सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 683, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 683

३६४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
जातीव प्रसन्नां वा सीधुं वाऽपि चिरस्थिताम् ॥
दापयेल्लवणैः सार्धं नागानां शिशिरागमे ॥ ५३ ॥
माध्वीकं वा प्रसन्नां वा सीधुं वा त्र्यूषणान्वितम् ॥
दद्याद्वसन्ते नागेभ्यो सुनिष्पं यथाविधि ॥ ५४ ॥
सरकः सगुडो ग्रीष्मे प्रदातव्यो विजानता ॥
माध्वीको वा जलपुतः प्रतिपानं वा सशर्करम् ॥ ५५ ॥
मध्वासवमरिष्टं वा सक्षौद्रं दापयेद्भिषक् ॥
वर्षासु सगुडं वाऽपि तैलं वा मदिरान्वितम् ॥ ५६ ॥
मध्वासवः शार्करो वा सजलः शर्करायुतः ॥
पयो दधि' शरदागमे करिभ्यो नृपसत्तम ॥ ५७ ॥
प्रायशः पैष्टिकं मद्यं वातिकानां प्रशस्यते ॥
माध्वीकं मधुगौडो वा कफपित्ताधिकास्तु ये ॥ ५८ ॥
गुडान्विताऽनिलहरा हिता रक्तजयाय च ॥
बृंहणी दीपनी हृद्या वृष्या बल्या मनस्करी ॥ ५९ ॥
सद्यःश्रमहरा चैव वारणानां नराधिप ॥
वातश्लेष्मकृमिहरा सुरा तैलसमन्विता ॥ ६० ॥
दीपयत्यन्यथा पित्तं विधिना वर्तिता सुरा ॥
पित्तघ्नी विधिवद्युक्ता कोष्ठदोषनिबर्हणी ॥ ६१ ॥
सपञ्चलवणा हृद्या सर्वदोषापकर्षिणी ॥
क्षुभितार्थववंशानां प्रवाश्रमवक्षसाम् ॥ ६२ ॥
मदिरा दन्तिनां पथ्या लाक्षया सह योजिता ॥
संधानार्थं शरीरस्य धातुसाम्यार्थमेव च ॥ ६३ ॥
रक्तषोडशभागेन तुल्यां लाक्षां प्रदापयेत् ॥
—:०:—
अत ऊर्ध्वं प्रवक्ष्यामि कृशानां बृंहणे विधिम् ॥ ६४ ॥
कर्मणा ये परिक्षीणा वधबन्धेन वा पुनः॥
हीनया विधया वाऽपि प्रभिन्ना मिश्रिताश्च ये ॥ ६५॥
क्षीणशोणितमांसाश्च कृशकायाश्च दन्तिनः ॥
सप्तरात्रं पयो दद्यात्ततः कुष्ठमाषमेदकम् ॥ ६६ ॥
निर्यूषं कारयेत्सम्यक्कुलत्थानामथाऽऽढके ॥
त्रिंशद्विंशत्पलानि स्युः किण्वस्य च गुडस्य च ॥ ६७ ॥