हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 668, कुल 742 में से
संदर्भ में पढ़ें१९ ऋतुचर्याध्यायः ] हस्त्यायुर्वेदः । ६४६
भोजनार्थेऽन्नपानार्थे कार्याः कायाग्निदीपनाः ॥
*(विशेषोऽहनि शीते च वर्षवाताकुले भृशम् ॥ ८८ ॥
व्यक्ताम्लस्नेहलवणं भोज्यं स्यादनिलापहम् ॥
स्थलजं यवसं चैव द्विरदानां घनागमे ॥ ८९ ॥'
स्थानानि विगतस्वेदनिष्यन्दानि च कारयेत् ॥
धूमश्च दंशनाशार्थं कार्यः स्थानेषु दन्तिनाम् ॥ ९० ॥
प्रसन्नां सगुडव्योषां सतैलां प्रतिपादयेत् ॥
नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ९१ ॥
उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ॥
वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ ९२ ॥
बस्तिकर्म च नागेभ्यो वर्षासु नियतं हितम् ॥
ऋतुश्च विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥
तस्मादवसथुद्धयर्थं दीपं स्थानेषु कारयेत् ॥
शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥
संपचत्योषधीः सर्वाः फलमन्तानि(?) यानि च ॥
तीक्ष्णातपत्त्वाच्च रवेर्भूमिपाकं नियच्छति ॥ ९५ ॥
प्रकुप्यति च नागानां सूर्याथुपरितापितम् ॥
जगत्तु ताभिः शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥
तस्मात्तत्रापि लवणो रसो वृद्धिं नियच्छति ॥
प्रकुप्यति च नागानां पित्तं शाम्यति चानिलः ॥ ९७ ॥
तत्रापि यवगोधूमाः(?) †शाल्यन्नानि प्रदापयेत् ॥
गुडसर्पिर्विमिश्राणि पित्तकोपहितानि च ॥ ९८ ॥
शशानां हरिणानां च रसैर्मधुरतिक्तकैः ॥ )
विशेषार्थे तदा कार्यों दन्तिनां पित्तशान्तये ॥ ९९ ॥
स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा ॥
शस्यकालौ भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥
पूर्वस्निग्धशरीराणां शस्यारम्भो विधीयते ॥
संनाराः षष्टिका व्रीहिशालयः कङ्गुवोऽपि वा ॥ १ ॥
यावेक्षाऽऽर्द्रफलास्तावद्धस्तिभ्यः पुष्टये हिताः ॥
पुष्पिताः फलिताश्चापि मुद्गमाषमकुष्ठकाः ॥ २ ॥
- धनुश्चिह्नान्तर्गतपाठः कघपुस्तकयोर्नास्ति । † 'गोधूमशाल्य' इति भवेत् ।
१ क. ॰वदार्द्र॰ ।
८२