अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके
वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३० ॥
सहदेवः—(स्वगतम् ।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् ।
इदमग्रे हृदयलेप्यमानूप्यं लावण्यम् ।
तरङ्गय दृशौ मनाक्स्थगय दिक्ष्वरणान्युत्पलैः
फरो यलय जायतां सरसिजाकरो जङ्गमः ।
विदस्य पुनरुक्ततां सुतनु लम्पटैकायटी-
मुदञ्चय मुखं भवत्ययमकाण्डचन्द्रोदयः ॥ ३१ ॥
१. 'स्तोमारोहणः' इति पाठान्तरम्.

प्रथमोऽङ्कः
बन्दी—(तारस्वरमास्थाय ।)
सकलभुवनरक्षाशस्ततन्द्रा नरेन्द्राः !
शृणुत गिरमुदारामादराच्छ्रावयामि ।
इह हि सदसि राधां यः शरव्यीकरोति
सरथविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥
सखी—कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमरपङ्क्तिलाञ्छितेन नयनो-
त्पलखण्डेन घूर्णमानं पिवदिव द्रौपदीवदनलावण्यामृतमितोऽभिमुखं
वर्तते नरेन्द्रचक्रम् ।
बन्दी—अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः—
न्यस्तं ताण्डवितभ्रू चक्षुरमुना कण्ठो लुठत्पञ्चमः
संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः ।
मिथ्यासीत्स्मयते स्थितो भणितिभिः किं चैष वैपञ्चिको
यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥
कथमहंपूर्विकया सर्वे एव धनुरारोपयितुं संरभन्ते !
धृष्टद्युम्नः—हंहो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपा-
लानाम् ।
बन्दी—(विधिवत् ।)
सर्वे कार्मुककर्कशाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः
सर्वे मानमदोद्धताः शृणुत मे धर्म्यं वचो बन्दिनः ।
गुर्वी धनुरप्युन्नम्य पलिनं तच्चाध्यवस्यत्यसौ
यस्य स्याम महर्दि तद्धिततमं भीष्टा यशःपण्डिनी ॥ ३४॥
(सर्वे परिरानिरूपेन ।)
बन्दी—(द्रौपदीं प्रति ।)
दामोर्मूर्मिं गतागतानि कुरुते या चन्द्रलेखाद्विषे
तस्याः शांतनवोऽयमुज्वल्यशाः स्वर्गापगायाः सुतः ।
१. इतः प्रभृत्याहर्तुमुत्सहे महद्दोर्बलं रूपवान् चण्ड इव दिवौकसैः.

१० बालभारतम्
वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं
भीष्मं सुभ्रु ! ततः स्वयंवरनृपाः प्रत्येक्रमालोकय ॥ ३५ ॥
सखी—द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन
प्रणमतु ।
द्रौपदी—यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरव-
पितामहाय ।
( सर्वे परिकामितकेन । )
वन्दी—( स्वगतम् । ) अयं भगवतो भीष्मादनूनगरिमा द्रोणाचार्यः ।
( प्रकाशं द्रौपदीं प्रति । )
सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् ।
आकर्णपलितः सुभ्रु ! द्रोणाचार्यः प्रणम्यताम् ॥ ३६ ॥
द्रौपदी—यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः ।
वन्दी—निजदोःसम्भसंभावनागर्वखर्वितविवेक न्नृपतीनवलोक्य
किमाह भारद्वाजः—
शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां
कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि ।
हे भूभुजो जयवधूं प्रति धनूंषि धत्त
मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ ३७ ॥
द्रौपदी—नमो नमस्ते द्रोणाय कलशोद्भवाय ।
( सर्वे परिकामितेनेन । )
वन्दी—
दूरोदञ्चिमरीचिरत्न रचनाचित्रं तनुत्रं तनो-
र्द्धृत्व्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा ।
पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा
सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः ॥ ३८ ॥
१. राधा: यन्त्रिकां लक्ष्यविशेषः ।

प्रथमोऽङ्कः ११
(विचिन्त्य ।) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञान-
मुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव
पश्यामि ।
सखी—सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः ।
द्रौपदी—यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः ।
बन्दी—(विहस्य स्वगतम् ।) अहो महात्मनामपि कैतवानुगृहीता
वृत्तयः । यदेषः,—
दुर्नामं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः ।
अङ्गराज इति चिन्तयन्निमां भाषते व्रज पुरः कुरुद्वहः ॥ ३९॥
(सर्वे परिक्रामितकेन ।)
स एव—(प्रकाशम् ।)
यौवराज्याभिषेकार्हो धीरो दुर्योधनानुजः ।
दुःशासनो महाचेष एष मञ्चं विमुञ्चति ॥ ४० ॥
सखी—यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधन-
नरेन्द्रस्य ।
धृष्टद्युम्नः—(स्वगतम् ।) यथार्थनामा दुःशासन एवायम् ।
चापं प्रति त्रिचतुराणि पदानि दत्त्वा
कृष्णादृढग्रहणनिमित्तविषण्णचेताः ।
दुःशासनो नृपतिचक्रविमुक्ततार-
हुंकारलज्जितमनाः शनकैः प्रयाति ॥ ४१ ॥
द्रौपदी—अपि नाम चण्डचरित एषः ।
बन्दी—(निरूप्य ।) नमो नमो विष्ण्ुकोदण्डपणबन्धाय ।
(स्वगतम् ।)
द्रौपदीं परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया ।
दोर्बलं विफलमात्मनो विदन्ब्रीडयैष विनतो निवर्तते ॥ ४२ ॥
(परिक्रामितकेन ।)

१२ बालभारतम्
बन्दी—
गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः ।
मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥ ४३ ॥
द्रौपदी—यो द्यूतकैतवविचक्षणः श्रूयते ।
सखी—आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस्य
पुनः रक्षिता । (?)
बन्दी—
यात्रारुतोऽस्य चतुरङ्गचमूसमुत्थे
पांसूत्करे वियति सर्पति वीतरन्ध्रे ।
दिग्भागनागपतिकेशवकच्छपाना-
मूर्ध्न क्षणाद्गच्छति भूवलयस्य भारः ॥ ४४ ॥
( सगतम् । )
धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् ।
तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ ४५ ॥
( पुनरवलोक्य विहस्य च । ) कथ विमुक्तराधावेधाभिमानस्य स्वयंवरयदुरु-
चीर्ण स्कन्धाद्धनुः ।
( सर्वे परिक्रामिनयेन । )
बन्दी—
सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः ।
सिन्धुपारोत्तमहयः सिन्धुरप्रतिमॊ बले ॥ ४६ ॥
अपि च,—
शम्याद्वये दलितदाडिमबीजलोल्या-
न्मुक्ताफलेषु करिणां रुधिराऽरुणेपु ।
व्योम्नः शुकाधिपततस्तरसा निरीक्ष्य
नाथस्त्रियो बहु हसन्ति सहस्ततालम् ॥ ४७ ॥
द्रौपदी—यो दुर्योधनभगिनीपतिः ।

[Header] प्रथमोऽङ्कः १३

धृष्टद्युम्नः—कथं धनुरारोपणपणं प्रत्ययमुदास्ते ?
बन्दी—
दुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ ।
कौतुकागमनमात्मनो वदन्खासनान्नचलति नो जयद्रथः ॥ ४८ ॥
( परिक्रामितेन । )
बन्दी—
दुर्योधनो नृपकिरीटघटिडूरत्न-
रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः ।
हेलाचलच्चमरनर्तितकर्णपूरः
शूरः शरासनविदां प्रथमोऽयमास्ते ॥ ४९ ॥
यस्य च,—
पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति-
र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाञ्जलेः ।
ते प्रत्यग्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः
कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्याचिताः ॥ ५० ॥
द्रौपदी—यः खण्डपरशुचूडामणेः कुलालकरणम् ।
सखी—आं, सखि ! स एवेषः ।
द्रौपदी—अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विपाशन-
दातृत्वेन च च्छलप्रहारी एषः ।
बन्दी—किमाह महाराजदुर्योधनः ।
निर्दिशन्तु निजबाहुविक्रमं शार्ङ्गिनापि धनुरीह पार्थिवाः ।
साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ ५१ ॥
(विचिन्त्य स्वगतम् ।) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिक्रा-
मितेन प्रकाशम् ।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः ।
१. वग्द्स.

४. चतुर्थ जवनिका: सुरंग-मार्ग, विवाह-कौतुक एवं साम्राज्य प्राप्ति

किं किं किं चु चु चुम्बनैर्म म सुधा वक्त्राम्बुजस्याग्रतो
दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रि रे रेवति ।
मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते
यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥ ५२ ॥
अपि च,—
नीलाम्बरं नलिनदाम च यस्य भूषा
यत्प्रीतिकारि मधुरं मधु रेवती च ।
लीलार्धदृष्टधनुरत्र हली सहेलं
शारैः स एष खलु खेलति खेलगामी ॥ ५३ ॥
द्रौपदी—यः किलैरावणवारण इव सदा मदस्वच्छन्दः ।
वन्दी—किमाह कामपालः—
रेवतीं त्रिभुवनैकसुन्दरीं न प्रकोपयति रोहिणीसुतः ।
तेन नैष विदधाति कौतुकी दृष्टिभागमपि कृष्णकार्मुके ॥ ५४ ॥
(पुनः ।)
वन्दी—
यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे
निर्जित्योर्जितशार्ङ्गनिर्गतशरश्रेणीभिरुद्दामभिः ।
शच्या वाञ्छितमौलिबन्धरचनैः पुष्पैः सदा सुन्दरां-
श्चक्रे नन्दनपारिजातकतरून्विभ्रम्भरासाक्षिणः ॥ ५५ ॥
वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां
किमपरमसुराणां मन्दिता सोऽयमास्ते ।
कृतसुरपरितोषः षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भास्यास्पदं पद्मनाभः ॥ ५६ ॥
द्रौपदी—यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकल-
त्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य ।
वन्दी—किमाह देवो वासुदेवः ।

प्रथमोऽङ्कः १५
यत्सिग्मदस्य मद्रतस्य च भूमैमायां
यस्मिन्नमी च यदुवंशमुखाः कुमाराः ।
नन्वद्य सोऽहममुना कमलाक्षनार-
ङ्गीचक्रकेलिचतुरञ्चतिने लज्जे ॥ ५७ ॥
(परिक्रमितकेन ।)
वन्दी—
यत्साक्षाच्छूरचूर्णीकरणसहभुवः पूतनाफुत्कृतानां
कर्त्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः ।
यस्यासन्दानदंप्रथवलकुवलयापीडपीठाम्रगल्भाः
क्रीडाडिम्भस्य लीलाऽद्रुतधरणिधराः कण्ठयः कालियारेः ॥ ५८ ॥
तस्यैष शम्बरमहासुरसुन्दरीणां
सिन्दूरमण्डनहरेण पराक्रमेण ।
शाश्वत्प्रकामकलनीयजनोपमानं
प्रत्यक्षयत्यनिशिरुस्तनयः पुरस्तात् ॥ ५९ ॥
द्रौपदी—यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाराज्य-
पताकां निर्विलम्बमवलम्बते ।
वन्दी—धृष्टद्युम्न आर्य !
उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् ।
शार्ङ्गिणा भगवता ससंभ्रमं धूनितहस्तघटनेन वार्यते ॥ ६० ॥
(परिक्रमितकेन ।)
वन्दी—कथं सात्यकिः,
धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः ।
प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥
अपि च,—
यः सत्त्वस्य निधिः श्रियां च सरणिः सान्नां च धाम्नां च यो
यो दाता च दयालुरेव च पदं कीर्तेश्च नीतिश्च —

१६ - बालभारतम्
तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः
पात्रापात्रविवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥
द्रौपदी—यो यादवकुमारोऽपि भूत्वा अनास्वादितकादम्बरीरसः
स एतस्य गुणो दोषो वा क्रियताम् ।
बन्दी—
यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घ्यते ।
इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥
( परिक्रामितेकेन ।)
शिशुपालमहीपालो मेकलानां कुलोद्भवः ।
अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥
पाणिप्रस्थैर्वकुलसुमनःसौरभं यो मिमीते
दंपत्योर्यः सुरतसमरे सौरयसंख्यां करोति ।
यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः
शक्तः स्तोतुं यदि स निखिलाम्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥
द्रौपदी—यो निर्जितसुरासुरः ।
बन्दी—
दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति ।
दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६ ॥
( परिक्रामितेकेन ।)
सत्यसंधो जरासंधः क्रान्तदिग्वलयो बलैः ।
अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥
अस्यासमं समरकर्म दिदृक्षमाणै-
र्दोपद्वयं फणिभिरपि चमूरजस्तः ।
यत्कूर्णितेक्षणतया न पवन्धवृत्तं
दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥
द्रौपदी—यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संधित
इति जरासंधो भूपतिः ।

प्रथमोऽङ्कः १७
बन्दी—
अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः ।
अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥
(परिक्रामितेने ।)
बन्दी—कथमेते राजानो युगपदुत्थिताश्चापमारोपयितुं विडम्बि-
ताश्च । तथा हि,—
जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं
निष्धूता रमेश्र्वरस्य वदनात्कीलालकल्लोलिनी ।
जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं
कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥७०॥
बन्दी—( सविषादम् । )
हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं
हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं च हा ।
दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो
राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥
धृष्टद्युम्नः—
वैकुण्ठकार्मुकदढाक्रमणेककुण्ठे
दोर्दण्डखण्डनविखण्डितराजचक्रे ।
द्राग्द्रौपदी नमितकण्ठविलोठिहार-
विश्लिष्यष्टिगणनागुणनां करोति ॥ ७२ ॥
सखी—किं पुनरेष भरितभुवनः कोलाहलो विपुलः ?
बन्दी—(अवलोक्य सहर्षम् ।)
धृष्टद्युम्ने विषण्णे हसति मुरजिति द्रौपदीचित्तनिन्द्ये
कोदण्डप्रौढिगाढगलितगुरुवले चाथ राज्ञां समाजे ।
प्रह्वत्कृष्णाजिनानां करक¹करजुषा घह्लकलव्याकुलानां
विप्राणां कोऽपि मध्यादवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥
१. करकः कमण्डलुः.

३८ बालभारतम्
अपि च,—
व्रीडानतेषु वदनेषु च भूपतीनां
संचारयन्विकचपङ्कजचारु चक्षुः ।
अभ्येति मत्तगजखेलगतिः स एष
साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४ ॥
अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।)
एतत्कृष्णस्य शाङ्गं ननु धनुरतनुप्राणदोर्दण्डचण्डै-
र्दूराद्रूपप्रकाण्डैः सपदि परिहृतं शिञ्जिनीसज्जनेषु ।
मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भुजायन्त्रयोगे
प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५ ॥
(सरभसं परिक्रम्य धनुरारोपणं नाटयन् ।)
मद्बाहुयन्त्रयुगयन्त्रितमाततज्यं
न स्याद्धनुः कथमदं हि रथाङ्गपाणेः ।
विक्षोभनिर्यदि न याति च भूमिपृष्ठ-
मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥
भीमः—वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्धित-
कोदण्डकोटिः स्यात्किरीटी । तत्तस्याधस्ताद्दक्षं दाढ्र्याय निधेहि ।
(इति तथा करोति ।)
नकुलः—
धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा-
स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः ! स्वस्ति वः ।
यज्जिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयैवाटनीं
धत्ते पाणितलं तलेऽस्य धनुषो वामं द्वितीयापतिः ॥ ७७ ॥
(अर्जुन आरोपयति ।)
सखी—भगवति मिथुनसंघटनैकदेवते ! कुण्ठितनिःशेषनरेन्द्रचक्र-
मेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् ।
(अर्जुनो बाणमोक्षं नाटयति ।)