सामग्री पर जाएँ
सर्वकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 135, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 135

८ बालभारतम्
कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः
सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि ।
तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती
शीतांशोरधिदेयतेव गलिता व्योम्नि द्रुतं गच्छतः ॥ २७ ॥
भीमः—(द्रौपदीसंभाषणमनुसंधाय । स्वगतम् ।)
श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
पद्भ्यां मुक्तास्तरलगत्तयः संश्रिता लोचनाभ्याम् ।
धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ २८ ॥
अर्जुनः—(स्वगतम् ।) हृदय ! कारय चक्षुषी पारणम् । पुरतो
द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,—
शारीदूतकलाकूतूहलि मनश्छेकोक्तिशिक्षारति-
र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् ।
प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना-
क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ २९ ॥
नकुलः—(स्वगतम् ।) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् ।
स्मितपरिचयाद्वृत्तिर्याचामपाङ्गतराङ्गितं
नयनरचितं पादन्यासो नितम्बभरालसः ।
अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके
वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३० ॥
सहदेवः—(स्वगतम् ।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् ।
इदमग्रे हृदयलेप्यमानूप्यं लावण्यम् ।
तरङ्गय दृशौ मनाक्स्थगय दिक्ष्वरणान्युत्पलैः
फरो यलय जायतां सरसिजाकरो जङ्गमः ।
विदस्य पुनरुक्ततां सुतनु लम्पटैकायटी-
मुदञ्चय मुखं भवत्ययमकाण्डचन्द्रोदयः ॥ ३१ ॥
१. 'स्तोमारोहणः' इति पाठान्तरम्.