हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 669, कुल 742 में से
संदर्भ में पढ़ेंयवसार्थं प्रशस्यन्ते पावनं कठिनं फलम् ।
गोधूमः कठिनफलो मिश्रं देयो यवोऽपि वा ॥ ३ ॥
पुष्पितो रक्तजननः फलितो मांसवर्धनः ॥
अनूपजलजं मांसं वसा मेदो घृतं तथा ॥ ४ ॥
माहिषं च दधि क्षीरं तैलोष्णे चावमर्दयेत् ॥
घृतं क्षीरं यवाः शालीर्मांसानि मधुराणि च ॥ १०५ ॥
अतो यस्मिन्प्रशस्तानि दन्तिनां जलदात्यये ॥
शर्करं (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥
दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥
ग्रीष्मवच्चावगाहश्च कार्यः शरदि दन्तिनाम् ॥ ७ ॥
सूर्याशुपरितप्तानां चन्द्रेणाऽऽप्यायितानि च ॥
आगस्त्योदययुक्तानि निर्विषाणि शुचीनि च ॥ ८ ॥
निर्मलानि निपानेषु जलान्यमृतवत्तदा ॥
पानावगाहे करिणां प्रशस्तानि विशेषतः* ॥ ९ ॥
(†भोजनार्थे प्रदातव्यं जाङ्गलानूपमिश्रितम्) ॥
पूर्वाह्ने वाऽपराह्ने वा द्वौ कालो तत्र बुद्धिमान् ॥ ११० ॥
प्रचारयन्गजभागानरण्येषु विभागवित् ॥
काशपुष्पपटीं शुभ्रां तदावि(चि)त्रितनिम्नगाम् ॥ ११ ॥
परिपक्वतृणां चैव धरणीं तत्र शालिनाम् ॥
कमलोत्पलकह्लारजातां गन्धवहस्तदा ॥ १२ ॥
मारुतः सुखसंस्पर्शो वाति शीतांशुशीतलः ॥
विचित्राणि स्वादवन्ति तृणानि सलिलानि च ॥ १३ ॥
शरद्गुणैः सुमनसो भवन्ति करिणस्तदा ॥
काले तु प्रतिकुर्वीत हस्तिनां दन्तकल्पनम् ॥ १४ ॥
स्वातिसंपातयोगे च काले नीराजनास्तदा ॥
राज्ञश्च यात्राकालोऽयं शस्तः कर्मसु दन्तिनाम् ॥ ११५ ॥
- क-घपुस्तकयोस्तु—एतदुत्तरमेव 'विशेषोऽहनि' इत्यारभ्य 'रसैर्मधुरतिक्तकैः'
इत्यन्तो धनुश्चिह्नान्तर्गतपाठ उपलभ्यते ॥
† धनुश्चिह्नान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र 'भोजनार्थे' इत्येव 'रसै-
र्मधुरतिक्तकैः' इत्युत्तरमुपलभ्यते ॥