सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् ।
शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥ ६३ ॥
युवतीजनकन्दर्पः पद्मादिधनवान् सुधीः ।
धनधान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥ ६४ ॥
विस्तीर्णबाहुर्गुणवान् नेता पद्मादिवित्तवान् ।
गृहीतवाक्यो दुखीकश्चन्द्रादन्त्यङ्गते शनौ ॥ ६५ ॥
इदानीं चन्द्राद् द्वादशे स्थाने गते भौमादिग्रहे (अनफायोग-) फलान्युच्यन्ते ।
मानीत्यादिश्लोकपञ्चकेन । तत्र प्रत्येकस्य ग्रहस्य पृथक् पृथगुक्तं फलं वाच्यम् । द्वित्र्यादि-
ग्रहसंयोगे तन्मिश्रं फलं वाच्यम् । श्लोकाः स्पष्टार्थकाः इति ॥ ९१-९५ ॥
चन्द्रमासे १२ वें मंगल हो तो मानी, युद्धमें साहसी, क्रोधी, घर-चोरोंका मालिक,
वीर और अपने शरीरकी रक्षा करनेवाला हो ॥ ९१ ॥
चन्द्रमासे बारहवें बुध हो तो गान्धर्व विद्या (संगीत) का ज्ञाता, लेखक, चतुर, कवि,
वक्ता, सुन्दर देहवाला, यशस्वी और राजपूज्य हो ॥ ९२ ॥
चन्द्रमासे व्ययमें गुरु हों तो राजपूज्य, विशेष बुद्धिमान्, गंभीर गुणवाला, सत्त्वगुणी,
पवित्र, उत्तम स्थानवाला और धनाढ्य होवे ॥ ९३ ॥
चन्द्रमासे १२ वें शुक्र हो तो युवतियोंके साथ विलास करनेवाला, पद्म आदि धनोंसे
युक्त, बुद्धिमान् और धन-धान्यसे पूर्ण होवे ॥ ९४ ॥
जिसके चन्द्रमासे व्यय स्थानमें शनि हो वह बड़े बाहुवाला, गुणवान्, नेता, पद्म-
आदि धनवाला, वचनग्राही तथा दुखी जीवाला होवे ॥ ९५ ॥
अथ धुरन्धरायोगफलानि ।
असत्यवादी गुणवान् निपुणोऽतिशठो गुणी ।
लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥ ६६ ॥
स्वकर्मविभवो दृष्टो यशस्वी रिपुपीडितः ।
स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥ ६७ ॥
व्यायामी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् ।
भयादशीलः शीतांशौ मध्यगे कुजशुक्रयोः ॥ ६८ ॥
कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् ।
असन्तुष्टो निशानाथे मध्यगे कुजमन्दयोः ॥ ६६ ॥
धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः ।
यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥ १०० ॥
नृत्यगानरतः कान्तः प्रियवाक् सुभगः सुधीः ।
शूरप्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥ १०१ ॥
देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः ।
स्वबन्धुजनविद्वेषी चन्द्रे मन्दज्ञमध्यगे ॥ १०२ ॥
नृपतुल्यकरः श्रीमान् नीतिज्ञो विक्रमान्वितः ।
ख्यातोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥ १०३ ॥
सुखी विनयविज्ञानविद्यारूपगुणान्वितः ।
धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥ १०४ ॥
वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः ।
धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥ १०५ ॥

राजयोगाध्यायः ॥ ७ ॥ २३०
स्वोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं यदुक्तम् ।
स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्तथैव फलमस्ति पराशराद्याः ॥ १०६ ॥
चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्राद्द्विर्वा यदि रिःफयातः ।
नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरायाः ॥ १०७ ॥
इदानीं द्वादशभिः श्लोकैः दुरुधुरायोगफलान्युच्यन्ते । अत्रोक्ताद्विशेषग्रहयोगेऽपि तार-
तम्येन फलं वाच्यम् । श्लोकार्थ स्पष्टार्था एवेति ॥ ९६-१०७ ॥
जिसके जन्म-समय बुध और मंगलके मध्यमें चन्द्रमा हो वह असत्यवादी, गुणवान् ,
निपुण, भारी शठ, दयायुक्त, लोभी और वृद्धा स्त्रीमें आसक्त होता है ॥ ९६ ॥
जिसके जन्मसमय मंगल और बृहस्पतिके मध्यमें चन्द्रमा हो वह स्वकर्मसे धनी,
यशस्वी, शत्रुओंसे पीड़ित, और सदा अपने घरमें रहनेवाला होता है ॥ ९७ ॥
जिसके जन्म-समय मंगल और शुक्रके मध्यमें चन्द्रमा हो वह व्यायामी, देखनेमें
सुन्दर, कामुक, क्रूर-स्वभाव, हृष्ट, धनी, और भयसे शीलरहित ( पागल की तरह )
होता है ॥ ९७ ॥
जिसके जन्म-समय मंगल और शनिके मध्यमें चन्द्रमा हो वह निन्दित-स्त्रीरत, क्रोधी,
धनवान्, चुगलखोर, शत्रुवाला और अधीर होता है ॥ ९९ ॥
जिस मनुष्यके जन्म-समय बुध और बृहस्पतिके मध्यमें चन्द्रमा हो वह धर्मात्मा,
शास्त्र जाननेवाला, वाचाल, श्रेष्ठकवि, सज्जनोंसे युक्त और यशस्वी होता है ॥ १०० ॥
जिस मनुष्यके जन्म-समय बुध और शुक्रके मध्यमें चन्द्रमा हो वह नाच गानमें मग्न,
सुन्दर रूपवाला, प्रियवक्ता, सुन्दर शरीर, सुन्दरबुद्धि और साहसी प्रकृतिवाला होता है ॥
जिस मनुष्यके जन्मके समय शनि और बुधके बीचमें चन्द्रमा हो वह अनेक देश में
जाकर पूज्य हो, विशेष विद्या तथा धनसे युक्त न हो और अपने बन्धुजनोंका बैरी हो ॥१०२॥
जिस मनुष्यके जन्म-समय गुरु और शुक्रके बीचमें चन्द्रमा हो वह राजाके सदृश होता
है और वह मनुष्य श्रीमान्, नीतिज्ञ, पराक्रमी, विख्यात और शुद्ध चित्तवाला होता है ॥
जिस मनुष्यके जन्म-समय शनि और बृहस्पतिके बीचमें चन्द्रमा हो वह सुखी, विन-
यविज्ञान-विद्या-रूप और गुणोंसे युक्त, धनी और दूसरोंको शान्ति करनेवाला होता है ॥
जिस मनुष्यके जन्म-समय शुक्र और शनिके मध्यमें चन्द्रमा हो वह वृद्धोंके आचारों
से युक्त, कुलीन, गुणहीन-स्त्रीका स्वामी, धनी, और राजप्रिय होता है ॥ १०५ ॥
जो ये फल कहे हैं वे योगकारक ग्रह यदि उच्चके हों, स्वगृहमें हों, अपने नवांश या
अपने मित्रगृह के हों तो नियत सब फल होते हैं, यह पराशरादि ऋषियोंने कहा है ॥१०६॥
चन्द्रमा राहु वा केतुसे युक्त हो, वा चन्द्रमासे १२ वें राहु हो या दुरुधुरा योग कारक
ग्रह नीच वा अस्तङ्गत हों तो मिश्र फल होता है ऐसा श्रेष्ठ विद्वानोंने कहा है ॥ १०७ ॥
अथ शकटयोगः ।
षष्ठाष्टमगतश्चन्द्रात्सुरराजपुरोहितः। केन्द्रादन्यगतो लग्नाद्योगःशकटसंज्ञितः॥११०८॥

[कुंडली चक्र]

• प्रथम भाव (लग्न): ल.
• द्वादश भाव: चं.
• अष्टम भाव: गु.
• दशम भाव: शकट-योगः

इदानीं शकटयोगमाह-षष्ठेति । च-
न्द्रात्षष्ठे वा अष्टमे गुरुश्चेद्भववेत्तयादसौ गु-
रुः लग्नात् केन्द्रेतरेऽर्थात् केन्द्रे न भवेत्
तदा शकटसंज्ञो योगो भवति ।
तथा फलदीपिकायाम्—
"जीवाद्व्ययारिसंस्थे शशिनि तु शकटः
केन्द्रगे नास्ति लग्नात्" इति ॥१०८॥
चन्द्रमासे छठे वा आठवें बृहस्पति
हो, लग्नसे केन्द्रमें न हो तो 'शकट' संज्ञक
योग होता है ॥ १०८ ॥

२६८ सटीकजातकपारिजाते-
अथ शकटयोगफलम् ।
अपि राजकुले जातो निःस्वः शकटयोगजः ।
क्लेशायासवशान्नित्यं सन्तप्तो नृपविप्रियः ॥ १०६ ॥
अनेन श्लोकेन सरलार्थेन शकटयोगफलमुच्यते ॥ १०९ ॥
शकट योगमें उत्पन्न होनेवाला राजकुलका भी हो तो भी दरिद्र, अनेक कष्ट और प्रयास
से नित्य सन्तप्त और राजाका अप्रिय होता है ॥ १०९ ॥
अथ पारिजातादियोगफलानि ।
सपारिजातद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः ।
सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११० ॥
करोति पारावतभागयुक्तो विद्यायशःश्रीविपुलं नराणाम् ।
सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ।
प्रथमाध्याये ४५।४६ तमे श्लोके उक्ता ये पारिजातादिवर्गास्तेषां फलान्यत्रोच्यन्ते
श्लोकद्वयेन सरलार्थेनेति ॥ ११०-१११ ॥
अपने पारिजात भागमें ( १ अ० ४५-४७ श्लो० ) रहनेवाला ग्रह सुख देता है । उत्तम
वर्गवाला ग्रह नीरोग करता है । यदि गोपुरांशमें ग्रह हो तो गौ और धन देता है । सिंहा-
सन वाला ग्रह विभूति ( सम्पत्ति ) को देता है । पारावत भागमें युक्त ग्रह मनुष्यों को
विद्या, यश और विपुल लक्ष्मीको प्राप्त कराता है । देवलोकसे युक्त ग्रह बहुत सवारी और
सेनाको देता है और यदि ऐरावत अंशमें स्थित हो तो राजा बनाता है ॥ ११०-१११ ॥
अथ अधमादि योगाः ।
अधमसमवरिष्टान्यर्ककेन्द्रादिसंस्थे
शशिनि विनयवित्तज्ञानधीनैपुणानि ।
अहनि निशि च चन्द्रे स्वाधिमित्रांशके वा
सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२ ॥
इदानीं सूर्याच्चन्द्रमसोः स्थितिवशेनाधममध्यमवरिष्ठयोगानाह—अधमेति । शशिनि =
चन्द्रे, अर्ककेन्द्रादिसंस्थे = सूर्यात् केन्द्रादौ गतवति अधमसमवरिष्टानि विनयवित्तज्ञानधी-
नैपुणानि भवन्ति । एतदुक्तं भवति । सूर्यात् केन्द्रगते चन्द्रे अधमो योगस्तस्मिन् विनय-
वित्तज्ञानधीनैपुणानि अधमानि भवन्ति । सूर्यात् पणफरे गतवति चन्द्रे समो योगस्तस्मिन्
विनयादि समं वाच्यम् । सूर्यात् आपोक्लिमे गते चन्द्रे वरिष्ठो योगस्तस्मिन् विनयादि वरिष्ठं
वाच्यमिति । तथोक्तञ्च—
"सहस्ररश्मितश्चन्द्रे कण्टकादिगते सति ।
न्यूनमध्यवरिष्ठानि धनधीनैपुणानि च" इति । पाराशरीये ।
अहनीति । अहिनि = दिने, निशि = रात्रौ च स्वांशे, वा अधिमित्रग्रहनवांशे गतवति
चन्द्रे क्रमेण गुरुणा, शुक्रेण दृष्टे । दिने स्वांशे वाऽधिमित्रांशे चन्द्रे गुरुणा दृष्टे, रात्रौ भृगुणा
दृष्टे सति जातो वित्तवान् सुखी च स्यात् । तथा हि—
स्वांशेऽधिमित्रस्यांशे वा स्थिते वा दिवसे शशी । गुरुणा दृश्यते तत्र जातो वित्तसुखान्वितः ॥
स्वाधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा ।
निशासु कुरुते लक्ष्मीं छत्रध्वजसमाकुलाम् ॥ इति पाराशरीये ॥ ११२ ॥
यदि सूर्यसे चन्द्रमा केन्द्र ( १।४।७।१० ) में हो तो अधम, पणफर ( २।५।८।११ ) में
हो तो मध्यम, आपोक्लिम ( ३।६।९।१२ ) में हो तो वरिष्ठ ( उत्तम ) योग होते हैं । उन

अधम आदि योगोंमें विनय, वित्त, ज्ञान, बुद्धि और निपुणता योगोंके नामानुसार ही होती
है । दिनमें या रात्रिमें चन्द्रमा अपने या अधिमित्रके नवांशमें हो उसे क्रमसे बृहस्पति
और शुक्र देखता हो तो धनवान् और सुखी हो । ( बृ० जा० कार ) ॥ ११२ ॥
अथ चन्द्राधियोगः ।
सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म ।
सम्पत्तिसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः ॥ ११३ ॥
इदानीं चन्द्राधियोगमाह—सौम्यैरिति । इन्दोः = चन्द्रस्थानात्, स्मरारिनिधनेषु =
सप्तमषष्ठाष्टमभावेषु, सौम्यैः = शुभग्रहैः ( बुधगुरुशुक्रैः ) यथासम्भवमुपगतैः, अधियोगः
स्यात् । योगोऽयमधियोगसञ्ज्ञको भवति । तत्फलमाह । तस्मिन्नधियोगे चमूपस्य =
सेनाधिपतेः ( Commander's ) सचिवस्य = राजमन्त्रिणः ( Minister's ) क्षिति-
पालस्य = राज्ञः, जन्म भवति । अधियोगे जातो राजा, मन्त्री, चमूपो वा भवति । तथा
तत्र जाताः सम्पत्तिसौख्यवन्तो हतशत्रवः दीर्घायुषो विगतरोगभयाश्च भवन्ति । तथाहि—

| “शशिनः सौम्याः षष्ठे
द्यूने वा निधनसंस्थिता वा स्युः ।
जातो नृपतिर्ज्ञेयो
मन्त्री वा सैन्यनायको वाऽपि ॥
स्यादधियोगे जातः सौम्यैः सबलैरधराधीशः ।
मध्यबलैर्मन्त्री स्यादधमबलैः सैन्यना-
यकः स्यात्” इति बादरायणः ॥११॥ |

चं.

चन्द्रात्
अधियोगः

बु.

शु.

बृ.

**Notes—**चन्द्रात् षष्ठसप्तमाष्टमभावेषु पापैः
पापाधियोगः, मिश्रग्रहैः ( पापैः शुभैश्च ) मिश्रयोगो भवति । ‘पापः पापैरेवं मिश्रैर्मिश्रस्तथै-
वोक्तः’ इति वचनात् ।
यदि चन्द्रमासे छठे, सातवें या आठवें भवनमें शुभग्रह हों तो ‘अधियोग’ होता है ।
इस योगमें सेनापति, राजमन्त्री और राजाका जन्म होता है। इसमें जन्म लेनेवाले सम्पत्ति-
सौख्य-विभव युत, शत्रु रहित, रोगरहित और भयरहित होते हैं ॥ ११३ ॥
अथ लग्नाधियोगः ।
लग्नादरिचूनगृह्राष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः ।
लग्नाधियोगो भवति प्रसिद्धः पापैः सुखस्थानविवर्जितैश्च ॥ ११४ ॥
लग्नाधियोगे बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी ।
मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥११५॥

| इदानीं लग्नाधियोगमाह—लग्नादि-
ति । जन्मलग्नात्, अरिद्यूनगृहाष्टमस्थैः =
षष्ठ-सप्तमाष्टमभावेषु व्यवस्थितैः शुभैः =
शुभग्रहैः ( बुधगुरुशुक्रैः ) न पापग्रहयुक्तैः,
न पापग्रहदृष्टैश्च, तथा पापैः = पापग्रहैः,
सुखस्थानविवर्जितैः = चतुर्थस्थानरहितैः ।
एतदुक्तं भवति । लग्नात् ६, ७, ८ भावेषु
यथासम्भवं सर्वे शुभग्रहा भवेयुस्तेषु कश्चित् |

ल.

०

लग्नाधियोगः

बु.

चं. बृ.

शु.

२४० सटीकजातकापारिजाते-
पापग्रहो न भवेत्तथा पापग्रहस्य दृष्टिरपि न भवेत्तथा चतुर्थभावे पापग्रहा न भवेयुरिति ।
तदा प्रसिद्धः लग्नाधियोगो भवति । तथा च—
षट्सप्ताष्टमसंस्थैर्लग्नात्सौम्यैरपापदृष्टियुतैः ।
लग्नाधियोगोऽयं पापैः सुखवर्जितो भवति ॥ जातकादेशे ।
लग्नाधियोगफलमाह—लग्नाधियोगे इत्यादिना सरलार्थेन श्लोकेन ॥११४-११५॥
Notes—लग्नात् ६, ७, ८ इति भावत्रयेऽपि पापग्रहाणां योगो दृष्टिश्च न स्यादि-
त्यसम्भवम् । कस्मिन्नपि भावे पापानां स्थितिः कल्प्यते तदा कश्चिदेको भावः पापद्दष्टः
पापयुतो वा स्यादेवेति विविच्यम् । अत एव ६, ७, ८ भावेषु पापग्रहयोगरहितेषु, इत्येवं
मद्भिप्रेतमिति ।
लग्नसे षष्ठ, सप्तम और अष्टम स्थानमें शुभग्रह हों उन्हें पापग्रह न देखते हों न युक्त
हों और सुख ४ स्थानमें पापग्रह न हो तो "लग्नाधियोग" होता है ॥ ११४ ॥
जिस मनुष्यका जन्म लग्नाधियोगमें हो वह बहुत शास्त्रोंका रचनेवाला, विद्यासे विनीत,
बहुत बलका अधिकारी, मुख्य, निष्कपट, महात्मा और लोकमें यश-वित्त-गुणसे
युक्त होवे ॥ ११५ ॥
अथ गजकेसरीयोगः ।
केन्द्रस्थिते देवगुरौ मृगाङ्काद्योगस्तदाहुर्गजकेसरीति ।
दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥ ११६ ॥
गजकेसरिसञ्जातस्तेजस्वी धनधान्यवान् ।
मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥ ११७ ॥
इदानीं गजकेसरीयोगमाह-केन्द्रस्थिते
इति । यत्र तत्रस्थात् मृगाङ्कात् = चन्द्रात्,
केन्द्रस्थिते देवगुरौ = बृहस्पतौ सति गजके-
सरी योगो भवतीत्याहुराचार्याः इति ।
अथ च शशाङ्के=चन्द्रे, नीचास्तहीनैः
सितार्येन्दुसुतैः = शुक्रगुरुबुधा नीचं गता
श्चास्तमिताश्च न भवेयुस्तैः दृष्टे सति गज-
केसरी योगः स्यात् । तत्फलमाह-गजकेस-
रिसञ्जात इति सरलार्थेन पदेन ॥११६-११७॥
चन्द्रमासे केन्द्रमें बृहस्पति हो तो "गजकेसरी" योग होता है । शुक्र-गुरु-बुध नीच
राशिमें तथा अस्त न हों, इनसे चन्द्रमा देखा जाता हो तो "गजकेसरी" योग होता है॥११६॥
जिस मनुष्यका जन्म गजकेसरी योगमें हो वह तेजस्वी, धन-धान्य वाला, मेधावी,
गुणसम्पन्न और राजाका प्रियकर होता है ॥ ११७ ॥
अथ अमलायोगः ।
यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः ।
तस्य कीर्तिरमला भुवि तिष्ठेदायुषोऽन्तमविनाशनसम्पत् ॥ ११८ ॥
लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते ।
योगोऽयममला नाम कीर्तिराचन्द्रतारकी ॥ ११९ ॥
राजपूज्यो महाभोगी दाता बन्धुजनप्रियः ।
परोपकारी गुणवान् अमलायोगसम्भवः ॥ १२० ॥

राजयोगाध्यायः ॥ ७ ॥ २४१
इदानीं सफलममलायोगमाह—यस्ये-
त्यादिश्लोकत्रयेण । यस्य नरस्य जन्मसमये
शशिलग्नात् = चन्द्रलग्नात् (चन्द्राल्लग्नाद्वा)
दशमे भावे यदि कश्चिच्छुभग्रहः ( बुधो
गुरुः शुक्लो वा) व्यवस्थितो भवेत्तदा अम-
ला नाम योगो भवति । तस्मिन् काले जात-
स्य तस्यायुषोऽन्तं=यावज्जीवनं भुवि = पृथि-
व्याममला कीर्तिरक्षया सम्पच्च तिष्ठेत् ।
[कुण्डली चक्र: लग्न/१: ल. वृ. | दशम/१०: चं. | चतुर्थ/४: शु. | केन्द्र: अमला योगः]
कीर्तिराचन्द्रतारकी = यावत् कालं चन्द्रस्तारकाश्च भवन्ति तावत्कालं ( आकल्पमित्यर्थः )
तस्य कीर्तिर्जगति तिष्ठतीति भावः । अन्यत्स्पष्टमेव ॥ ११८-१२० ॥
जिसके जन्म-समय चन्द्रमासे दशवें शुभग्रहहो उसकी स्वच्छ कीर्ति, भूमिमें विद्यमान
रहती है और जीवन भर उसे अविनाशी धन रहता है ॥ ११८ ॥
लग्नसे वा चन्द्रमासे दशवां स्थान शुभग्रहसे युक्त हो तो 'अमला' नामक योग होता
है । इस योगमें उत्पन्न हुये मनुष्यकी किर्ति जब तक चन्द्रमा और तारे रहें तब तक अचल
रहती है । वह राजपूज्य, महाभोगी, दाता, बन्धुजनोंका प्रिय, परोपकारी और गुणवान्
होता है ॥ ११९-१२० ॥
अथ वास्यादियोगाः ।
व्ययधनयुतखेटैर्वासिवेशी दिनेशादुभयचरिकयोगश्चोभयस्थानसंस्थैः ।
निजगृहसुहृदुच्चस्थानयातैश्च जाता बहुधनसुखयुक्ता राजतुल्या भवन्ति ॥ १२१ ॥
इदानीं वासि-वेशि-उभयचरिकयोगानाह—व्ययेति । दिनेशात् = सूर्यात्, व्ययधन-
युतखेटैः वासिवेशी योगौ भवतः । सूर्याद् द्वादशे भावे ग्रहे द्वितीये च ग्रहरहिते सति
वासियोगः, सूर्याद् द्वितीये स्थाने सग्रहे व्यये शून्ये च वेशियोगः । उभयस्थानसंस्थैः =
सूर्याद् द्वितीये द्वादशे च स्थाने सग्रहे सति उभयचरिको योगो ज्ञेयः । योगत्रयेऽपि ग्रहा
निजगृहे, सुहृद्गृहे, उच्चस्थाने वा गताः स्युस्तदा जाताः = जायमाना नराः बहुधनसुख-
युक्ता राजतुल्याश्च भवन्ति ॥ १२१ ॥
सूर्यसे बारहवें ग्रह हो तो 'वासी' योग, दूसरे हो तो 'वेशि'योग, एवं बारहवें और दूसरे
दोनों स्थानोंमें ग्रह हों तो उभयचरिक योग होता है । वे ग्रह यदि स्वगृहीके, मित्र-गृहीके
या उच्चस्थानीय हों तो इनमें उत्पन्न हुये व्यक्ति बहुत धन और सुखसे युक्त राजाके
तुल्य होते हैं ॥ १२१ ॥
वास्यादियोगफलानि—
जातः सुशीलः शुभवेशियोगे वाग्मी धनी वीतभयो जितारिः ।
पापग्रहे दुष्टजनानुरक्तः पापात्मको वित्तसुखादिहीनः ॥ १२२ ॥
वासौ शुभग्रहयुते निपुणः प्रदाता विद्याविनोदसुखवित्तयशोबलाढ्यः ।
पापान्विते यदि विदेशगतोऽतिमूर्खः कामातुरो वधुरुचिर्विकृताननः स्यात् ॥१२३॥
सौम्यन्वितोभयचरिप्रभवा नरेन्द्रस्तत्तुल्यवित्तसुखशीलदयानुरक्ताः ।
पापान्वितोभयचरौ यदि पापकृत्या रोगाभिभूतपरकर्मरता दरिद्राः ॥ १२४ ॥
इदानीं वास्यादियोगानां फलमाह—जात इत्यादिश्लोकत्रयेण । तत्र शुभपापादिभेदे-
नार्थाद् योगत्रये योगकारकः शुभग्रहः पापग्रहो वा भवेत्तदा तत्तदुक्तं फलं पृथक् पृथग्
वाच्यम् । श्लोकाश्चैते स्पष्टार्थाः ।
Notes—चन्द्राद् द्वितीये, व्यये, उभयत्र च सग्रहे सुनफाऽनफा दुरुधुरा यथा
२१ जा०

२४२ सटीकजातपारिजाते-
भवन्ति, तथैवात्र सूर्याद् द्वितीये, द्वादशे, उभये च सग्रहे वेशि-वासि उभयचरिका विज्ञेयाः।
परश्च सुनफादौ रविवर्जिता एव ग्रहाः कारका उक्तास्तथैवात्र वेश्यादौ चन्द्रवर्जिताः ग्रहैः
कारकैः भवितव्यम्। तथाऽऽह पराशरः—
वासिध्वान्त्यैर्गतैर्ग्रहैर्द्रविणेगेर्वेशिः शशाङ्कोज्झितैः
भानोस्तूदभयगैस्तदोभयचरीयोगः स्मृतः प्राक्तनैः
एवं जातकादेशे च—
“सूर्याद् व्ययैर्गतैर्वासि-
वित्तैर्गतैश्चन्द्रवर्जितैर्वेशिः।
उभयस्थितैर्ग्रहैन्द्रैरुभयचरी-
नामतो योगाः” इति ॥१२२-१२४॥
[कुण्डली १ (वासिः): लग्न/१म = सू०, २य = ०, १२श = मं०, योग = वासिः]
[कुण्ड

राजयोगाध्यायः ॥ ७ ॥ २४३
[कुण्डली १ (शुभकर्त्तरी योगः): १२ बु. | १ ल. शु. | २ वृ.] [कुण्डली २ (पापकर्त्तरी): १२ मं. | १ ल. र. | २ श.]
यदि जन्म लग्न शुभ ग्रहसे युक्त हो तो शुभ योग और यदि पापग्रहसे युक्त हो तो
अशुभ योग होता है। लग्नसे बारहवें और दूसरे दोनों स्थानोंमें पापग्रह हों तो पाप-कर्त-
रिक और सौम्य हों तो सौम्य-कर्तरिक योग होता है ॥ १२५ ॥
शुभ योगमें उत्पन्न हुआ नर, खूब बोलनेवाला (वक्ता) रूप, शील, सदाचार तथा
गुणसे पूर्ण रहता है। और पाप योगमें उत्पन्न नर कामी, पापी तथा दूसरोंका पैसा खाने-
वाला होता है ॥ १२६ ॥
शुभ-कर्तरी योगमें उत्पन्न जातक तेजस्वी, धनी और अधिक बलवान् होता है तथा
पाप-कर्तरिकमें उत्पन्न जातक पापी, भिक्षुक, और मलिन चित्त होता है ॥ १२७ ॥
अथ पर्वतयोगः ।
सौम्येषु केन्द्रगृहगेषु सपत्नरण्ध्रे शुद्धेऽथवा शुभयुते यदि पर्वतः स्यात् ॥

१४४ सटीकजातकपारिजाते-
शुभग्रह केन्द्रमें हों, षष्ठ और अष्टमस्थान शुद्ध हों, या शुभयुत हों तो "पर्वत" योग
होता है । लग्नेश और व्ययेश यदि परस्पर केन्द्रमें प्राप्त हों मित्रसे दृष्ट हों तो "पर्वत"
योग होता ॥ १२८ ॥
पर्वत योगमें उत्पन्न होनेवाला पुरुष भाग्ययुक्त, विद्याविनोदमें लीन, दाता, कामी,
परस्त्रीसे रमण करनेमें चञ्चल, तेजस्वी, यशस्वी और ग्रामका प्रधान नायक होता है॥१२९॥
अथ काहलयोगः।
अन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बल्युते यदि काहलः स्यात् ।
कर्मेश्वरेण सहिते तु विलोकिते वा स्वोच्चस्वके सुखपतौ यदि तादृशः स्यात्॥१३०॥
ओजस्वी साहसी मूर्खश्चतुरङ्गनबलेर्युतः ।
यत्किञ्चिद्ग्रामनाथस्तु जातः स्यात् काहले नरः ॥ १३१ ॥
इदानीं काहलयोगमाह-अन्योन्येति । गुरुबन्धुनाथौ = नवमेशचतुर्थेशौ, अन्योन्य-
केन्द्रगृहगौ = परस्परं केन्द्रगतौ भवेतां, एकस्मादन्यः केन्द्रगत इत्यर्थः । लग्नाधिपे =
लग्नेशे, यदि बल्युते = स्थानादिबलसहिते सति 'काहलः' योगः स्यात् । योगान्तर-
माह-कर्मेश्वरेणेति । स्वोच्चे = आत्मीयोच्चराशौ, वा स्वके = आत्मगृहे विद्यमाने, सुख-
पतौ = चतुर्थभावेशे, कर्मेश्वरेण = दशमभावेशेन सहिते यदि वा विलोकिते सति तादृशः
स्यादर्थात् 'काहलः' योगः स्यादिति । तथा च जातकादेशे-
“बन्धुधर्मगृहाधीशावन्योन्यं केन्द्रमाश्रितौ । लग्नाधीशे बलवति योगः काहलसंज्ञकः” इति ॥
काहलयोगफलमाह-ओजस्वीति सरलार्थेन श्लोकेन ॥ १३०-१३१ ॥

[कुण्डली १][कुण्डली २]
२ | चं. १ ल.२ | १ ल. | १२
४ | काहलः । | १० मं.३ | चं. ४ श. | काहलः ॥ | ११ | १०
वृ. . | ९५ | ७ | ६ | ८ | ९

यदि नवमेश और चतुर्थेश परस्पर केन्द्र में हों और लग्नेश बलवान् हो तो 'काहल'
योग होता है । सुखेश अपने उच्च, या स्वकीय भवनमें हो, दशमेशसे युत वा दृष्ट हो तो
"काहल" योग होता है ॥ १३० ॥
काहल योगमें जायमान बालक बलवान्, साहसी, मूर्ख, चतुरंगिणी सेनासे युक्त और
कुछ ग्रामोंका स्वामी होता है ॥ १३१ ॥
अथ मालिकायोगः ।
लग्नादिसप्तगृहगा यदि सप्त खेटा जातो महीपतिरनेकगजाश्वनाथः ।
वित्तादिगो निधिपतिः पितृभक्तियुक्तो धीरोऽग्ररूपगुणवान् नरचक्रवर्ती ॥१३२॥
जातो यदा विक्रममालिकायां भूपः स शूरो धनिकश्च रोगी ।
सुखादिकश्चेद् बहुदेशभाग्यभोगी महादानपरो महीपः ॥ १३३ ॥
पुत्राद्या यदि मालिका नरपतिर्यज्वाऽथवा कीर्तिमान् ।
जातः षष्ठगृहात् क्वचिद् धनसुखप्राप्तो दरिद्रो भवेत् ॥
कौमादिग्रहमालिका यदि बहुस्त्रीवल्लभो भूपतिः ।

राजयोगाध्यायः ॥ ७ ॥ २४५
दीर्घायुर्धनवर्जितो नरवरस्त्रीनिर्जितश्चाष्टमात् ॥ १३४ ॥
धर्मादिग्रहमालिका गुणनिधिर्यज्वा तपस्वी विभुः ।
कर्माद्या यदि धर्मकर्मनिरतः सम्पूजितः सज्जनैः ॥
लाभाद्राजवराङ्गनामणिपतिः सर्वक्रियादक्षको ।
जातो रिःफगृहाद्बहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥ १३५ ॥
इदानीं मालिकायोगमाह—लग्नादित्यादिश्लोकचतुष्टयेन । तत्र प्रत्येकभावतो मालि-
काय्रोग उक्तः । यथा सप्त ग्रहा यथास-
म्भवं लग्नादिमारभ्य सप्तमभावावधिः
प्रतिभावमेकैकग्रहक्रमेण स्थिताः स्युस्तदा
लग्नमालिका स्यात् । द्वितीयादिमारभ्या-
ष्टमं यावत्तथैव स्थिताः सप्त ग्रहाः स्युस्तदा
वित्तमालिका स्यादेवं प्रतिभावमालिका
ज्ञेया । प्रत्येकमालिकायोगस्य फलं पृथक्
पृथगुक्तं तत्स्पष्टार्थमेवेति ॥ १३२=१३५॥

[चक्र १ : लग्नमालिका]

• लग्न (१): मं. ल.
• द्वितीय (२): चं.
• तृतीय (३): बु.
• चतुर्थ (४): सू.
• पञ्चम (५): शु.
• षष्ठ (६): वृ.
• सप्तम (७): श.

[चक्र २ : वित्तमालिका]

• लग्न (१): लं.
• द्वितीय (२): मं.
• तृतीय (३): बु.
• चतुर्थ (४): सू.
• पञ्चम (५): शु.
• षष्ठ (६): श.
• सप्तम (७): चं.
• अष्टम (८): वृ.

[चक्र ३ : विक्रम मालिका]

• लग्न (१): ल.
• तृतीय (३): चं.
• चतुर्थ (४): बु.
• पञ्चम (५): र.
• षष्ठ (६): शु.
• सप्तम (७): श.
• अष्टम (८): वृ.
• नवम (९): मं.

किसी भी भावसे ७ भावोंमें ७ ग्रह हों तो उस भाव सम्बन्धी मालिका योग होता है।
जैसे लग्नादि सात गृहमें यदि सात ग्रह हों तो "लग्नमालिका" योग होता है। इस योग
में जायमान नर राजा, अनेक हाथी-घोड़ोंका स्वामी होता है। धनादि सात भावोंमें
हो तो धनवान्, पिताकी भक्तिमें युक्त, धीर, सुरूप, गुणवान् और मनुष्योंमें चक्रवर्ती
होता है ॥ १३२ ॥
यदि विक्रम मालिकामें उत्पन्न हो तो पराक्रमी राजा, धनी और रोगी होता है।
यदि सुखादिमें सप्त ग्रह हों तो बहुत देशोंमें भाग्यवान् और बहुत बड़ा दान करनेवाला
राजा होता है ॥ १३३ ॥
यदि पुत्रादि मालिकामें उत्पन्न हो तो यज्ञ करनेवाला राजा वा कीर्तिमान होता
है। यदि षष्ठ गृहमें मालिका हो उसमें उत्पन्न मनुष्य हो तो कभी धन सुख प्राप्ति हो और
कभी दरिद्र होता है। कामादि (७ भावादि) मालिकामें उत्पन्न होनेवाला मनुष्य
बहुत स्त्रियोंका स्वामी और राजा होता है। अष्टम भावकी मालिकामें उत्पन्न मनुष्य
दीर्घायु, दरिद्र, नर-श्रेष्ठ और स्त्रीसे निर्जित होता है ॥ १३४ ॥
धर्मादि मालिकामें उत्पन्न होनेवाला मनुष्य गुणका निधान, यज्ञ करनेवाला, तपस्वी,
और समर्थ होता है। कर्मादि मालिकामें जायमान मनुष्य धर्म-कर्ममें निरत और सज्जनों-
से अच्छी तरह पूजित होता है। लाभ मालिकामें उत्पन्न होनेवाला मनुष्य राज्य-स्त्री-
मणिका स्वामी, सर्वक्रियामें दक्ष होता है। रिस्फ मालिकामें जायमान मनुष्य बहुत
खर्च करनेवाला और सर्वत्र पूज्य होता है ॥ १३५ ॥

२४६ सटीकजातकपारिजाते-
अथ चामरयोगः।
लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम योगः।
सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥ १३६ ॥
योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः।
सर्वज्ञः स्याद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥ १३७ ॥
इदानीं चामरयोगं तत्फलञ्चाह—लग्नेश्वर इत्यादिशलोकयुगलेन। स्वतुङ्गे = स्वकीयोच्च-
राशि गतवति, लग्नेश्वरे, केन्द्र-(१।४।७।१० एतदन्यतमभाव- ) गते तस्मिन्, जीवे-
क्षिते-गुरुणा दृष्टे चामरनाम योगः स्यात्।
योगान्तरमाह—यदि लग्नगृहे, वा
कलत्रे = सप्तमे भावे, वा नवमे, वा आस्प-
दे = दशमे भावे, सौम्यद्वये व्यवस्थिते
चामरः योगः स्यात्। तत्फलं योग इत्य-
नेन स्पष्टार्थकेन श्लोकेनाह ॥१३६-१३७॥
[ चक्रम्: चामरयोगः — तनु/लग्न: ॥. बु. शु. ल. १; व्यय: गु. ।; कर्म: १० मं. ।; धर्म: बु. शु. ॥.; जाया: बु. शु. ॥. ]
लग्नका स्वामी अपनी उच्च राशिका
होकर केन्द्रमें स्थित हो और गुरुसे दृष्ट हो
तो “चामर” योग होता है। यदि लग्नमें, या सप्तममें या नवम, या दशममें दो शुभग्रह हों
तो “चामर योग होता है ॥ १३६ ॥
चामर योग में उत्पन्न होनेवाला मनुष्य राजपूज्य, विद्वान्, वक्ता, पण्डित, वा राजा,
सर्वज्ञ, वेदशास्त्रका अधिकारी और ७० वर्षतक जीनेवाला होता है ॥ १३७ ॥
अथ शङ्खयोगः।
अन्योन्यकेन्द्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्खयोगः।
लग्नाधिपे च गगनाधिपतौ चरस्थे भाग्याधिपे बलयुते तु तथा वदन्ति १३८
शङ्के जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा।
शास्त्रज्ञानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणामशीतिः ॥ १३६ ॥
अधुना शङ्खयोगं तत्फलञ्चाह—अन्योन्येति। सुतशत्रुनाथौ = पञ्चमेशषष्ठेशौ, अन्यो-
न्यकेन्द्रगृहगौ = परस्परं केन्द्रगतौ भवेतां, लग्नाधिपे = लग्नेशे यदि बलेन (स्वस्थानादि-
वीर्येण) युते सति शङ्खनामको योगः स्यात्। अथ योगान्तरमाह—लग्नाधिपे, गगना-
धिपतौ = दशमेशे च (च शब्दः पुनरर्थे) चरस्थे ( १।४।७।१० राशीनामन्यतमस्थे)
सति, भाग्याधिपे = नवमेशे तु बलयुते तथाऽर्थाच्छङ्खयोगं वदन्ति मनीषिणः इति। तत्फ-
लञ्च शङ्के जात इत्यादिना स्पष्टार्थेन श्लोकेनाहेति ॥ १३८-१३९ ॥
[ चक्रम् १: शङ्खयोगः ।. — १: शु. २ ल.; २: ३; ३: ४; ४: ५ बु.; ५: ६; ६: ७; ७: ८; ८: ९; ९: १० मं.; १०: ११; ११: १२; १२: १ ]
[ चक्रम् २: शङ्खयोगः ॥. — १: २ ल.; २: ३; ३: ४ शु.; ४: ५; ५: ६; ६: ७; ७: ८; ८: ९; ९: १० श.; १०: ११; ११: १; १२: १ ]

राजयोगाध्यायः ।।७।। २४७
पुत्रेश और षष्ठेश परस्पर केन्द्रमें स्थित हों लग्नेश बलवान् हो तो “शङ्ख” योग होता
है । लग्नेश और दशमेश चरराशिमें हों भाग्येश बली हो तो 'शङ्ख' योग होता है ॥ १४८ ॥
शंखयोगमें उत्पन्न होनेवाला भोगशील, दयालु, जीवान्, पुत्रवान्, क्षेत्रवान्, पुण्यकर्मा,
शास्त्र ज्ञान द्वारा आचार और साधु क्रिया वाला और लोक में ८० वर्ष जीनेवाला होता है॥
अथ भेरीयोगः ।
स्वान्त्योदयास्तभवनेषु वियच्चरेषु कर्माधिपे बलयुते यदि भेरीयोगः ।
केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥१४०॥
दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धाः ।
आचारभूरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥१४१॥
इदानीं भेरीयोगं तस्य फलञ्चाह—स्वान्त्येति । स्वान्त्योदयास्तभवनेषु = द्वितीयद्वाद-
शप्रथमसप्तमभावेषु, वियच्चरेषु = ग्रहेषु यथासम्भवं विद्यमानेषु यदि कर्माधिपे = दशमेशे
बलयुते = सबले सति भेरीयोगो भवति । अथ च सुरगुरोः = बृहस्पतेः सकाशात्, केन्द्रं
( १।४।७।१० एतदन्यतमभावं ) गतौ, सितलग्ननाथौ = शुक्र-जन्मलग्रेशौ भवेतां, भा-
ग्येश्वरे = नवमेशे तु बलयुते तथैव वाच्यमर्थात्भेरीयोगः स्यादिति वाच्यम् । तस्य भेरी-
योगस्य फलं दीर्घायुष इत्यनेन सुखावगमेनोक्तमिति ॥ १४०-१४१ ॥
यदि दूसरे, बारहवें, लग्न और सप्तममें ग्रह हों दशमेश बली हो तो 'भेरी' योग होता है ।
वृहस्पतिसे केन्द्रमें शुक्र और लग्नेश हों और भाग्येश बलवान् हो तो "भेरी" योग होताहै ॥
भेरीयोगका जातक दीर्घायु, रोग-भयसे रहित, राजा, बहुत धन-भूमि-पुत्र-स्त्रीसे युत,
प्रसिद्ध, आचारवान्, पूर्ण सुखी, पराक्रमसे युत, महानुभाव, प्रत्येक कार्यमें निपुण तथा
कुलीन होता है ॥ १४१ ॥
| शु.चं.बु. २ | सू. १ | बृ. १२ | | २ | १ | १२ |
| ३ | ११ | | ३ | ११ |
| ४ | भेरी-योगः । | १० | | ४ बृ. | भेरी-योगः ॥ | मं. १० |
| ५ | ९ | | ५ | ९ |
| ६ | मं. ७ श. | ८ | | ६ | ७ शु. | ८ |
अथ मृदङ्गयोगः ।
उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये ।
लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरूपनृपतुल्ययशःप्रदः स्यात् ॥१४२॥
इदानीं मृदङ्गयोग उच्यते—उच्चेति ।
उच्चग्रहांशकपतौ = जन्मकाले यो ग्रहः | २ | ल. १ | |
स्वोच्चराशिस्थः स यद्राशिसम्बन्धिनवांशे | ३ | | |
व्यवस्थितो भवेत्तन्नवांशराशिप्तौ ग्रहे | ४ बृ. १२° | मृदङ्गयोगः | १० मं. |
यदि लग्नात् केन्द्रकोणे ( १।४।७।१०।५।६ | | | |
एतदन्यतमे ) याते, तुङ्गस्वकीयभव- | | ७ शु. | |
नोपगते = स्वोच्चे वा स्वराशौ गतवति
बलाढ्ये च, लग्नाधिपे = लग्नेशे तु बल-

२४८ सटीकजातकपारिजाते-
युते सति मृदङ्गयोगः स्यात् । अत्र यद्युक्तमुच्चग्रहांशकपताविति, तत्र यदि द्वौ बहवो वा
ग्रहा उच्चस्थाः स्युस्तदा बलवतो ग्रहणं कार्यमिति । मृदङ्गयोगफलमाह-कल्याणरूपनृपतुल्य
यशःप्रदः स्यादिति स्पष्टमेवेति ॥ १४२॥
यदि उच्चगत ग्रहका नवांशपति कोण या केन्द्रमेंहो और अपने उच्चगृही या स्वगृहीमें
हो, बलवान् हो, और लग्नेश भी बली हो तो “मृदङ्ग” योग होता है । यह मृदङ्ग योग
कल्याण, रूप और राजाके सदृश यश देनेवाला है ॥ १४२ ॥
अथ श्रीनाथयोगः ।
कामेश्वरे कर्मगते, स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च ।
श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३ ॥
इदानीं श्रीनाथयोग उच्यते—कामेश्वर इति । कामेश्वरे = सप्तमभावेशे, कर्मगते=दश-
मभावमुपगते, स्वतुङ्गे = स्वकीयोच्चराशि-
मुपगते कर्माधिपे = दशमेशे, भाग्यपेन
( नवमेशेन ) संयुते च सति शुभदः
श्रीनाथयोगः स्यात् । तदानीं ( श्रीनाथ-
योगोपलक्षिते काले ) जातो नरः शक्र-
समः = इन्द्रतुल्यः, नृपालः = राजा
भवति ॥ १४३ ॥
[कुण्डली: १ ल. | १० शु. | ९ | ७ वृ. श. | मध्य: श्रीनाथ:]
सप्तमेश कर्ममें हो और कर्मेश अपनी
उच्च राशिमें स्थित होकर भाग्येशके साथ होतो “श्रीनाथ” योग होता है । इस योगका
जातक इन्द्रके समान राजा होता है ॥ १४३ ॥
अथ शारदयोगः ।
योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे
केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ॥
चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे
लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४ ॥
स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्ताः ।
विद्याविनोदरतिशीलतपोबलाढ्याः जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥१४५॥
इदानीं शारदयोगं तस्य फलञ्चाह—योग इति । कर्माधिपे = दशमेशे, सुतगते = पञ्च-
मभावगते, चन्द्रजे = बुधे, केन्द्र-( १।४।७ १० भाव-) गते, दिननायके=सूर्ये, निजगृह-
प्राप्ते = सिंहराशिमुपगतेऽतिवीर्यान्विते ( पूर्णबलयुक्ते ) शारदसंज्ञकः योगः स्यात् । योगा-
न्तरमाह—पुरन्दरगुरौ=बृहस्पतौ, चन्द्रात् यत्र तत्र गतात्, कोणगते ( ९।५ भावगते ),
कुजे=भौमे, सौम्यत्रिकोणे = बुधात् पञ्चमं नवमं वोपगते, अथवा देवमन्त्रिणि = गुरौ बुधात्
यदि लाभे=एकादशमुपगते सति तच्छारदसंज्ञको योगो भवति ॥ शारदयोगफलमाह—
स्त्रीपुत्रेत्यादिना स्पष्टार्थेन ॥ १४४-१४५ ॥

राजयोगाध्यायः ॥ ७ ॥ २४६
[चक्र १ (शारदः १) : १ (लग्न), २, ३, ४ बु., ५ श. र., १०, शारदः ।]
[चक्र २ (शारदः २) : बु. (लग्न), १२ वृ., ४ चं., १० मं., शारदः ॥]
१. यदि कर्मेश पञ्चममें हो, बुध केन्द्रमें हो, अत्यन्त बलवान् सूर्य सिंह राशिका हो,
वा २. चन्द्रमासे त्रिकोणमें गुरु हो, बुधसे त्रिकोणमें मङ्गल हो, बुधसे बृहस्पति लाभमें हो
तो ये दोनों 'शारदा योग' होते हैं ॥ १४४ ॥
शारदा योगका जातक स्त्री-पुत्र-बन्धु-सुख-गुणमें अनुरक्त, राजाके प्रिय, गुरु-ब्राह्मण-
देवताका भक्त, विद्याविनोदी, कामुक, तप, तथा बलसे युत, अपने धर्ममें लीन रहनेवाले
होते हैं ॥ १४५ ॥
अथ मत्स्ययोगः ।
लग्नधर्मगते पापे पञ्चमे सदसद्युते ।
चतुरस्रं गते पापे योगोऽयं मत्स्यसंज्ञकः ॥ १४६ ॥
कालज्ञः करुणासिन्धुर्गुणधीबलरूपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ १४७ ॥
अधुना मत्स्ययोगं तत्फलञ्चाह—लग्नधर्मगत इति । लग्नधर्मगते=लग्नान्नवमे भावे ।
स्थिते कस्मिंश्चित्पापग्रहे, पञ्चमे=लग्ना-
त्पञ्चमे भावे सदसद्गतां = शुभपापग्रहा-
भ्यां युते, चतुरस्रं=लग्नात् चतुर्थेऽष्टमे
वा भावे गतवति कस्मिंश्चित्पापे सत्ययं
योगो मत्स्यसंज्ञको भवति । तत्फलं कालज्ञ
इति सरलार्थेनाह ॥ १४६-१४७ ॥
लग्नसे धर्म ९ भाव पाप ग्रहसे युक्त
हो पञ्चमभाव पापग्रह और शुभग्रहसे
युक्त हो, चौथे या आठवें पापग्रह हो तो 'मत्स्य' योग होता है ॥ १४६ ॥
[चक्र (मत्स्य योग:) : ५ रं. शु., ९ श., ८ मं., मत्स्य योग:]
मत्स्य योगका जातक कालका ज्ञाता, अत्यन्त दयालु, गुणवान्, बुद्धिमान्, रूपवान्,
यशस्वी, विद्वान्, तथा तपस्वी होता है ॥ १४७ ॥
अथ कूर्मयोगः ।
कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रंशकराशियाताः ।
तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥ १४८ ॥
विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः ।
धीरः सुखी वागुपकारकर्ता कूर्मोद्भवो मानवनायको वा ॥ १४९ ॥
इदानीं कूर्मयोगस्तत्फलञ्चोच्येते—कलत्रेति । स्वतुङ्गमित्रंशकराशियाताः=स्वकीयोच्च-

२५० सटीकजातपारिजाते-
मित्रग्रहनवांशस्वराशीनामन्यतमोपगताः
सौम्याः, कलत्रपुत्रारिगृहेषु=सप्तम-पञ्च-
म-षष्ठभावेषु स्थिता भवेयुः, मित्रोच्चसं-
स्थाः=स्वमित्रग्रहराशिषु वा व्यवस्थिता
असौम्याः=पापा यदि तृतीय-लाभोदय-
गाः=तृतीयैकादशलग्नगता भवेयुस्तदा
कूर्मयोगो भवति । तत्फलं च विख्यात-
कीर्तिरित्थनेन सरलार्थकेनोक्तमिति ॥
यदि अपने उच्चका, वा मित्रांश, वा स्वकीय राशिका शुभग्रह सप्तम, पञ्चम और षष्ठ-
गृहमें हों और पाप ग्रह तृतीय, लाभ और लग्नमें अपने मित्रगृह या उच्चमें हो तो "कूर्म"
योग होता है ॥ १४८ ॥
कूर्म योगमें उत्पन्न जातक पृथ्वीपर विख्यात कीर्तिवाला, राज-सुखका भोगी, धर्मात्मा,
सात्विक गुणवाला, धैर्यवान्, सुखी, वक्ता, परोपकारी, या मनुष्योंका नायक ( राजा )
होता है ॥ १४९ ॥
अथ खड्गयोगः ।
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
लग्नेशे केन्द्रकोणस्थे खड्गयोग इतीरितः ॥ १५० ॥
वेदार्थशास्त्रनिखिलागमतत्त्वयुक्तियुग्बुद्धिप्रतापबलवीर्यसुखानुरक्तः ।
निर्मत्सरश्च निजवीर्यमहानुभावः खड्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥१५१॥
इदानीं सरलार्थेन श्लोकेन खड्गयो-
गं, तत्फलं स्पष्टार्थमाह-भाग्येश इति ॥
यदि भाग्येश धन भावमें हो, धनेश
भाग्य राशिमें हो और लग्नेश केन्द्र या
कोणमें स्थित हो तो खड्ग योग होता है॥
इस खड्ग योगमें उत्पन्न जातक वेद
के अर्थ को जाननेवाला, सभी शास्त्रों तथा
ज्योतिष और तन्त्रोंके तत्त्वको जाननेवाला
हो । वह बुद्धि, प्रताप, बल तथा पराक्र-
मसे सुखी रहे । मत्सरता रहित और अपने पराक्रमसे श्रेष्ठ हो । खड्गयोगमें उत्पन्न पुरुष
कार्यकुशल, तथा कृतज्ञ होता है ॥ १५१ ॥
अथ लक्ष्मीयोगः ।
केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे ।
लग्नाधिपे बलान्ध्ये च लक्ष्मीयोग इतीरितः ॥ १५२ ॥
गुणाभिरामो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः ।
दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥ १५३ ॥

राजयोगाध्यायः ॥ ७ ॥ २५१
इदानीं लक्ष्मीयोगं तत्फलञ्चाह—
केन्द्र इति। भाग्येशे=नवमभावेशे, मूल-
त्रिकोणस्थे, वा परमोच्चगे सति केन्द्रे व्य-
वस्थिते, लग्नाधिपे=जन्मलग्नेशे, बला-
ढ्ये=स्थानादिवीर्य्युते च लक्ष्मीयोगः स्या-
दिति मनीषिभिरीरितः=कथितः। तथाहि-
परमोच्चगते केन्द्रे भाग्यनाथे शुभेक्षिते ।
लग्नाधिपे बलाढ्ये तु लक्ष्मीयोग इतीरितः॥
जातकादेशे ।

[कुंडली १: लक्ष्मीयोगः]

• लग्न (१): ल.
• चतुर्थ भाव (४): बृ. ५°
• नवम भाव (९): ९
• दशम भाव (१०): मं. १०
• मध्य: लक्ष्मीयोगः

एवं च—स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्यः ।
इति फलदीपिकायाम् ।
लक्ष्मीयोगस्य फलञ्च सरलार्थेन 'गुणाभिराम' इति श्लोकेनोक्तमिति ॥१५२-१५३॥
यदि भाग्येश परमोच्चमें या मूलत्रिकोणमें होकर केन्द्रमें स्थित हो और लग्नेश बलवान्
हो तो वह 'लक्ष्मीयोग' होता है ॥ १५२ ॥
इस लक्ष्मी योगमें जातक सुन्दर गुणवाला, बहुत देशका स्वामी, विद्या और कीर्तिसे
युक्त तथा कामदेवके सदृश सुन्दर रूपवाला, दश दिशाओंमें राजोंसे पूजनीय, श्रेष्ठ राजा
और बहुत स्त्री तथा पुत्रवाला होवे ॥ १५३ ॥
अथ कुसुमयोगः ।
स्थिरलग्ने भृगौ केन्द्रे त्रिकोणोन्दौ शुभेतरे ।
मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४ ॥
दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः ।
लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥१५५॥
इदानीं कुसुमयोगं तत्फलञ्चाह-स्थि-
रलग्न इति । स्थिरलग्ने=२, ५, ८, ११
एतदन्यतमराशौ व्यवस्थिते भृगौ=शुक्रे,
केन्द्रे गतवति, शुभेतरे = नवमभावरहिते,
त्रिकोणोन्दौ=त्रिकोणगतचन्द्रे, ( त्रिकोण-
शब्देन पञ्चमनवमौ भावौ गृह्येते तत्र
'शुभेतरे' इत्यनेन पञ्चमभाव एवावशिष्ट-
स्तेन चन्द्रे पञ्चमभावगते इत्यर्थः ) सौरे=
शनैश्चरे मानस्थानगते = दशमभावमुपगते

[कुंडली २: कुसुम योगः]

• लग्न (२): शु.
• द्वितीय भाव: ३
• तृतीय भाव: ४
• चतुर्थ भाव: ५
• पञ्चम भाव (६): चं.
• षष्ठ भाव: ७
• सप्तम भाव: ८
• अष्टम भाव: ९
• नवम भाव: १०
• दशम भाव (११): शः
• एकादश भाव: १२
• द्वादश भाव: १
• मध्य: कुसुम योगः ।

सति अयं योगः कुसुमः' भवेत् । तत्फलञ्च स्पष्टमेव ॥ १५४-१५५ ॥
स्थिर लग्नमें शुक्र केन्द्रमें हो, चन्द्रमा शुभतर त्रिकोणमें हो याने ५ वें भावमें हो और
शनि दशवें हो तो यह "कुसुम" योग होता है ॥ १५४ ॥
कुसुम योगमें उत्पन्न जातक दानी, राजा से पूजित, भोगी, उत्तम कुलमें उत्पन्न, राजे में
मुख्य, समस्त लोकोंमें यशस्वी, प्रतापी राजा होता है ॥ १५५ ॥
अथ पारिजातयोगः ।
विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि [तदंशनाथः ।
केन्द्रत्रिकोणोपगतो यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६ ॥

२५२ सटीकजातकपारिजाते-
मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवाजिद्युक्तः ।
स्वकर्मधर्माभिरतो दयालुर्यो गो नृपः स्याद्यदि पारिजातः ॥ १५७ ॥
इदानीं पारिजातयोगमाह-विलग्ने-
ति। विलग्ननाथो जन्मलग्नेशी यत्र स्थि-
तः स्यात्तद्राशिनाथो यस्मिन्स्थाने भवेत्तदी-
श्वरः वा तदंशनाथः = लग्ननाथस्थितरा-
शिनाथस्थनवांशपतिः । एतदुक्तं भवति ।
लग्नेशो यत्र तिष्ठति तस्य राशेरधिपतिर्य-
स्मिन् राशौ भवेत्तद्राशीशो वा लग्नेशाधि-
ष्ठितराशीशो यस्मिन्नवांशे भवेत्तन्नवांश-
पतिः केन्द्रत्रिकोणाना- (१।४।७।१०।५।९) मन्यतमे प्राप्तो यदि स्यादथवा यदि स्वतु-
ङ्गो निजोच्चराशिं गतो भवेत्तदा 'पारिजातः' योगो ज्ञेयः। यथा—अत्रोदाहृते मेषल-
ग्रेशो भौमः कर्कगतः, कर्कराशीशश्चन्द्रो दशभिरंशैर्वृषे वर्त्तते । वृषराशौ दशभिरंशैर्गुरो-
र्नवांशः। अतो नवांशेशो गुरुस्त्रिकोणे वृषराशीशः शुक्लोऽपि केन्द्रे वर्त्तते, तेन प्रकारद्वयेन
पारिजातस्य लक्षणं सङ्घटत इति । फलमपि स्पष्टमेव ॥ १५६-१५७ ॥
लग्नेश जिस राशिमें हो उस राशि का स्वामी जिस राशिमें हो उसका स्वामी वा
उसका नवांशपति यदि केन्द्र या त्रिकोणमें प्राप्त हो, अथवा अपनी उच्च राशिमें हो तो
"पारिजात" योग होता है ॥ १५६ ॥
पारिजात योगमें उत्पन्न जातक मध्य और अन्त्य अवस्था में सौख्ययुक्त, राजाओंसे
पूजित, युद्धप्रिय, हाथी-घोड़ोंसे युक्त अपने कर्म-धर्ममें रत और दयालु राजा होता है १५७
अथ कलानिधियोगः ।
द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ १५८ ॥
कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः ।
सेनातुरङ्गमद्ववारणशङ्खभेरीवाद्यान्वितो विगतरोगभयारिसङ्घः ॥ १५९ ॥
इदानीं कलानिधियोगमाह—द्वितीये
इति । बुधेन शुक्रेण च युते, वा दृष्टे, वा तयोः
बुधशुक्रयोः क्षेत्रे ( ३, ६, २, ७) सम्प्राप्ते,
जीवे = बृहस्पतौ द्वितीये वा पञ्चमे भावे व्यव-
स्थिते सति स योगः कलानिधिः ज्ञेयः । तत्फ-
लञ्च 'कामी'त्यादिश्लोकेन स्पष्टार्थेनोक्तमि-
त्यलम् ॥ १५८-१५९ ॥
यदि बृहस्पति दूसरे या पांचवें भावमें बुध और शुक्र से युक्त वा देखा जाता हो, अथ-
वा उन्हींके गृहमें प्राप्त हो तो वह 'कलानिधि योग' होता है ॥ १५८ ॥
इस कलानिधि योगमें उत्पन्न बालक कामी, सुन्दर गुणवाला, बड़े बड़े राजाओंसे
पूजित, सेना घोड़े मतवाले हाथीसे युत हो, तथा नित्य उसके यहाँ शंख और भेरी बजती
रहें। वह रोग रहित तथा शत्रुगर्णों से निर्भय रहे ॥ १५९ ॥

राजयोगाध्यायः ॥७॥ २५३
अथ अंशावतारयोगः ।
केन्द्रगौ सितदेवेज्यौ स्वोच्चे केन्द्रगतेऽर्कजे ।
चर लग्ने यदा जन्म योगोऽयमवतारजः ॥ १६० ॥
पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा ।
वेदान्तज्ञो वेदशास्त्राधिकारी जातो राजश्रीधरोंऽशावतारे ॥ १६१ ॥
अधुना अंशावतारयोगस्तत्फलञ्चोच्यते ।
सितदेवेज्यौ = शुक्रगुरू, केन्द्रगौ चरराशि-
गतौ भवेतां ( चरलग्न इत्युक्तत्वात् ),
अर्कजे = शनैश्चरे, स्वोच्चे तुलायां केन्द्रगते,
चर लग्ने = मेषकर्कतुलामकरान्यतमे राशौ
लग्ने, यदा जन्म भवेत्तदा अयं अवतारजः
योगो भवति । अस्मिन्योगे जातो नरः -
पुण्यश्लोकः, तीर्थचारी, कलाज्ञः, कामासक्तः,
कालकर्ता, जितात्मा, वेदान्तज्ञः, वेदशास्त्राधिकारी, राजश्रीधरश्च भवति ॥ १६०-१६१ ॥
यदि शुक्र और बृहस्पति केन्द्रमें हों, शनैश्चर अपने उच्च का होकर केन्द्रमें स्थित हो
और चर लग्नमें जन्म हो तो यह 'अवतार' योग कहा जाता है ॥ १६० ॥
अंशावतार योग में उत्पन्न जातक पुण्यचरित्रवाला, तीर्थसेवी, कलाविद्, काममें
आसक्त, सामयिक, जितेन्द्रिय, वेदके तत्त्वको जाननेवाला, वेद और शास्त्र का अधिकारी
और राज्यश्रीवाला पुरुष होता है ॥ १६१ ॥
अथ हरि-हर-विधियोगाः ।
वित्तेशाद्धनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः,
कामेशान् सुखभाग्यरन्ध्रगृहगा जीवार्जचन्द्रात्मजाः ।
देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः
प्रोक्तास्तत्र पुरातनैर्हरिहरब्रह्माख्ययोगा इमे ॥ १६२ ॥
निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः ।
जितरिपुकुलसङ्घः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा १६३
इदानीं हरिहरब्रह्मयोगान् तत्फलानि चाह—वित्तेशादिति । हरियोगः-वित्तेशात् =
द्वितीयभावपतेः सकाशात्, धनरिःफरन्ध्रभवनप्राप्ताः = द्वितीय-द्वादश-अष्टमभावानुपगताः,
सौम्यग्रहाः = शुभग्रहाः ( यथासम्भवम् ) भवेयुस्तदा हरियोगः ।
हरयोगः-कामेशात् = सप्तमभावेशात् , १. हरियोगोदाहरणम् ।
सुखभाग्यरन्ध्रगृहगाः = चतुर्थ-नवम-अष्टमभा-
वगताः, जीवार्जचन्द्रात्मजाः = गुरुचन्द्रबुधा
भवेयुस्तदा हरयोगः ।
ब्रह्मयोगः-देहेशात् = जन्मलग्नेशात् ,
बन्धुमानभवगाः = चतुर्थदशमैकादशभावग-
ता यदि सूर्यास्फुजिद्भूमिजाः = सूर्यशुक्रमौमा
भवेयुस्तदा ब्रह्माख्यः (ब्रह्म) योगः । पुरात-
नैर्वृद्धैर्मनीषिभिः इमे त्रयो योगाः प्रोक्ता इति ।
उक्तयोगत्रयस्य फलानि सरलार्थकानि चेति ॥ १६२-१६३ ॥
२२ जा० २३ ज०

२४४ सटीकजातकपारिजाते-
२. हरयोगोदाहरणम् । ३. विधियोगोदाहरणम् ।
द्वितीयेशसे २।१२।८ स्थानोंमें शुभग्रह हों तो 'हरि' योग होता है ।
सप्तमेशसे ४।९।८ स्थानोंमें यथा सम्भव गुरु, चन्द्रमा और बुध हों तो 'हर' योग होता है ।
लग्नेशसे ४।१०।११ स्थानोंमें यथा सम्भव सूर्य, शुक्र और मन्द हों तो 'ब्रह्म' योग
होता है ऐसा प्राचीन आचार्यों ने कहा है । ( सु० ज्ञा० कार ) ॥ १६२ ॥
इन तीनों हरि-हर तथा विधि योगोंमें उत्पन्न हुआ जातक सभी शास्त्रों को जाननेवाला
सत्यवादी, सकल सुखका भोगी, प्रियवादी, कामशील, सब शत्रुओंको जीतनेवाला, सब
जीवोंका उपकारकर्ता तथा पुण्य कर्म करनेवाला होता है ॥ १६३ ॥
अथ नाभसयोगाः।
यूपेषुशक्तियवदण्डगदासमुद्रच्छत्राद्र्धचन्द्रशकटाम्बुजपक्तियोगाः ।
नौचक्रवज्रहलकार्मुककूटवापीशृङ्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥ १६

राजयोगाध्यायः ॥७॥ २५५
योगानाश्रयजान् सत्याचार्यो जगाद। अत्रैतदुक्तं भवति। एकस्मिन् चरराशौ, द्वयोर्वा
वा चतुर्षु चरराशिषु यदा सर्वे ग्रहा भवेयुर्न स्थिरे द्वन्द्वे च कश्चिद् ग्रहः स्यात्तदा रज्जुः
योगः। एकस्मिन् द्वयोस्त्रिषु वा चतुर्षु स्थिरराशिषु सर्वे ग्रहाः स्युर्न कश्चिचरे द्वन्द्वे च
भवेत्तदा मुसलः योगः। एवं द्विस्वभावेऽपि सर्वैः ग्रहैः नलो योगो ज्ञेयः। उक्तञ्च—
एको द्वौ वा त्रयः सर्वे चरा युक्ता यदा ग्रहैः। चरयोगस्तदा रज्जुः दुःखिनां जन्मदो भवेत्॥
स्थिराश्चेन्मुसले नाम मानिनां जन्मकृन्नृणाम्। द्विस्वभावो नलाख्यस्तु धनिनां परिकीर्तितः॥ इति।
दलयोगावाह—केन्द्रैरिति। यदि शुभग्रहाः केन्द्रेषु भवेयुर्न कश्चित्पापः केन्द्रवर्ती
स्यात्तदा स्रक् ( माला ) योगो भवति। यदि पापग्रहाः केन्द्रेषु भवेयुर्न कश्चिच्छुभः केन्द्र-
गस्तदा सर्पयोगो ज्ञेयः इति स्रक्सर्पौ योगौ पराशरेण कथितौ।
Notes—चन्द्रो हि शुक्लकृष्णपक्षभेदेन शुभत्वं पापत्वं चाप्नोति। तेन शुक्ले
सचन्द्रा बुधगुरुशुक्राश्चतुर्षु केन्द्रेषु शुभा इति। कृष्णे सचन्द्रा भौमरविशनयश्चत्वारः पापा-
श्चतुर्षु केन्द्रेषु भवेयुरन्यथा त्रयः शुभाः पापाश्च त्रिषु केन्द्रेष्विति विवेचनीयमिति ॥ १६६ ॥

सभी ग्रह चर राशिमें हों तो रज्जु
योग होता है। सभी ग्रह स्थिर राशिमें
हों तो "मुसल" योग होता है और सभी
ग्रह द्विस्वभाव राशिमें हों तो "नल"
योग होता है। ये तीन आश्रयज योग
सत्याचार्य कहे हैं। स्रक् और सर्प ये
दलयोग दो प्रकारके होते हैं। सब शुभ-
ग्रह केन्द्रमें हों पापग्रह केन्द्रमें न हों तो
"माला" योग होता है। केन्द्रमें सब
पापग्रह हों केन्द्रमें शुभग्रह न हों तो "सर्प" योग होता है। ऐसा पराशर ने कहा है॥ १६६॥

१. रज्जुयोगोदाहरणम्।

\   उ.सू. १।गु.बु.  /

वृ. ४ चं.  >             <  मं. १० श.

२. मुसलयोगोदाहरणम्।

| शु.बु.र.      |     १ ड.      |     वं.       |
|    ३          |               |     ११        |

|       २       |               |      १०       |

|  ५।गु.मं.     |     व. ८      |               |

३. नलयोगोदाहरणम्।

|     ल.        |       १       |      १२       |
|     गु.       |               |               |

|               |       ३       |      वृ.मं.   |
|               |               |       ९       |

|               |    चं.श. ६    |               |

४. स्रक-योगोदाहरणम्।

\        बु.        /

श.      \               /      शु.

गु.     /               \      वृ.

/        चं.        \
मं.                 १२

५. सर्पयोगोदाहरणम्।

च.    \        श.         /    वृ.

मं. के.  \               /      रा.

/       सू.       \
बु.   /                   \    शु.

18