सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 682, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 682

१९ सुराप्रतिपानविध्यध्यायः ] हस्त्यायुर्वेदः । ६६१
आस्वादतः स कटुकः स कषायरसः स्मृतः ॥
न वर्धयति नागानां कफपित्ते विशेषतः ॥ ३८ ॥
शाखावातं कोपयति स्नेहं मांसं च कर्षयेत् ॥
तस्मात्स्निग्धानि पानानि स्नेहयुक्तं च भोजनम् ॥ ३९ ॥
अरिष्टं पिबतो राजन्देयानि कुशलेन तु ॥
अल्पां तमनुपिष्टां तु माध्वीकं संप्रचक्षते ॥ ४० ॥
सुगन्धि च विशेषेण सुरसं चापि निर्दिशेत् ॥
कषायतिक्तरूक्षोष्णं प्रमोदि विशदं लघु ॥४१ ॥
कायाग्निदीपनं चैव मृद्वीकं मधु निर्दिशेत् ॥
मैरेयो मधुरः स्वादुस्तीक्ष्णो दीपनबृंहणः ॥ ४२ ॥
लघुर्विपाके कटुकः पित्तलो मारुतापहः ॥
असंप्राप्तं तथाऽम्लं च लवणं च विवर्जयेत् ॥ ४३ ॥
अग्निना दूषितं यच्च यच्च भाजनदूषितम् ॥
एतैर्दोषैः परीतानि मद्यानि प्रतिषेधयेत् ॥ ४४ ॥
करवीरोत्पलाम्भोजतुल्यगन्धेन यद्भवेत् ॥
तिलतैलसवर्णं स्याद्घृतमण्डनिभं च यत् ॥ ४५ ॥
आस्वादे तिक्तमधुरं प्रकृतिस्थं बलान्वितम् ॥
ईदृशं पाययेन्मद्यं सर्वदोषविनाशनम् ॥ ४६ ॥
पुनर्दाषान्प्रवक्ष्यामि दुष्टमद्यस्य तत्त्वतः ॥
विदाहमम्लिकां कुर्यादभिष्यन्दं हि नीलिका म् ॥ ४७ ॥
त्वग्दोषान्पुष्पिता कुर्याद्घ्राणव्यक्तामरोचकम् ॥
सादोदावर्तगुल्मांश्च मरणं चाऽऽशु दन्तिनः ॥ ४८ ॥
उष्णेन चाभिसंतप्तादन्तः पित्तं प्रकोपयेत् ॥
अवसन्ना लेखनी स्यात्किण्वगन्धिर्न जीवति ॥ ४९ ॥
भक्तदुष्टा तथाऽऽध्मानं रसवन्वा कफोद्भवम् ॥
एवमेते सुरादोषा मया सम्यगुदाहृताः ॥ ५० ॥
एभिर्दोषैर्विमुक्तानि मद्यानि प्रतिपाययेत् ॥
इति मद्यस्य नृपते गुणा दोषा मयेरिताः ॥ ५१ ॥
अत ऊर्ध्वं प्रवक्ष्यामि प्रतिपानं षडर्तुकम् ॥
सर्पि वा लवणं दद्याद्धेमन्ते सुरसां सुराम् ॥ ५२ ॥