सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१९ ऋतुचर्याध्यायः ] हस्त्यायुर्वेदः । ६४६
भोजनार्थेऽन्नपानार्थे कार्याः कायाग्निदीपनाः ॥
*(विशेषोऽहनि शीते च वर्षवाताकुले भृशम् ॥ ८८ ॥
व्यक्ताम्लस्नेहलवणं भोज्यं स्यादनिलापहम् ॥
स्थलजं यवसं चैव द्विरदानां घनागमे ॥ ८९ ॥'
स्थानानि विगतस्वेदनिष्यन्दानि च कारयेत् ॥
धूमश्च दंशनाशार्थं कार्यः स्थानेषु दन्तिनाम् ॥ ९० ॥
प्रसन्नां सगुडव्योषां सतैलां प्रतिपादयेत् ॥
नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ९१ ॥
उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ॥
वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ ९२ ॥
बस्तिकर्म च नागेभ्यो वर्षासु नियतं हितम् ॥
ऋतुश्च विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥
तस्मादवसथुद्धयर्थं दीपं स्थानेषु कारयेत् ॥
शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥
संपचत्योषधीः सर्वाः फलमन्तानि(?) यानि च ॥
तीक्ष्णातपत्त्वाच्च रवेर्भूमिपाकं नियच्छति ॥ ९५ ॥
प्रकुप्यति च नागानां सूर्याथुपरितापितम् ॥
जगत्तु ताभिः शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥
तस्मात्तत्रापि लवणो रसो वृद्धिं नियच्छति ॥
प्रकुप्यति च नागानां पित्तं शाम्यति चानिलः ॥ ९७ ॥
तत्रापि यवगोधूमाः(?) †शाल्यन्नानि प्रदापयेत् ॥
गुडसर्पिर्विमिश्राणि पित्तकोपहितानि च ॥ ९८ ॥
शशानां हरिणानां च रसैर्मधुरतिक्तकैः ॥ )
विशेषार्थे तदा कार्यों दन्तिनां पित्तशान्तये ॥ ९९ ॥
स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा ॥
शस्यकालौ भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥
पूर्वस्निग्धशरीराणां शस्यारम्भो विधीयते ॥
संनाराः षष्टिका व्रीहिशालयः कङ्गुवोऽपि वा ॥ १ ॥
यावेक्षाऽऽर्द्रफलास्तावद्धस्तिभ्यः पुष्टये हिताः ॥
पुष्पिताः फलिताश्चापि मुद्गमाषमकुष्ठकाः ॥ २ ॥

  • धनुश्चिह्नान्तर्गतपाठः कघपुस्तकयोर्नास्ति । † 'गोधूमशाल्य' इति भवेत् ।
    १ क. ॰वदार्द्र॰ ।
    ८२

यवसार्थं प्रशस्यन्ते पावनं कठिनं फलम् ।
गोधूमः कठिनफलो मिश्रं देयो यवोऽपि वा ॥ ३ ॥
पुष्पितो रक्तजननः फलितो मांसवर्धनः ॥
अनूपजलजं मांसं वसा मेदो घृतं तथा ॥ ४ ॥
माहिषं च दधि क्षीरं तैलोष्णे चावमर्दयेत् ॥
घृतं क्षीरं यवाः शालीर्मांसानि मधुराणि च ॥ १०५ ॥
अतो यस्मिन्प्रशस्तानि दन्तिनां जलदात्यये ॥
शर्करं (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥
दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥
ग्रीष्मवच्चावगाहश्च कार्यः शरदि दन्तिनाम् ॥ ७ ॥
सूर्याशुपरितप्तानां चन्द्रेणाऽऽप्यायितानि च ॥
आगस्त्योदययुक्तानि निर्विषाणि शुचीनि च ॥ ८ ॥
निर्मलानि निपानेषु जलान्यमृतवत्तदा ॥
पानावगाहे करिणां प्रशस्तानि विशेषतः* ॥ ९ ॥
(†भोजनार्थे प्रदातव्यं जाङ्गलानूपमिश्रितम्) ॥
पूर्वाह्ने वाऽपराह्ने वा द्वौ कालो तत्र बुद्धिमान् ॥ ११० ॥
प्रचारयन्गजभागानरण्येषु विभागवित् ॥
काशपुष्पपटीं शुभ्रां तदावि(चि)त्रितनिम्नगाम् ॥ ११ ॥
परिपक्वतृणां चैव धरणीं तत्र शालिनाम् ॥
कमलोत्पलकह्लारजातां गन्धवहस्तदा ॥ १२ ॥
मारुतः सुखसंस्पर्शो वाति शीतांशुशीतलः ॥
विचित्राणि स्वादवन्ति तृणानि सलिलानि च ॥ १३ ॥
शरद्गुणैः सुमनसो भवन्ति करिणस्तदा ॥
काले तु प्रतिकुर्वीत हस्तिनां दन्तकल्पनम् ॥ १४ ॥
स्वातिसंपातयोगे च काले नीराजनास्तदा ॥
राज्ञश्च यात्राकालोऽयं शस्तः कर्मसु दन्तिनाम् ॥ ११५ ॥


  • क-घपुस्तकयोस्तु—एतदुत्तरमेव 'विशेषोऽहनि' इत्यारभ्य 'रसैर्मधुरतिक्तकैः'
    इत्यन्तो धनुश्चिह्नान्तर्गतपाठ उपलभ्यते ॥
    † धनुश्चिह्नान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र 'भोजनार्थे' इत्येव 'रसै-
    र्मधुरतिक्तकैः' इत्युत्तरमुपलभ्यते ॥

१९ ऋतुचर्याध्यायः ] हस्त्यायुर्वेदः । ६५१
ऋतुसाम्यमिदं प्रोक्तं चेष्टाहारव्यपाश्रयम् ॥
हिताहितविधानार्थं करिणां स्वच्छवृत्तकम् ॥ १६ ॥
चिकित्सायाः स्वच्छवृत्तिं स नित्यं हि चिकित्सितम् ॥
संवेशोत्थानयोः सम्यगवगाहे च दन्तिनाम् ॥ १७ ॥
यथाकालं समुद्देशं पालकाप्योऽब्रवीत्पुनः ॥
पूर्वाह्णे वाऽपराह्णे वा सर्वर्तुषु च पार्थिव ॥ १८ ॥
अनेन विधिना नागमवगाहनमानयेत् ॥
गच्छन्तं हारयेत्पांशुं वीथीमार्गेष्वनेकपम् ॥ १९ ॥
पङ्कं वा हारयेदेनं वमं च प्रतिषेधयेत् ॥
अवगाह्य प्रवातं च कर्णादूने समे जले ॥ १२० ॥
विशेषमात्रे मातङ्गो तोये प्रतिनिषादयेत् ॥
ततः संपच्य तैलेन तत्रैनं प्रतिघर्षयेत् ॥ २१ ॥
अवसिच्यावसिच्याद्भिरथैनमनुवर्तयेत् ॥
उभाभ्यामनुवृत्तं च पक्षाभ्यां वा मतङ्गजम् ॥ २२ ॥
कर्णौ यावत्समेतानि पुनः समवगाहयेत् ॥
( *आरक्षितानि शिरसि प्रक्षाल्यास्य प्रपीड्य च ॥ २३ ॥
प्रकामे(मं) तापयित्वा तु निवृत्तं स्थानमानयेत् ॥
आगतस्य च नागस्य मत्तस्य च विशेषतः ॥ २४ ॥
निर्वाणस्योपचारोऽयं सर्वेष्वृतुषु कीर्तितः ॥
ग्रीष्मे प्रागुदयान्नागमवगाहाय योजयेत् ॥ १२५ ॥
छायायां (च) द्विपौरुष्यां सीदन्तमवगाहयेत् ॥ )
• माध्यंदिने तु शालास्थं पाययेदुद्धृतोदकम् ॥ २६ ॥
इति ग्रीष्मविधिः प्रोक्तो वार्षिकः संप्रवक्ष्यते ॥
तस्याभ्युदितमात्रे तु सूर्ये वर्षासु बुद्धिमान् ॥ २७ ॥
निर्वापणाय नागानां कुर्यात्पूर्वाह्निकं हितम् ॥
पुनर्निर्वृत्तिमात्राहे (?) ¹हितं वर्षासु हस्तिनाम् ॥ २८ ॥
ऋतुसंधिषु सर्वेषु मृत्तिकाया निवारणम् ॥
गोमूत्रं पाययेन्नागं हस्ते शङ्कुं च बन्धयेत् ॥ २९ ॥


  • धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।

१ क. हस्तिनामृतुसंधिषु ॥ हितं वर्षं च सर्वेषु ।

१६२ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने-
मृत्तिकाभक्षणा*पन्नाद्रक्षा वर्षासु हस्तिनाम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि हेमन्ते विधिमुत्तमम् ॥ ३० ॥
मन्दीभूते पुनः शीते युगमात्रगते रवौ ॥
धू(पो)ऽह्निकोऽवगाहस्तु वारणानां हिमागमे ॥ ३१ ॥
त्रिभागशेषदिवसे त्वपराह्वेऽवगाहयेत् ॥
हेमन्ते वारणं 'तोये तथैव परिघर्षयेत् ॥ ३२ ॥
पूर्वाह्ने चाऽऽतपे †पांशुर्यथाकर्म हरेद्बुधः ॥
अवगाह्य च तोये तं क्षिप्रमुत्तारयेद्गजम् ॥ ३३ ॥
अत्यर्थं शिशिरे काले पौषे मासेऽथ वारणम् ॥
सिक्तैर्द्वैरिकतैलेन त्र्यहान्ते वाऽवगाहयेत् ॥ ३४ ॥
छविः प्रसन्ना भवति शीतं चैनं न बाधते ॥
व्रणाश्चाप्युपरोहन्ति यूका कण्डूश्च नश्यति ॥ १३५ ॥
[L

१६ कार्याकार्यविध्यध्यायः ] हस्त्यायुर्वेदः । ३६३
कषायं लवणं चैव निर्मलं च हितं भवेत् ॥
निर्दोषाणामलाभे तु यथालाभं पिबेज्जलम् ॥ ४४ ॥
जलावरोधान्निपते संमोहं वा नियच्छति ॥
तस्मात्सर्वास्ववस्थासु पानीयं न निवारयेत् ॥ ४५ ॥
अवगाहविधिश्चैव जलदोषाश्च कीर्तिताः ॥
शयनोत्थानकाण्डानां वक्ष्यते विधिरुत्तमः ॥ ४६ ॥
भुक्तवन्तं प्रतिच्छन्नं यवसेन तु वारणम् ॥
ग्रीष्मे संवेशयेद्रात्रौ गते त्वष्टार्धनाडिके ॥ ४७ ॥
शेषे षड्नालिके वाऽपि द्विपक्षशयनं गजम् ॥
नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्मृतः ॥ ४८ ॥
संवेशयेत्तु वर्षासु रात्रौ षड्नालिके गते ॥
यथोक्तेनैव विधिना भुक्तवन्तं त्वनेकपम् ॥ ४९ ॥
अष्टभागिकशेषायां स्थानं प्रति नयेद्गजम् ॥
इति संवेशनोत्थाने वर्षाकाले प्रकीर्तिते ॥ ५० ॥
हेमन्तकाले तु पुनर्यथोक्तमशितं गजम् ॥
संवेशयेद्गजं रात्रावतिक्रान्तेष्टनालिके ॥ ५१ ॥
उभाभ्यामपि पक्षाभ्यामनुवृत्तमनेकपम् ॥
पुनः प्रतिनयेत्स्थानं शेषे तु दशनालिके ॥ ५२ ॥
दिनानां दीर्घह्रस्वत्वं विज्ञाय क्रमशो भिषक् ॥
यथोक्तक्रमतस्तेषां वर्धयेद्वा स भोजनम् ॥ ५३ ॥
शयनोत्थानशालानामित्ययं कीर्तितो विधिः ॥
निर्वाणं शयनं चैव सर्वर्तुषु च कीर्तितः (?) ॥ ५४ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थान
ऋतुचर्याध्यायः पञ्चदशः ॥ १५ ॥
अथ षोडशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कार्याकार्यविधिं कृत्स्नं भगवन्वक्तुमर्हसि ॥ १ ॥
कस्मान्न दीयते तोयं भुक्तमात्राय दन्तिने ॥
कस्माच्चास्पात्कृता न स्यात्तथा कर्म विधीयते ॥ २ ॥
१ ख. °डूनाडिके ।

३८४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
उपस्थिते मदे वाऽपि प्रभिन्ने वाऽपि कुञ्जरे ॥
कस्मात्स्नेहो विरेको वा न देयस्तु महामुने ॥ ३ ॥
कस्मादुभयतः स्नेहो मुखतः पृष्ठतोऽपि च ।
न प्रदीयेत युगपन्मार्गेभ्यो द्विजसत्तम ॥ ४ ॥
कस्माच्च भोजितायाऽऽज्यस्नेहबस्तिः प्रदीयते ।
निरूहो भोजिते वाऽपि कस्मान्नेव प्रदीयते ॥ ५ ॥
कस्मात्पीतवते तोयं पश्चाद्भक्तं प्रदीयते ॥
कस्माच्च शून्यकोष्ठाय स्नेहबस्तिर्न दीयते ॥ ६ ॥
प्रत्युद्गतस्य नागस्य कस्माच्छिण्डं न शोध्यते ॥
*(आरोग्ये(गे) व्याधिते नाथ समं कस्मान्न बाध्यते ॥ ७ ॥
कस्मान्न हस्तिवैद्येन चिकित्स्यः पुरुषः स्मृतः ॥
कस्मात्तु नरवैद्येन न चिकित्स्यो मतङ्गजः ॥ ८ ॥
कस्माद्दन्तनिवृत्ताय न देयो मोदको द्विज ॥
प्रतिपानं यथा तच्च यथायोगं प्रदीयते ॥ ९ ॥
कस्माच्च हस्तिशालायां नखरोम न कल्पयेत् ॥
कथं नीराजिताः सन्तो न निर्वाप्यास्तु कुञ्जराः ॥ १० ॥
कस्माच्चैव दिवास्वप्नं न प्रशंसन्ति दन्तिनाम् ॥
प्रतिपानौषधानां च ब्रूहि कालमशेषतः ॥ ११ ॥
स्नानस्य चापि यः कालो भक्तस्य यवसस्य च ॥
युक्त्या प्रतिनयं ब्रूहि यथा वाऽभिनयं मुने ॥ १२ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
कार्याकार्यविधिं सर्वं हेतुभिः संप्रदर्शयेत् ॥ १३ ॥
भोजयित्वाऽथ मातङ्गं मोहाद्यः पाययेज्जलम् ॥
विषमं पच्यते भुक्तं स भवत्युत्तरोदकः ॥ १४ ॥
न चात्र समानः सम्यग्भुक्तं चास्य न जीर्यते ॥
तस्मात्करिणे भुक्तवंते पानीयं न विधीयते ॥ १५ ॥

  • धनुश्चिह्नान्तरगतपाठः खपुस्तके पालकाप्योत्तरवाक्ये, पालकाप्योत्तरवाक्यं
    'तस्मात्कर्मप्रयुक्ते तु' इत्यादिः 'व्याधितं परिवर्जयेत्' इत्यन्तः पाठोऽत्र राजप्रश्न-
    वाक्य उपलभ्यते ॥
    : १ क. °स्थितम्° ।

१६ कार्याकार्यविध्यध्यायः ] हस्त्यायुर्वेदः । ३८५
अजस्रं भक्षयन्त्येते शीतसात्म्या महाग्रयः ॥
यस्माद्भुक्तवतः स्नेहो दुःखं पच्येत विप्लुतः ॥ १६ ॥
तस्मादुदकपूर्वं तु सुखं भुक्तं न जीर्यते ॥
पूर्वं पानीयपीतस्य भक्तभुक्तस्य दन्तिनः ॥ १७ ॥
नस्यकर्म प्रयुङ्क्ते यस्तस्य तोयपरिप्लुतः ॥
मूर्च्छां वा नयति स्नेहो अ(ह्य)तीसारमरोचकम् ॥ १८ ॥
व्याप्रादं वा पुनर्घोरं मिथ्याकर्मप्रयोगतः ॥
तस्मादभुक्तवत्येव नस्यकर्म विधीयते ॥ १९ ॥
विधानं तस्य कात्स्न्येन नै*स्यदानं प्रकीर्त्यते ॥
विश्लेषं संघयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥
तस्मात्कर्मप्रयुक्ते तु न विरेको विधीयते ॥
तेजसो हि समावेशान्मदः संजायते गजे ॥ २१ ॥
तैजसं नस्यमप्युक्तमतस्तं नावचारयेत् ॥
यथा हि भवने दीप्ते सर्पिषा परिषेचनम् ॥ २२ ॥
भवेदाशु प्रदाहाय नियतं तस्य वेश्मनः ॥
एवमेव प्रभिन्नस्य कुञ्जरस्य महीपते ॥ २३ ॥
तैलावचारणाद्दोषो हेतुभिः संप्रदर्शितः ॥
यत एवं विकारार्थं ततः स्नेहो न युज्यते ॥ २४ ॥
तैलसर्पिर्विरेकाणां मत्तेनैवावचारणम् ॥
प्रभिन्नः सर्वसेकेन मूर्छां प्राप्नोति दारुणाम् ॥ २५ ॥
शिरोऽभितापं लभते दृष्टिश्चांस्योपहन्यते ॥
तस्मात्प्रभिन्ने मातङ्गे नाभ्यङ्गस्तु विधीयते ॥ २६ ॥
न सर्पिषा न तैलेन नित्यमेव विधीयले ॥
अपाने मुक्ततश्चैव युगपद्यदि दीयते ॥ २७ ॥
स्नेहः स्नेहेन सङ्गत्य परिणामं न गच्छति ॥
आनाहो वाऽतिसारो वा मूर्छा वाऽस्योपजायते ॥ २८ ॥
यस्मात्तस्मादुभयतो न स्नेहो दीयते नृप ॥
अभुक्तवान्भिरुल्लेत भुक्तवांश्च निराकृतः ॥ २९ ॥

  • 'नस्यदाने' इति भवेत् ।

५६६ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
भुक्त्वांश्चानुवासयेत तस्मान्नाभुक्तवान्गजः ॥
बस्तिसिद्धौ मया पूर्वमेतत्सिद्धमशेषतः ॥ ३० ॥
कीर्तितं क्रमयोगेन हेतुभिः स्पष्टलक्षणैः ॥
स्वकरीषे च वसतिः कार्या भवति दन्तिनाम् ॥ ३१ ॥
विवर्जयन्ति रक्षांसि ग्रहाः परिहरन्ति च ॥
अभिचारो न भवति मनो न प्रतिहन्यते ॥ ३२ ॥
व्याधयश्च प्रशाम्यन्ति नोद्विजन्ते च कुञ्जराः ॥
तस्मादस्तमिते सूर्ये रक्षार्थं मनुजाधिप ॥ ३३ ॥
प्रत्युद्गतानां नागानां न लिण्डमपकृष्यते ॥
व्याधितं चाप्यरोगं वा नैकस्थाने निवेशयेत् ॥ ३४ ॥
रोगसंलेपनभयाद्व्याधितं परिवर्जयेत् ॥
मनुष्यवैद्यो नागानां चिकित्सां न प्रयोजयेत् ॥ ३५ ॥
हस्तिवैद्यो मनुष्याणामतो हेतोर्नराधिप ॥
अन्नसात्म्या हि पुरुषास्तृणसात्म्या मतङ्गजाः ॥ ३६ ॥
मात्राप्रकृतिसात्म्यानां (*विशेषाच्चापि पार्थिव ॥
यस्माच्छास्त्राणि च पृथङ्नराणां दन्तिनामिह ॥ ३७॥
तस्मान्नागभिषङ्नागांश्चिकित्सेन्ना भिषङ्नरान् ॥
क्षीरमेदकमद्यानां) तथा सौवीरकस्य च ॥
अनिर्वृत्ता च नागानां प्रातः पानं विधीयते ॥ ३९ ॥
क्षीरादीनि महीपाल तोयं पीत्वा पिबेद्यदि ॥
कोपयन्ति कफं पश्चात् पीतान्येतानि दन्तिनः ॥ ४० ॥
श्लेष्मणा हृदयं तस्य कुञ्जरस्य प्रपीड्यते ॥
नाभिनन्दति चाऽऽहारं भुक्तं चापि न पच्यते ॥ ४१ ॥
कृमिकोष्ठी भवत्येवं मृत्तिकां चाभिनन्दति ॥
यस्मात्तस्माद्गजेभ्यस्तु प्रातः क्षीरादि दीयते ॥ ४२ ॥
ऐरावणादयो राजन्कीर्तिता ये दिशां गजाः ॥
तस्मात्प्रसूतिर्नागानां विद्धीमानिह वारणान् ॥ ४३ ॥
यस्माच्च देवहस्तिभ्यः प्रसूता वारणा नृप ॥
तस्माद्रजोपकरणं वारणानां महीपते ॥ ४४ ॥

✲ धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ।

१ ख. ग. कथं ।

१६ कार्याकार्यविध्यध्यायः ] हस्तिआयुर्वेदः । ६५७
अशुचिर्न स्पृशेत्कश्चिन्न वा रोहेन्मतङ्गजम् ॥
शुचिना तु सुखं वृद्धिं पुष्टिं च लभते सदा ॥ ४५ ॥
अनेनैव विशेषेण वारणानां महीपते ॥
शालासु *मुखवालानां कल्पनं न विधीयते ॥ ४६ ॥
पीडा भवति नागानां तस्मात्तत्र न कल्पयेत् ॥
षण्मासोंर्ध्वर्धते रात्रिः षण्मासोत्परिहीयते ॥ ४७ ॥
क्षयं वृद्धिं विभज्याथ स्वापयेच्च मतङ्गजम् ॥
दिवास्वप्रस्तु नागानां दोषकोपाद्यतः पुनः ॥ ४८ ॥
प्रतिषिद्धो दिवास्वप्रस्तस्मात्तु नृपपुङ्गव ॥
द्वात्रिंशन्नाडिका रात्रिर्दिवसश्च समो यदा ॥' ४९ ॥
तदा त्रिंशतिमे चैव नालिकं (?) स्वापयेद्गजम् ॥
सेवतां तु दिवा स्वप्नेषां श्लेष्मा प्रकुप्यति ॥ ५० ॥
शातार्त्तचुक्ष (?) नागानामतः स्वप्नो दिवा हितः ॥
प्रतिपानौषधादीनि पूर्वाह्ने भोजनानि वै ॥ ५१ ॥
स्नातस्य भक्तं पूर्वाह्ने सायाह्ने च तथाऽपरम् ॥
कृतमङ्गलशौचाश्च कृतस्वस्त्ययनक्रियाः ॥ ५२ ॥
नीराजनविधौ नागाः फाल्गुनाषाढकार्तिकैः ॥
समास्तेषु यथा प्रोक्ता इति राज्ञो घनाः स्मृताः ॥ ५३ ॥
नीराजीतानां स्नानं च गजानां न विधीयते ॥
अतो निर्वसतीकल्पस्तत्र पुण्यो विधिः स्मृतः ॥ ५४ ॥
शान्तिस्वस्त्ययनादीनि नित्यं कार्याणि हस्तिनाम् ॥
बालवृद्धातुराणां च क्षीणानां च विशेषतः ॥ ५५ ॥
कर्तव्यो हस्तिनां सम्यग्दयापूर्वमनुग्रहः ॥
रक्षिता वारणा राज्ञां भवन्ति विजयावहाः ॥ ५६ ॥
यावतः सुधृतॉन्कुर्याद्वारणान्सर्वकामतः ॥
तावतः पृथिवीपाल वारणांग्राहयेद्धितान् ॥ ५७ ॥

  • 'नखवालानां' इत्येव युक्तम् । 'कस्माच्च हस्तिशालायां नखरोम न कल्पयेत्'
    इतिप्रश्नानुकूल्येनैवोत्तरस्य वक्तव्यत्वात् ।
    १ क. ॰सान्वर्ध॰ । २ क. ॰सान्परि॰ । ३ क. यदि । ४ क. ॰तान्कृ-
    त्वा वार॰ ।
    ८३.

६५८ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
( ✱ रक्षिता वारणा राज्ञो भवन्ति विजयावहाः ) ॥
वहन्ति चैवं सुमीताः सततं पुरुषेश्वरान् ॥ ५८ ॥
इति श्रीपालकाप्ये गआयुर्वेदे महाप्रवचन उत्तरस्थाने
कार्याकार्यविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥
अथ सप्तदशोऽध्यायः ।
देवराजप्रतीकाशः पप्रच्छाङ्गो नराधिपः ॥
पालकाप्यमुपासीनं वेदविद्याविशारदम् ॥ १ ॥
प्रदक्षिणमभिक्रम्य पादानतकृताञ्जलिः ॥
भोजनेऽप्यथवा घासे पाने वोऽथ गुणान्मति ॥ २ ॥
संशयं ब्रूहि तत्त्वेन भगवन्मे प्रसीदत ॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
निखिलेनैव ते सर्वं व्याख्यास्याम्यनुपूर्वशः ॥
श्रूयतां मनुजाधीश यन्मां त्वं परिपृच्छसि ॥ ४ ॥
भोजनस्यानुपानस्य यथर्तुगुणसंपदः ॥
लवणं पाचयेद्रक्तमुदकं क्लेदयत्यपि ॥ ५ ॥
प्रीणनं प्राणजननं रसाश्रं शोषकृद्दधि ॥
क्षीरं जीवयति श्रीमन्मांसं बृंहयति द्विपम् ॥ ६ ॥
सर्पिस्तु स्नेहनं चायं (?) क्षौद्रं शोधनमुच्यते ॥
संस्कृतो दीपनं क्षीरं तैलं वातहरं भवेत् ॥ ७ ॥
संवर्धनश्च धातूनां मेदकः प्राणवर्धनः ॥
वसा वर्धयति प्राणान्मेदो बृंहणमेव च ॥ ८ ॥
मदिरा दीपयत्यग्निं श्रमघ्ना च नराधिप ॥
यवसेन विचित्रेण मृदुना हरितेन च ॥ ९ ॥
यथर्तु चोपयुक्तेन बलं तेजश्च वर्धते ॥
भोजनं गुणसंपन्नं यथोक्तं प्राणधारणम् ॥ १० ॥
बलसंजननं चैव धातूनां च विवर्धनम् ॥
भोजने खादने चैवमित्येते गुणसंग्रहाः ॥ ११ ॥
✱ धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
१ क. भवन्ति । २ क. वाऽस्य । ३ क. प्रसादय । ४ क. संस्कृतोद्दीपनं ।

१८ सौवीरकपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६९
वारणानां यथाकालं पच्यन्ते मनुजाधिप ॥
ऋतुं वयः प्रमाणं च ग्रहण्याश्च बलाबलम् ॥ १२ ॥
देशं कालं च विज्ञाय ततः कुर्याच्चिकित्सितम् ॥
इत्येते विहिता राजनन्नपानस्य वै गुणाः ॥ १३ ॥
पालकाप्येन मुनिना विनिश्चित्य यथातथम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थानेऽ-
न्नपानगुणाधिकारो नाम सप्तदशोऽध्यायः ॥ १७ ॥
────────
अथाष्टादशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
सौवीरकस्तु यः प्रोक्तो जानीयां सति तत्कथम् ॥ १ ॥
कथं वा सेचनं तस्य पालकाप्यस्ततोऽब्रवीत् ॥
शिरस्स्नातोऽनुलिप्ताङ्गः शुक्लवासाः समाहितः ॥ २ ॥
पूजां प्रपूज्य देवेभ्यः स्वस्ति वाच्य द्विजानपि ॥
तदर्थं साधयेदम्लं विमलं शृङ्गनादिकम् ॥ ३ ॥
आढकानां चतुःषष्टि (?) पुराणघृतभाजने ॥
वचां विडङ्गं पिप्पल्यो मुद्रान्ध्र मरिचानि च ॥ ४ ॥
शृङ्गवेरं मधुरसा पिप्पलीमूलमेव च ॥
उभे हरिद्रे कुष्ठं च मञ्जिष्ठा रोहिणी तथा ॥ ५ ॥
मधुकं लोध्रमित्येषामेकैकस्य विचक्षणः ॥
पलान्यर्धचतुर्थानि कुर्याद्वारपमत्र (?) वा ॥ ६ ॥
भल्लातकानां पञ्चाशदभयानां शतं तथा ॥
शालजम्बूपलाशस्य प्लक्षस्य वरणस्य च ॥ ७ ॥
करञ्जस्य मधूकस्य सर्जस्य कुटजस्य च ॥
खदिरस्याश्वकर्णस्य यवस्यांऽऽम्रातकस्य च ॥ ८ ॥
बिभीतकस्य निम्बस्य कृतमालस्य च त्वचः ॥
ग्र(गु)डूची कोविदारस्य सप्तपर्णस्य च त्वचः ॥ ९ ॥
उदुम्बरत्वचा सार्धं मुष्ककत्वक्तथैव च ॥
एकैकस्य त्वचो भागं पलानि दश कल्पयेत् ॥ १० ॥

६६० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
एतेन्मासरसियुतं प्रातः पानमध्ये प्रदापयेत् ॥
अर्धाढकीयं द्रोणं तु प्रमाणं परिकल्पितम् ॥ ११ ॥
एवं भक्ते च नागेभ्यो दद्याद्वै कुशलो भिषक् ॥
कृमिकोष्ठे वातगुल्मे मन्दाग्नौ दन्तिनां तथा ॥ १२ ॥
दापयेदन्तरायामे रोगेषु कफजेषु च ॥
सम्यक्सौवीरके दत्तो विधिं विज्ञाय तत्त्वतः ॥ १३ ॥
ठ्याधिं च शमयत्याशु बलं धातुश्च वर्धते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ १४ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने सौवीरक-
पानविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥
अथैकोनविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कथं प्रयोगकालेषु नागेभ्यो दीयते कथम् ॥ १ ॥
कथं हि कृतकर्मभ्यः पोतेभ्यश्च कथं सुरा ॥
स्थूलेभ्यश्च कृशेभ्यश्च मत्तेभ्यश्च प्रदीयते ॥ २ ॥
का च मद्यस्य संज्ञा वै वृद्धेभ्यो दीयते कथम् ॥
का मात्रा के गुणाः पाने कथं योज्या च वारुणी ॥ ३ ॥
षड्क्रमतिपानं च कथं कस्माच्च दीयते ॥
एतन्मे भगवन्ब्रूहि पृच्छतस्तु महामुने ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
सुरापानगुणांश्चापि संयोगं कालमेव च ॥ ५ ॥
बह्वोषधां जातरसां परिपक्वां चिरस्थिताम् ॥
तीक्ष्णां सुरां क्षौद्रयुतां दापयेत्कृतकर्मणि ॥ ६ ॥
अध्वागते गुडसुरामथवा विगुडोदकाम् ॥
मधुफाणितसंयुक्तां कोष्ठनिर्वापणे हिताम् ॥ ७ ॥
तस्य कोष्ठं शोधयति प्रसादयति शोणितम् ॥
आमं तन्द्रां पिपासां च वारुणी चापकर्षति ॥ ८ ॥
१ क. ॰तन्मांसं॰ । २ क. ॰रके देशे वि॰ ।

१९ सुराप्रतिपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६१
अपरेद्युश्च विश्रान्ते पुनः प्रातः पुरंजय ॥
चङ्क्रामितनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥
दद्यात्षडङ्गपानं तु बलवर्णकरं हितम् ॥
पिप्पली शृङ्गवेरं च मधु तैलं गुडं सुरा ॥ १० ॥
एकत्र मूर्च्छयित्वा च प्रतिपानं प्रदापयेत् ॥
तत्षडङ्गप्रतीपानमिति संज्ञा विधीयते ॥ ११ ॥
तेनास्य चीयते रक्तं बलं वर्णश्च जायते ॥
ये च प्रचलिता दोषा भवन्त्यध्वप्रयोजनात् ॥ १२ ॥
क्षुभ्यमानशरीरस्य वातपित्तकफादयः ॥
एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३ ॥
शमं गच्छन्ति नागस्य दोषाय न भवन्ति वा ॥
तत्षडङ्गप्रतीपानं विश्रान्ताय प्रदीयते ॥ १४ ॥
उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम् ॥
सुरां दद्यात्प्रयोगेण तैलं चैव न दापयेत् ॥ १५ ॥
अनयाऽध्वानं च सहते न च मूर्च्छति वारणः ॥
तृष्णा च न भवत्येव अनया पृथिवीपते ॥ १६ ॥
आ दशभ्यस्तु वर्षेभ्यः पोतकेभ्यो नराधिप ॥
गोक्षीरं नवनीतं च सदा प्रातर्विधीयते ॥ १७ ॥
सर्पिषा चैव सेकः स्यात्सर्पिषा चैव भोजनम् ॥
नित्यमुत्कारिकां दद्याच्छाळूकानि बिसानि च ॥ १८ ॥
एतत्तु दद्यात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥
आप्यायन्ते तथा पोता वपुश्चैषां न हीयते ॥ १९ ॥
स्थूलस्य मृदुमांसस्य क्षुभ्यन्तेऽङ्गानि यस्य च ॥
न तस्मै मेदकं दद्यात्तं यं कामादभीक्ष्णशः (?) ॥ २० ॥
तत्र श्रान्तं तथा स्विन्नं न च संक्रामयेद्रजम् ॥
दद्यात्तैलोदकं पातुं योगवित्कुशलो भिषक् ॥ २१ ॥
कामं द्विपञ्चरात्रं च सोमवल्कयुतां सुराम् ॥
दद्यात्सगुडतैलं वा पथायोगं यथाविधि ॥ २२ ॥
छविः शोभा स्थिरा चास्य बलं चैव न हीयते ॥
थिडङ्गमेदकौ चास्मै दद्याद्वा क्लीवमेदकौ ॥ २३ ॥

स्थूलस्य बलमांसस्य श्लेष्मणा चार्दितस्य वै ॥
कात्स्न्येन विधिरुक्तोऽयं यथावद्राजसत्तम ॥ २४ ॥
अतः परं प्रवक्ष्यामि विधिं विस्तरतोऽपरम् ॥
विद्धि प्रकारयोगा हि प्रतिपानस्य निश्चितम् ॥ २५ ॥
सुरा च मधुरा पूर्वा श्लेष्मघ्ना पित्तवर्धिनी ॥
तीक्ष्णत्वाज्जरयत्यन्नं दीपनीयतमा स्मृता ॥ २६ ॥
वातशूलेषु भूयिष्ठं *तस्य दोषाः प्रशस्यते ॥
अतस्तीक्ष्णतरां प्राहुः प्रसन्नां मनुजाधिप ॥ २७ ॥
उष्णवीर्यां तनुरसां तथा वह्निप्रदीपनाम् ॥
वातश्लेष्महरां चैव तथा वेक्षिविवर्धनीम् ॥ २८ ॥
बलं विज्ञाय नागेभ्यस्तदेनां संप्रदापयेत् ॥
भोजितानां च नागानामनुपानेषु पूजिते ॥ २९ ॥
अत्याशितं जरयति कण्ठमार्गविशोधनी ॥
सौमनस्यकरी हृद्या मनोवर्णप्रसादनी ॥ ३० ॥
वातलेष्वपि सुतरां मन्दाग्नौ च प्रशस्यते ॥
मन्दोद्धृता या सुतरां तरुणी साप्यतिस्थिरा ॥ ३१ ॥
अव्यक्तरसवीर्यत्वान्न सा कर्मसु पूजिता ॥
वातपित्तप्रकोपी तु सीधुरुक्तो मनीषिभिः ॥ ३२ ॥
रूक्षश्च सकषायश्च विपाके कटुकस्तथा ॥
रूक्षत्वात्कटुकत्वाच्च श्लेष्माणमपकर्षति ॥ ३३ ॥
तथा रूक्षकषायत्वाद्रक्तपित्तहितोऽमरः ॥
एष पक्वरसः सीधुरपक्वरस एव च ॥ ३४ ॥
तत्तुल्यो रसवीर्येण गौरस्त्वम्लगुणाधिकः ॥
शार्करो भृशशीतत्वादिष्टो वातविवर्धनः ॥ ३५ ॥
पित्तकोपी तु तीक्ष्णत्वाच्छ्लेष्माणं च निरस्यति ॥
अरिष्टो दीपनीयत्वात्सर्वेभ्योऽभ्यधिकेर्गुणैः ॥ ३६ ॥
सर्वदोषहरश्चैव नागानां मनुजाधिप ॥
उष्णवीर्यश्च रूक्षश्च विपाके कटुकश्च सः ॥ ३७ ॥

  • 'तस्या दोषः' इति भवेत् ।
    १ क. पित्तप्रवर्धनीम् ।

१९ सुराप्रतिपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६१
आस्वादतः स कटुकः स कषायरसः स्मृतः ॥
न वर्धयति नागानां कफपित्ते विशेषतः ॥ ३८ ॥
शाखावातं कोपयति स्नेहं मांसं च कर्षयेत् ॥
तस्मात्स्निग्धानि पानानि स्नेहयुक्तं च भोजनम् ॥ ३९ ॥
अरिष्टं पिबतो राजन्देयानि कुशलेन तु ॥
अल्पां तमनुपिष्टां तु माध्वीकं संप्रचक्षते ॥ ४० ॥
सुगन्धि च विशेषेण सुरसं चापि निर्दिशेत् ॥
कषायतिक्तरूक्षोष्णं प्रमोदि विशदं लघु ॥४१ ॥
कायाग्निदीपनं चैव मृद्वीकं मधु निर्दिशेत् ॥
मैरेयो मधुरः स्वादुस्तीक्ष्णो दीपनबृंहणः ॥ ४२ ॥
लघुर्विपाके कटुकः पित्तलो मारुतापहः ॥
असंप्राप्तं तथाऽम्लं च लवणं च विवर्जयेत् ॥ ४३ ॥
अग्निना दूषितं यच्च यच्च भाजनदूषितम् ॥
एतैर्दोषैः परीतानि मद्यानि प्रतिषेधयेत् ॥ ४४ ॥
करवीरोत्पलाम्भोजतुल्यगन्धेन यद्भवेत् ॥
तिलतैलसवर्णं स्याद्घृतमण्डनिभं च यत् ॥ ४५ ॥
आस्वादे तिक्तमधुरं प्रकृतिस्थं बलान्वितम् ॥
ईदृशं पाययेन्मद्यं सर्वदोषविनाशनम् ॥ ४६ ॥
पुनर्दाषान्प्रवक्ष्यामि दुष्टमद्यस्य तत्त्वतः ॥
विदाहमम्लिकां कुर्यादभिष्यन्दं हि नीलिका म् ॥ ४७ ॥
त्वग्दोषान्पुष्पिता कुर्याद्घ्राणव्यक्तामरोचकम् ॥
सादोदावर्तगुल्मांश्च मरणं चाऽऽशु दन्तिनः ॥ ४८ ॥
उष्णेन चाभिसंतप्तादन्तः पित्तं प्रकोपयेत् ॥
अवसन्ना लेखनी स्यात्किण्वगन्धिर्न जीवति ॥ ४९ ॥
भक्तदुष्टा तथाऽऽध्मानं रसवन्वा कफोद्भवम् ॥
एवमेते सुरादोषा मया सम्यगुदाहृताः ॥ ५० ॥
एभिर्दोषैर्विमुक्तानि मद्यानि प्रतिपाययेत् ॥
इति मद्यस्य नृपते गुणा दोषा मयेरिताः ॥ ५१ ॥
अत ऊर्ध्वं प्रवक्ष्यामि प्रतिपानं षडर्तुकम् ॥
सर्पि वा लवणं दद्याद्धेमन्ते सुरसां सुराम् ॥ ५२ ॥

३६४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
जातीव प्रसन्नां वा सीधुं वाऽपि चिरस्थिताम् ॥
दापयेल्लवणैः सार्धं नागानां शिशिरागमे ॥ ५३ ॥
माध्वीकं वा प्रसन्नां वा सीधुं वा त्र्यूषणान्वितम् ॥
दद्याद्वसन्ते नागेभ्यो सुनिष्पं यथाविधि ॥ ५४ ॥
सरकः सगुडो ग्रीष्मे प्रदातव्यो विजानता ॥
माध्वीको वा जलपुतः प्रतिपानं वा सशर्करम् ॥ ५५ ॥
मध्वासवमरिष्टं वा सक्षौद्रं दापयेद्भिषक् ॥
वर्षासु सगुडं वाऽपि तैलं वा मदिरान्वितम् ॥ ५६ ॥
मध्वासवः शार्करो वा सजलः शर्करायुतः ॥
पयो दधि' शरदागमे करिभ्यो नृपसत्तम ॥ ५७ ॥
प्रायशः पैष्टिकं मद्यं वातिकानां प्रशस्यते ॥
माध्वीकं मधुगौडो वा कफपित्ताधिकास्तु ये ॥ ५८ ॥
गुडान्विताऽनिलहरा हिता रक्तजयाय च ॥
बृंहणी दीपनी हृद्या वृष्या बल्या मनस्करी ॥ ५९ ॥
सद्यःश्रमहरा चैव वारणानां नराधिप ॥
वातश्लेष्मकृमिहरा सुरा तैलसमन्विता ॥ ६० ॥
दीपयत्यन्यथा पित्तं विधिना वर्तिता सुरा ॥
पित्तघ्नी विधिवद्युक्ता कोष्ठदोषनिबर्हणी ॥ ६१ ॥
सपञ्चलवणा हृद्या सर्वदोषापकर्षिणी ॥
क्षुभितार्थववंशानां प्रवाश्रमवक्षसाम् ॥ ६२ ॥
मदिरा दन्तिनां पथ्या लाक्षया सह योजिता ॥
संधानार्थं शरीरस्य धातुसाम्यार्थमेव च ॥ ६३ ॥
रक्तषोडशभागेन तुल्यां लाक्षां प्रदापयेत् ॥
—:०:—
अत ऊर्ध्वं प्रवक्ष्यामि कृशानां बृंहणे विधिम् ॥ ६४ ॥
कर्मणा ये परिक्षीणा वधबन्धेन वा पुनः॥
हीनया विधया वाऽपि प्रभिन्ना मिश्रिताश्च ये ॥ ६५॥
क्षीणशोणितमांसाश्च कृशकायाश्च दन्तिनः ॥
सप्तरात्रं पयो दद्यात्ततः कुष्ठमाषमेदकम् ॥ ६६ ॥
निर्यूषं कारयेत्सम्यक्कुलत्थानामथाऽऽढके ॥
त्रिंशद्विंशत्पलानि स्युः किण्वस्य च गुडस्य च ॥ ६७ ॥

एतत्प्रतिभये दद्यादेकरात्रं स्थितं भिषक् ॥
कुल्माषमेदकं दद्याद्रक्तस्नेहेन मूर्च्छितम् ॥ ६८ ॥
कुल्माषमेदकात्सद्यः शोणितं तु प्रजायते' ॥
कच्छुकाशाल्मलींश्चापि खर्जूरींश्चापि मस्तकम् ॥ ˚६९ ॥
शाकवृक्षयवांश्चापि ये चान्ये मधुरा द्रुमाः ॥
छेदयेत्कुंफलार्थाय तैरेवं बृंहयेद्गजम् ॥ ७० ॥
हरितैश्चापि पवसैर्विचित्रैर्मृदुभिर्हितम् ॥
बृंहयेद्बृंहणकरैर्न च तीक्ष्णैरुपाचरेत् ॥ ७१ ॥
अवेक्षते सदा नागान्बन्धूनिव सदा भिषक् ॥
सुरोपयोगकुशलो मेदकेषु च शास्त्रवित् ॥ ७२ ॥
भृशं संतप्रदेहा ये बलात्कृशतराश्च ये ॥
अत्यन्तरूक्षकायाश्च रक्तपित्तातुराश्च ये ॥ ७३ ॥
बहुप्राणपरीताश्च पयसोऽभिहतास्तथा ॥
नवग्रहैर्ये तेषां तु सुरापानं न शस्यते ॥ ७४ ॥
विपन्नं चातिवृत्तं च मद्यं मेदकमेव च ॥
वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत् ॥ ७५ ॥
नेष्टं च क्षीरपीताय मद्यपीताय वा पयः ॥
विरुद्धा वोदरहितमुभयं विद्धि दन्तिने ॥ ७६ ॥
इति श्रीपालंकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने सुराप्रतिपान-
विधिर्नामैकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
अथाङ्गपतिरमरसदृशवरुणधनपतिसत्त्वे गुरुविक्रमप्रशान्तशत्रुहारकेयूर-
मुकुटमणिप्रभाभिरुद्द्योतितपादपङ्कजं ऋतुसमृद्धं पावकप्रभाभिरिव विराजमान-
मभिवाद्य विनयात्पप्रच्छ पालकाप्यम्; भगवन् ये त्विमे स्वयूथसुखसंवृद्धा
हस्तिनः पर्वतनदीनदसरःप्रस्रवणदरीगिरिनिकुञ्जेषु विनतपुष्पभारशाखेष्वभि-
रताः कचिद्ग्रहणमुपगच्छन्ति, तान्दाम्यमानान्सोद्वेगान्गुरुबन्धाङ्कुशवाग्दण्ड-
प्राजनैरभिहन्यमानानृष्ट्या महत्कारुण्यमुत्पद्यते मनसः । तेषां ग्राम्यव्या-
धिसंतप्रदेहानां चिकित्सितमुपदेष्टुमर्हसि ॥
१ खं. घ. वा वादहिं ।

६६६ पालकाप्यमुनिभिर्रचितो— [ ४ उत्तरस्थाने-
अथ विनयादवनतशिरसमभिसमीक्ष्योवाच पालकाप्यो महामुनिः–शृणु
राजन्गूग्गुलुद्रव्यमनेकगुणसंपन्नममृतोपमं रसायनभूतमित्येषां चिकित्सार्थ-
मुत्पादितं भगवता पशुपतिना । तस्योपयोगमुपदेक्ष्यामः । स्तम्भादौ वातिकेषु
विकारेषु तथो बालपाकलप्रसुप्तमृदुग्रहकुकुटमहापाकलोत्कर्णवातानाहविषमे-
हशिरोरोगहृद्गदशूलगात्रस्तम्भस्कन्दमूर्च्छापाण्डुरोगहस्तग्रहवातगतिगुल्माभि-
पन्न(ण्ण)मूज्जग्यानाहमेहोदरशोथिणां कृमिकोष्ठीक्षीरवसा५धन्यापवादीनां वात-
कफादीनां विकराणामन्येषां च प्रशस्तम् । तत्र प्रशस्तदेशजातम-
नुपहतवीर्यमचिरस्थितमशुष्कमनिर्दग्धमनन्यद्रव्यसंयुक्तमृत्तिकाङ्गारवर्जितमभि-
संवीक्ष्याञ्जनरुचकभृङ्गराजप्रतीकाशं महिषाक्षं चोपकल्प्य पलद्वयात्प्रभृति
विंशतिपलिकमराज्ञि कृत्वा ततस्तं महति कटाहे दृढे कुम्भेष्वा(वा) सूयते गोमू-
त्रत्रिफलाप्रसन्नामरेयाणामन्यतमेन द्रव्येण यदि तद्दिवाकरकिरणसंतप्तं संजा-
तफेनबुद्बुदं भवति, तदा बलवद्भिः पुंभिः कन्यकाभिर्वा दृषदि पेषयित्वाऽञ्जन-
मिव श्लक्ष्णं ततः सुमनसमभिसमीक्ष्य वारणं प्राक्सूर्योदयाद्द्द्रोणिभिः सुपरिगृ-
हीतमारोग्यार्थं तु पूर्वोक्तैरेव द्रव्यैर्यथायोगमवलोक्य पाययेच्छारीरमानसदृ-
खकोपशोकभयदर्पहर्षैर्विमुक्तं युक्त्या विरिक्तं बुभुक्षितं सुस्थितसर्वाङ्गं गजम् ।
अथवा द्विपञ्चमूलत्रिफलाक्वाथपिष्टं पुनः प्रकाथ्य शीतीभूतं जीर्णाहाराय
दद्यात् । क्षीरं प्रतिपानाय दद्यात् । स्वापयेदेकपक्षतः । यवसकवलकुवलजा(या)नां
प्रतिषेधः । अथ प्रथमायां मध्याह्नवेलायां यवच्चतुर्गुणं संयुक्तेन्दुनीलफल-
हरितेन यवसेन कण्ठशोधनार्थं प्रतिच्छाद्य गोजाविमहिषीणां पयः शृतमर्धभा-
गावशिष्टमवतार्य शर्कराचूर्णसंसृष्टं पाययेत् । तेनास्य जीर्णौषधस्य कोष्ठ-
दाहशान्तिर्भवति । ततो जीर्णौषधं वारणमभिज्ञाय पुनः प्रच्छाद्य कवलैः
स्वच्छन्दमुत्स्रचारं चैनं नदीनदसरःपर्यन्तेषूदकपूर्णेष्ववगाहयेत् । विधानार्थं
पुराणषष्टिकानामोदनं मुद्गयूषेण घृतस्निग्धेन सायमेककालं भोजयेत् । शय्या-
भागोऽस्य खरोष्ट्राणामेकतमेन पुरीषेणाऽऽतपशुष्केण स्वकरीषेण वा शय्या
विधिविधानमसंबाधं कुर्यात् ।
तत्र श्लोकाः–
एष एव विधिः कार्य आ समाप्तेर्यथाविधि ॥
अन्यथा क्रियते मोहात्ततो व्यापत्तिर्मर्हसि ॥ १ ॥
दीनो म्लानमुखस्तस्य वेपथुः श्वयथुः क्लमः ॥
कदाचिदुष्णं भजते कदाचिच्छीतमेव च ॥ २ ॥

! Look at गुग्गुलो then र् on च?
Wait, तच्छान्त्यै गुग्गुलोर्...
Is it र्लेपः?
LOOK AT IT: गुग्गुलोर्लेपः!
गु ग्गु लो र्ले पः!
र् (repha) + ल + े (e-matra) + पः!
OH WOW! Look at ले:
A 'ल' with an 'े' stroke on top, and a repha 'र्' on top!
And the next letter is पः!
तच्छान्त्यै गुग्गुलोर्लेपः ॥
"For its pacification, an application (lepa) of guggulu [combined with that substance] should be given!"
"तद्द्रव्ययुक्तो देयो वा तच्छान्त्यै गुग्गुलोर्लेपः ॥"
WOW, that makes 1000% sense! गुग्गुलोर्लेपः! Brilliant!

  • Now look at Line 24:
    वातादौ गुग्गुलोः कुर्यात्तैलव्यापि चिकित्सितम् ॥ १४ ॥
    Wait, is it कुर्यात्तैलव्यापि?
    Let's read:
    `वातादौ गुग्

३६८ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
अथैकविंशोऽध्यायः ।
अङ्गो हिं राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
के गुणाः क्षीरदानस्य वारणानां विशेषतः ॥ १ ॥
केभ्यो देयमदेयं वा पयः कतिविधं भवेत् ॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
मधुरं शीतवीर्यं च विपाके मधुरं पयः ॥
स्निग्धमत्यर्थवृष्यं च तेजोबलविवर्धनम् ॥ ३ ॥
चक्षुष्यं बृंहणीयं च जीवनीयं रसायनम् ॥
कफामिवर्धनं चैव प्राणाह्लादरुचिप्रदम् ॥ ४ ॥
जरायुजानां सत्त्वानां जन्मप्रभृति पार्थिव ॥
सात्मीभूतं पयस्तस्मात्पयस्तु श्रेष्ठमुच्यते ॥ ५ ॥
तस्याष्टौ योनयः प्रोक्ताः गौः करेणुर्हया खरी ॥
महिषी करभी चैव छागला चाविकेति च ॥ ६ ॥
तत्र गव्यं पयः श्रेष्ठं दन्तिनां नयकोविद ॥
सृष्टमूत्रपुरीषत्वात्प्रशस्तयोनितयाऽपि च ॥ ७ ॥
कारेणवं पयः शीतमत्यर्थं गौरवान्वितम् ॥
कषायानुरसं पथ्यं कलभानां व्यवायि च ॥ ८ ॥
श्लेष्मलं वाडवं बल्यं नातिपित्तहरं स्मृतम् ॥
मार्दभं तु पयोद्रिक्तं कफघ्नं वातकोपनम् ॥ ९ ॥
बहुमूत्रपुरीषं स्यात्पयोऽभिष्यन्दि माहिषम् ॥
कारभं लवणं सोष्णं दीपनं लघु रूक्षकम् ॥ १० ॥
तत्रापि च गुणश्रेष्ठं प्राहुश्छागं पयो बुधाः ॥
अजानामल्पकायत्वात्कटुतिक्तनिषेवणात् ॥ ११ ॥
नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः ॥
अल्पस्नेहं तु विज्ञेयं वातघ्नं बाविकं पयः ॥ १२ ॥
वृद्धा बालास्तथा मत्ताः श्रान्ता ये चापि दुर्बलाः ॥
विहिताहरणीयेन संनिपातेन चापि ये ॥ १३ ॥
रक्तपित्तश्रमात्क्षीणा क्षीणा ये चापि वारणाः ॥
केवलं घृतयुक्तं वा क्षीरं तेभ्यः प्रदापयेत् ॥ १४ ॥
१ ख. घ. ॰योगुणाः ॥ अ० ।