सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

३० • दन्तकल्पनाध्यायः ] हस्त्यायुर्वेदः । १६९
तस्माद्विकृशां त्रिन्गुधेषु विविक्षां गजदन्तयोः ॥
भिषजा मधुदन्तस्य कारयेद्दन्तकल्पनाम् ॥ ३४ ॥
दन्तजातिपरीक्षा च कल्पना समुदाहृता ॥
उत्सेधायाममायाता यस्य हस्तसमुच्छ्रयाः ॥ ३५ ॥
तदष्टभागतो देयं दन्तयोरुभयोरपि ॥
मिश्रैस्य नवभागश्च दशमो गिरिचारिणः ॥ ३६ ॥
मानसूत्रे स्थिता ह्येषा कल्पना समुदाहृता ॥
विद्धग्रादक्षिकूटाच्च नेत्रयोर्वा यदन्तरम् ॥ ३७ ॥
नेत्राभ्यां दन्तवेष्टौ च तयोर्र्द्धा मुखान्तरम् ॥
एतत्प्रमाणं संगृह्य यदि स्यात्सर्वतः समम् ॥ ३८ ॥
प्रसार्य दन्ततः सूत्रं कल्पयेदधिकं ततः ॥
मुखमानविभक्तायां कल्पना समुदाहृता ॥ ३९ ॥
उत्सेधे सप्तकोऽरत्निरायामे नवको भवेत् ॥
दशकं परिणाहे तु कृत्वाऽरत्निसमुच्चयम् ॥ ४० ॥
एतदङ्गुलपर्वाग्रं मित्वा सूत्रेण तत्त्वतः ॥
सूत्रमष्टगुणं कृत्वा कल्पयेदधिकं ततः ॥ ४१ ॥
एषाऽष्टभागनिर्दिष्टा कल्पना समुदाहृता ॥
सप्ताङ्गुलं पार्वतेषु वारणेणु प्रदक्षिणम् ॥ ४२ ॥
'ग्रामानीतेषु च पुनः कल्पनीया षडङ्गुलम् ॥
विषाणमूलतो मित्वा कल्पयेदधिकं ततः ॥ ४३ ॥
कर्णप्रमाणिका ह्येषा कल्पना समुदाहृता ॥
• हासयेदङ्गुलं तस्मान्मिश्ररूपस्य दन्तिनः ॥ ४४ ॥
प्रसार्य दन्ततः सूत्रं कल्पयेदधिकं ततः ॥
द्विःपरिक्षेपिका ह्येषा कल्पना समुदाहृता ॥ ४५ ॥
समप्रमाणो यो नागः समदन्तश्च यो भवेत् ॥
द्विःपरिक्षे विकारस्य कर्तव्या दन्तकल्पना ॥ ४६ ॥
इत्येतेषु प्रमाणेषु निरपायानि दन्तिनाम् ॥
त्र्यङ्गुलं द्व्यङ्गुलं वाऽपि च्छेदतः परिवर्जयेत् ॥ ४७ ॥
' आरोग्याय च नागानां विजयाय महीपते ॥
या च पुष्टिकरी राज्ञः सा कार्या दन्तकल्पना ॥ ४८ ॥
१ क. विवक्षां । २ क. °श्रश्च नवभागस्य द०। ३ ख. घ. पार्वतीयु ।

दन्तिजातिपरीक्षा च मानसूत्रे स्थिता च या ॥
मुखमानविभक्ता च सैषा चैवाष्टभागिका ॥ ४९ ॥
वर्णप्रमाणिका चैव कैंशिरिक्षिपिकावदः (१) ॥ ५० ॥
परेताः कल्पना राजञ्छास्त्रेऽस्मिन्समुदाहृताः ॥
उभयोर्दन्तयोर्वाऽपि मानं यत्राष्टभागिकम् ॥ ५१ ॥
सोष्ठव (कं) च भवेद्येन तेन मानेन कल्पयेत् ॥
येन येन तु मानेन किंचित्कार्येऽधिको भवेत् ॥ ५२ ॥
नागस्य दक्षिणो दन्तः कुशलैर्दन्तकल्पकैः ॥
रक्षणार्थं च दन्तानां शोभार्थं चैव हस्तिनाम् ॥ ५३ ॥
युद्धार्थं चैव संग्रामे प्रतिमोकांश्च कारयेत् ॥
दन्तांश्रंषे महीपाल तुल्यानां वायसाननैः ॥ ५४ ॥
तस्मात्खड्गमुखं चापि वायसानां मुखानपि ॥
मण्डलाग्रमुखान्त्वाऽपि दन्ताग्रकृतिकास्तथा ॥ ५५ ॥
ईषामाराचशक्तीनां नानामुखविभक्तयः ॥
तन्मुखाकृतयः कार्याः परसैन्यविमर्दने ॥ ५६ ॥
कार्यो द्वितोलिकौ कोशावुत्तमस्य तु दन्तिनः ॥
अध्यर्धमानकौ वाऽपि कर्तव्यौ मध्यमस्य तु ॥ ५७ ॥
तदर्धमानौ कर्तव्यौ जघन्यस्य तु दन्तिनः ॥
प्रमृष्टतैलधौतस्य गुणयुक्तास्तथैव च ॥ ५८ ॥
कारयेत्प्रतिमोकांश्च कुशलैः शिल्पिभिस्तथा ॥
द्वात्रिंशदङ्गुलायामौ कर्तव्यावुत्तमस्य च ॥ ५९ ॥
अष्टविंशाङ्गुलो मध्यौ मध्यमारूपावरान्तिकौ ॥
परिणाहौ नृपस्तेषां विषाणानां समो भवेत् ॥ ६० ॥
तथा मकरदंष्ट्रांश्च सिंहदंष्ट्रांश्च कारयेत् ॥
सौवर्णान्राजतांश्चापि तथा रीतिकया कृतान् ॥ ६१ ॥
कपायाङ्गारशुद्धेन सुशुष्केणाथ कारयेत् ॥
प्रवालमणिमुक्ताभिर्वज्रवैडूर्यभूषितान् ॥ ६२ ॥
तथैवाप्यारकूटेन शक्त्याऽत्र परिकारयेत् ॥
वैयःसंधिनिरेळञ्ज(?)रनुपूर्वं समाहितान् ॥ ६३ ॥


१ क. तथा चाष्टविमागिका । २ क. कुशिराक्षेपकाचयः । ३ क. साष्ट्या
४ ख. घ. वयसैन्धसंधिनिरेळञ्जै ।

११ रसवीर्यविपाकाध्यायः ] हस्त्यायुर्वेदः । ६३१
यथार्हं गुणयुक्तेषु कारयेद्योगहस्तिषु ॥
प्रतिमोका विधातव्या यथाशास्त्रप्रमाणतः ॥ ६४ ॥
मधूच्छिष्टं च लाक्षां च सह सर्जरसेन च ॥
तेन क्वाथेन नागेभ्यः प्रतिमोकांश्च बन्धयेत् ॥
मैत्रे मुहूर्ते कर्तव्यः प्रशस्तेऽहनि पूजितैः ॥ ६५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने चतुर्थे उत्तरस्थाने
दशमो दन्तकल्पनाध्यायः ॥ १० ॥
अथैकादशोऽध्यायः ।
अथ रसवीर्यविपाकाध्यायः ।
—:():—
रोमपादो महातेजाश्चम्पाया ईश्वरः स्मृतः ॥
पप्रच्छ स महात्मानं पालकाप्यं तपोधनम् ॥ १ ॥
रसाः कति समाख्याताः किं वीर्यं किं गुणो भवेत् ॥
विपाकश्च महाभाग एतदिच्छामि वेदितुम् ॥ २ ॥
के च सौम्या रसा ज्ञेयाः के चाग्नेयाः प्रकीर्तिताः ॥
के च वा सेव्यमाना(श्च) शमंयन्ति रसा गुणैः ॥ ३ ॥
के पित्तं शमयेयुश्च श्लेष्माणं शमयन्ति के ॥
उदीरयन्ति के वातं श्लेष्माणं पित्तमेव च ॥ ४ ॥
अरोगो बलवांश्चापि रसैः कैर्वारणो भवेत् ॥
स्थिरत्वं जायते केन क्षारत्वं केन जायते ॥ ५ ॥
एतन्मे पृच्छतः सर्वं भगवन्वक्तुमर्हसि ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ६ ॥
शृणु मे सर्वमेवैतद्यथो प्रोक्तं नराधिप ॥
निश्चयादेक एवाऽऽह गौतमो(म) ऋषिसत्तमः ॥ ७ ॥
यस्मादम्बुमयं सर्वं जगत्स्थावरजङ्गमम् ॥

  • .... .... .... .... .... .... .... .... .... .... ॥ ८ ॥
    अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
    इक्षुदानं च नागानां श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
  • रसवीर्यविपाकाध्याये त्रुटितं प्रतिभाति ।

६३२ पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने—
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
(*उत्तमे वारणे दद्यादिषुपञ्चशतान(न्य)पि ॥ २ ॥
शतानि त्रीण्यथार्धे च दापयेन्मध्यमे गजे ॥
द्वे शते च तदधं च जघन्याय प्रदापयेत् ) ॥ ३ ॥
ये गुणा इक्षुदानस्य ते† तान्वक्ष्यामि तत्त्वतः ॥
आरण्यानां तु नागानामिंक्षुदानं प्रशस्यते ॥ ४ ॥
सर्वेष्वेव च देयं च कालं देशं बलं प्रति ॥
दीर्घकालेन सिध्यन्ति प्रकृत्या शङ्किताश्च ये ॥ ५ ॥
ये चैव पित्तला नागास्तथैवोष्मक्षताश्च ये ॥
इक्षुदानेन सिध्यन्ति सर्पिषेक्षुरसेन वा ॥ ६ ॥
पुरोपा(या)नानुबन्धेन अत्यर्थायाम(स)सेवया ॥
कुप्यन्ति धातवः सर्वे संनिरोधेन दन्तिनाम् ॥ ७ ॥
कायस्तम्भे शिरस्तम्भे मन्यास्तम्भे मदक्षये ॥
ग्रासे प्रतिहते चैव शिरोरोगे च पैत्तिके ॥ ८ ॥
वेगुण्यकरणे चैव श्रुत्वाहत्तभयेऽपि च ॥
शोकाऽभिभूते सततं वधबन्धनपीडयोः¹ ॥ ९ ॥
श्रान्ते प्रस्विन्नसर्वाङ्गे स्रस्तकाये सुमर्दने ॥
इक्षुदानं प्रशंसन्ति सोमनस्यहिताय च ॥ १० ॥
मदक्षीणेपु नागेषु हिताः पथ्यास्तथैव च ॥
मेदसो वर्धनाश्चैव पित्तरक्तविनाशनाः ॥ ११ ॥
शुक्रवृद्धिकराश्चैव क्षीणधातुविवर्धनाः ॥
बृंहणा जङ्गलाः स्निग्धाः पिच्छलाः कफवर्धनाः ॥ १२ ॥
तुष्टिपुष्टिकराश्चैव च्छवीरोमप्रसादनाः ॥
मधुराश्चापि(वि)दाहाश्च श्रमदोषहराः² स्मृताः ॥ १३ ॥
तस्मिन्काले प्रदातव्यमिक्षुं कृत्याह(?) हस्तिने ॥
ग्रीष्मकाले तु नागानां त्र्यहं कण्ठस्य मोक्षणे ॥ १४ ॥
वर्षासु सप्तरात्रेण हेमन्ते दशमेऽहनि ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ १५ ॥

  • धनुश्चिह्नान्तरगतो भ्रष्टः पाठः कपुस्तकात् । † 'तांस्ते' इत्युचितम् ।
    १ क. °पीडिते ॥ १७ ॥ २ क. अश्रदोषहराः ।

१३. नस्यदानविध्यध्यायः ] हस्त्यायुर्वेदः । ६३३
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थान इक्षुदानविधि-
कथनं नाम द्वादशोऽध्यायः ॥ १२ ॥
अथ त्रयोदशोऽध्यायः ।
अत ऊर्ध्वं नस्यकर्मविधिं व्याख्यास्यामः ।
अथ खलु प्रवरमध्यमावराणां नागानां सुसरोवृष्टिसिक्तसलिलभूमिभागमगृह-
धूपितां पुष्पाहघोषेण निष्कल्मषीकृतां मनोज्ञां शालां भिषग्यथोपदिष्टमर्गला-
यन्त्रमुपकल्प्य सुप्रतिविहितपरिचारकस्य जघननिषण्णस्योर्ध्वग्रीवस्योर्ध्वतो हस्तं
कृत्वाऽवसेचयेदशिथिलमनतिबद्धमतिपीडितमवलीकमूच्छ्वारयित्वाऽर्गलायन्त्रे
विषाणयोर्निपमनं कृत्वा ततः सुप्रतिष्ठितकायं वारणं स्नापयित्वा भिषक्क्रमशा-
लामधिरुह्य हस्तिहस्तश्रो(स्रो)तसि दक्षिणं पूर्वमभिषिच्य वस्त्र

कलाप्रमाणं निमेषतृषनं दद्यात् । यदा ज्ञानात्प्रमादाद्वा भिषगप्रमाणेन चिर-
कालं धूपयति, तदाऽस्य मुखशोषो भवति । न त्वत्पथं पयसकुवलं च पल्लवं
च शुष्कोष्ठकण्ठहृदयतालूनामेतेषामतिधूपनाच्छोषितबलानां पयसोपसेचनं
पुनः पुनः प्रसादनमाहुराचार्याः । नस्यकर्मप्रधानमेतेनैव विधिना विरिक्ताधैका-
पस्याभुक्तवतः पूर्वाह्ने मृदुस्नेहपाकमुपकल्पयेत् ॥
यथाव्याधिप्रमाणेनौषधद्रव्यैः क्षीरविपाकैः साधयित्वा द्वादशाङ्गुलायतेन
षोडशाङ्गुलपरिणाहेन कोलस्रोतःप्रमाणेन चिरकालं बस्तिना पीडयेत् । तत्र
स्नेहप्रमाणं द्रोणे प्रस्थप्रमाणं दद्यात् ।
षडङ्गुलानि विस्तारादुत्सेधाच्चतुरङ्गुलः ॥
प्रस्थः सर्वप्रमाणेषु स्वकैरङ्गुलपर्वभिः ॥
एतेनेव प्रमाणेन स्नेहविधिप्रमाणं विज्ञाय तस्यानुषेकं दद्यात्, क्षीरदाने
यथापूर्वमभिहितम् । *हस्तक्षान्तिमस्य यथोक्तं सेवेत । एतेनैव विधानेन
मासार्धमर्धमासं वा यावद्वा साधु मन्येत, तावद्देशकालबलनिश्चयं यथार्थतो
विज्ञाय नस्यकर्म कुर्यात् । यथाकृतकर्माणं वारणं पयसा सर्पिषा वा यथानु-
भागप्रमाणं चतुर्थागमेव चारयित्वा भोजनं दद्यात् । भोजयित्वा मृदुवस्त्रेण
प्रच्छादयित्वा सुखोदकानुपानं दद्यात् । अनुपानप्रयोजनं त्वन्नपाने द्रवीकृतोऽ-
'स्याऽऽहारोऽन्तर्भूतोभिमसंघातः सम्यक्पाकमुपगच्छति ॥
तत्र श्लोकौ—
या स्नेहमात्रा तु यथावदुक्ता गजप्रमाणे विहिता पुरस्तात् ॥
सा कोष्ठमागम्य रसत्वमेत्य बलं तु नागे जनयत्यभीक्ष्णम् ॥ १ ॥
अग्निं बलं वाऽपि हि वर्धयित्वा कण्ठोरसोः पार्श्वकटित्रिकाणाम् ॥
संघातवर्णौ मनसः प्रसादं दधाति नस्यं द्विरदेषु दत्तम् ॥ २ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने नस्य-
दानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ चतुर्दशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अञ्जनानां क्रियायोगो भगवन्वक्तुमर्हसि ॥ १ ॥

  • 'हस्तिशान्ति' इति भवेत् ।

१४ अञ्जनदानाध्यायः ] हस्त्यायुर्वेदः । ६३५
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
शृणु मे निखिलं राजन्नञ्जनानामिमं विधिम् ॥ २ ॥
नखदन्तास्थिरोमाणि केशा वालास्तथैव च ॥
प्राणिनां खुरशृङ्गाणि लेखनायोपयोजयेत् ॥ ३ ॥
रोध्रादिद्रुमसाराश्च पाषाणा ये च केचन ॥
शङ्खदंष्ट्रा नखाः शुक्त्यो मणिर्मुक्ताश्च सर्वशः ॥ ४ ॥
वज्रप्रवाललवणं फलसाराश्च ये द्रुमाः ॥
मत्स्यकूर्मकपालानि यच्च किंचन संहतम् ॥ ५ ॥
तत्सर्वं संस्कृतं द्रव्यं तथाऽभ्रपटलान्यपि ॥
लेखनायोपयुज्यन्ते प्रधानं तत्र वक्ष्यते ॥ ६ ॥
सुवर्णं रजतं ताम्रं सीसं कालायसं त्रपुः ॥
मणिमुक्ताप्रवालाश्च गजमुक्ताश्च शृङ्गजाः ॥ ७ ॥
ससारगङ्गास्फटिका वैदूर्यरुचकावपि ॥
अर्को विमलकश्चैव गोमेदाञ्जलपूलिकाः ॥ ८ ॥
सौगन्धिको लोहिताक्षस्तथा क्षीरपकश्च यः ॥
तथा हस्तिवराहाणां व्याघ्रसिंहनखावपि ॥ ९ ॥
पाठीनरोहितास्थीनि कपालं कमठस्य च ॥
शशमूर्धकपालानि गोपाश्र्वौ महिषस्य च ॥ १० ॥
फलसारान्हरीतक्या बदर्याः किंशुकस्य वा ॥
आमलक्याः सखर्जूरी द्रुमसाराः सचन्दनाः ॥ ११ ॥
समुद्रफेनः शङ्खश्च गर्दभस्य च पार्श्वकाः ॥
कुक्कुटाण्डकपालानि हंसस्य बर्हिणोरपि (?) ॥ १२ ॥
रजस्ताम्रायसं चैव निर्यासः खदिरस्य च ॥
पलाशमेषशृङ्गयोश(श्च) निम्बस्य कुटजस्य च ॥ १३ ॥
पेषणार्थं प्रसन्ना वा मातुलुङ्गरसोऽपि वा ॥
एतद्रसाञ्जनं नाम श्रेष्ठं काचापकर्षणम् ॥ १४ ॥
पिप्पलीनां मषीं कृत्वा वस्त्रेण परिगालिताम् ॥
केशाः कूर्मपलाशानि सैन्धवं लशुनाञ्जनम् ॥ १५ ॥
एंतानि समभागानि पीषयेच्छ्लक्ष्णचूर्णिताम् ॥
एतद्रसाञ्जनं नाम श्रेष्ठं काचापकर्षणम् ॥ १६ ॥
१ क. ॰मेदो जल॰ । २ क. ॰नि पेष॰ ।

६३६ पालकाप्यमुनिविरचितो— ११० उत्तरस्थाने—
(*कुक्कुटाण्डकपालानि शङ्खः काचोप(थ) बन्धनम् ॥
पालकाप्योऽब्रवीद्राजाय गवाञ्च लेखनाञ्जनम् ॥ १७ ॥
अर्कस्फटिकवैडूर्यहरितालं मनःशिला ॥ )
कुक्कुटाण्डकपालानि हंसबर्हिणयोरपि ॥ १८ ॥
चन्दनं हरितालं च मुस्ता कालानुसारिवा ॥
मरिचानि च शुक्लानि लेखनीयं तदञ्जनम् ॥ १९ ॥
अनाबिलं सुप्रसन्नं शुद्धं स्फटिकमानयेत् ॥
सुवर्णेनोपमृष्टं तु सौवर्णे राजते स्थितम् ॥ २० ॥
कुष्ठं हरिद्रा नलदं पिप्पल्यो मरिचानि च ॥
अञ्जयेद्द्विपमेतेन परं हि तदौषधम् ॥ २१ ॥
वसन्ते यवशूकानि परिशुष्काण्युपाहरेत् ॥
तान्युषित्वा त्वजाक्षीरं रात्रीर्दश च पञ्च वा ॥ २२ ॥
तत उद्धृत्य शुष्काणि चूर्णं दृषदि कारयेत् ॥
कुक्कुटाण्डकपालेश्च हंसशङ्खमुस्रस्य च ॥ २३ ॥
अञ्जयेन्मधुना मिश्रं काचाकर्षणमञ्जनम् ॥
अमृतासंज्ञां भद्रां च नाकुली गन्धनाकुली ॥ २४ ॥
एतत्प्रसन्नया पिष्टं लेखनं श्रेष्ठमञ्जनम् ॥
शुण्ठ्या वा दधिमण्डश्च पिप्पल्यः सैन्धवस्तथा ॥ २५ ॥
किञ्जल्कं फाणितं किण्वं तथैव यवसक्तवः ॥
तण्डुलीपकमूलं च समभागं च कारयेत् ॥ २६ ॥
तैर्लिम्पेच्छ्लक्ष्णपाषाणं स्वेदयेच्चापि वेष्टितः ॥
अजाकरीषसुस्विन्नमजामूत्रेण पेषयेत् ॥ २७ ॥
एतल्लोहितकं सम्यगञ्जनं लेखनं भवेत् ॥
वसन्ते चैव पुष्पाणि सर्वाण्येव समाहरेत् ॥ २८ ॥
पेषयेत्तानि वैकत्र पिप्पलीलवणेन वा ॥
दृशः प्रसादनार्थाय एतच्छ्रेष्ठं हि भेषजम् ॥ २९ ॥
किंशुकस्य च पुष्पाणि मधुरं शर्करान्वितम् ॥
एतत्क्षौद्रेण संयुक्तं शीतलं परिषेचनम् ॥ ३० ॥

  • धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ॥

त्रिफला सर्वरोगेषु आचार्यैरभिपूजिता ॥
मधुना सह युक्ता च शीतला परिषेचने ॥ ३१ ॥
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ॥
सैन्धवाञ्जनलोहानामेकैको भाग इष्यते ॥ ३२॥
अजाक्षीरेण संपिष्टा कण्डूतिमिरनाशिनी ॥
त्रिफला च समैर्भागैः सैन्धवं च समं भवेत् १ ॥ ३३ ॥
मधुना च समायुक्तं कण्डूनाशनमञ्जनम् ॥
आटरूषकपत्राणि तथा मरुवकस्य च ॥ ३४ ॥
उलूखले क्षोदयित्वा निस्त्राव्य स्वरसं ततः ॥
तेन शीतकषायेण परिषेकोऽक्षिरोगिणाम् ॥ ३५ ॥
कर्तव्यः सिद्धिकामेन वारणानां सुखावहः ॥
निस्तुषामाविकल्कं गोमूत्रे परिषेचयेत् ॥ ३६ ॥
अर्धमासस्थितां शुष्कां श्लक्ष्णां दृषदि पेषयेत् ॥
उदुम्बरसमुद्गे तु संसृजेन्मधुसर्पिषः ॥ ३७ ॥
एतदञ्जनमिच्छन्ति दन्तिनां शुक्रनाशनम् ॥
चतुणां क्षीरवृक्षाणां त्वचस्तु समभागिकाः ॥ ३८ ॥
नवे कुम्भे सुविहिता त्रिरात्रमधिवासयेत् ॥
तत्परिश्रा(स्रा)व्य वस्त्रेण परिषेको विधीयते ॥ ३९ ॥
शिरोलेपश्च कर्तव्यो नेत्रपाकविनाशनः ॥
क्षीरवृक्षमवालांश्च निचुलं रोध्रमेव च ॥ ४० ॥
मांसी च समभागा तु क्षोदयित्वा विचक्षणः ॥
जलक्षीरसमायुक्तः परिषेको विधीयते ॥ ४१ ॥
नेत्ररोगहरो राजन्दन्तिनामिह पूजितः ॥
मृगवह्लीफलस्यापि कोशं कृत्वा विचक्षणः ॥ ४२ ॥
पूरयेन्नवनीतेन सुसुगन्धेन २ संपुटम् ॥
तत्र भोर्जपुटं दत्त्वा राजंस्तत्र समावृतः ॥ ४३ ॥
तोयपूर्णेन कुम्भेन स्थापयेत्तु विचक्षणः ॥
त्रिरात्रमुस्वि(षि)तं तस्मान्नेत्राभ्यङ्गो विधीयते ॥ ४४ ॥
प्रवालकीं सप्तलां नालीं तु विनिहन्ति तु ॥
पिप्पल्यो मरिचं चैव सैन्धवं समनःशिला(ल)म् ॥ ४५ ॥
१ क. स्यात् । २ ख. घ. ससुबन्धेन ।

२२४ पालकाप्यमुनिविरचितो- [४ उत्तरस्याने-
नक्रव्याघ्रनखं पद्मं कासीसं रोचनां मधु ॥
मणिप्रवालमुक्ता च शृङ्गं तु शंबरस्य तु ॥ ४६ ॥
वैदूर्यं शङ्खनाभिश्च लवणं रोमकं तथा ॥
एतानि समभागानि कारयेत्तु विचक्षणः ॥ ४७ ॥
वेसवारे समुद्गे तु सर्वमेतन्निधापयेत् ॥
अञ्जनं दशरात्राणि दन्तिनां चाक्षिरोगनुत् ॥ ४८ ॥
त्रिफलामधुसंयुक्तमञ्जनं सर्वरोगिणाम् ॥
सैन्धवं त्रिफला चैव पिप्पली मरिचानि च ॥ ४९ ॥
समुद्रफेनं शङ्खं च शर्करां समनःशिलाम् ॥
अञ्जनानि समांशानि यष्टीमधुकमेव च ॥ ५० ॥
समानीय महाराज सलिलेन प्रपोषयेत् ॥
ततस्तु गुलिकां कृत्वा वारणं सम्यगक्षयेत् ॥ ५१ ॥
सर्वांश्च वातजान्रोगान्कफपित्तकृतांस्तथा ॥
तिमिरं पटलं काचं ग्रावरं च निहन्त्यपि ॥ ५२ ॥
विजया नाम गुलिका व्याख्याता नेत्ररोगिणाम् ॥
अञ्चितस्याथवा स्थानं निवातं शीतलं हितम् ॥ ५३ ॥
निष्क्वाथं परिषेकार्थमिममस्य तु कारयेत् ॥
आटरूषकपत्राभ्यां नेत्रयोः परिषेचनम् ॥ ५४ ॥
इदमञ्जनं नागानां सर्वनेत्ररोगहरम् ॥
इति श्रीविजया गुटिका ।
हीवेरकमूशीरं च कुष्ठमेला तथैव च ॥
रोधं प्रियङ्गुमञ्जिष्ठा हरितालं मनःशिला ॥ ५५ ॥
एतां वर्तिं भिषक्कुर्याच्छायायां परिशोषिताम् ॥
सलिलेनोपसंघृष्य चक्षुषी नित्यमक्षयेत् ॥ ५६ ॥
एष(षा)पित्तं च दाहं च रक्तं च शमपत्यपि ॥
प्रपौण्डरीकं मधुकं यवाश्चाऽऽमलकानि च ॥ ५७ ॥
सुमनापल्लवान्येव समभागानि कारयेत् ॥
तथा दारुहरिद्रां च तत्सर्वं परिणामयेत् ॥ ५८ ॥
१ ख. घ. केसवरे ।

१४ अञ्जनदानाध्यायः ] हस्तायुर्वेदः । १६९
नेत्राणां श्रा(स्रा)विणामेषा श्रेष्ठा प्रोक्ता रसक्रिया ॥
क्षेक्षिपाकं च कण्डूं च क्लेदं चैवं प्रणाशयेत् ॥ ५९ ॥
यावदेव कषायं तु तावदद्याद्रसाञ्जनम् ॥
तच्छनैः साधयेद्वेह्नः सिद्धमेवावतारयेत् ॥ ६०¹ ॥
शृतं ते(तु) नेत्रसंयुक्तं ताम्रपात्रे निधापयेत् ॥
प्रपौण्डरीकाद्या रसक्रिया कण्डूत्क्लेददाहपाकहरा ॥ ६१ ॥
—:(०):—
पटोलं पिचुमन्दं च सुरसाऽऽमलकीति वा ॥
हरिद्रा त्रिफला रोध्रं सुमनःपल्लवानि च ॥ ६२ ॥
करञ्जस्य च बीजानि पत्राणि सुरसस्य च ॥
मधुकं च गुडूची च तोयेन सह साधयेत् ॥ ६३ ॥
तत्कषायं परिश्चा(स्रा)व्य पुनरेतदधिश्रयेत् ॥
रसा(?)क्रियां सुनिर्वृत्तामथ तामवतारयेत् ॥ ६४ ॥
अञ्जयेदेतया नेत्रे गजस्य मधुमिश्रया ॥
कण्डूं व्यपनयेदेषा व्रणं दृगुपरोहयेत् ॥ ६५ ॥
अर्कपुष्पाणि कासीसं तुत्थं लोहाञ्जनं तथा ॥
रसश्चैवाथ ताम्रस्य दध्नाऽऽम्लेन प्रपीषयेत् ॥ ६६ ॥
.एतत्क्लेदे च पाके च परिश्चा(स्रा)वेऽथ शस्यते ॥
आमलक्याः शिरीषस्य शल्लकीकिरवालयोः ॥ ६७ ॥
पात्राण्याहृत्य सर्वेषां कल्कमेकत्र कारयेत् ॥
तं कल्कं कारयित्वा तु च्छायायां परिशोषयेत् ॥ ६८ ॥
मनःशिलोपसंहृत्य शङ्खनाभिं तथैव च ॥
एतया दन्तिनां नित्यं तिमिरानञ्जयेद्भिषक् ॥ ६९ ॥
गुडश्च मधुकं चैव हरिद्रा सैन्धवं तथा ॥
वर्तिः क्षौद्रेण संयुक्ता नक्तान्धस्याञ्जने हिता ॥ ७० ॥
हरीतकीश्च संहृत्य शुङ्गवेरमयो रजः ॥
एतत्त नाञ्जनं श्रेष्ठं तिमिरस्य प्रसादनम् ॥ ७१ ॥
उत्पलं मधुकं चैव गैरिकं रोध्रमञ्जनम् ॥
समभागानि संहृत्य पिष्ट्वा धात्रीरसेन तु ॥ ७२ ॥
१. ख. घ. अक्षपाकं ।

[६४८] पालकाप्यमुनिविरचितो— [४ उत्तरस्थाने-

सिक्त्वा तेन श्लक्ष्णया च कल्कं साधयेच्छनैः ॥
सोवाञ्जनसमं कृत्वा रूपमूर्ध्वां तु कारयेत् ॥ ७३ ॥
एतच्चूर्णाञ्जनं श्रेष्ठं शीतं पित्तप्रसादनम् ॥
पैत्तिकेष्वपि रोगेषु रक्तजेषु प्रशस्यते ॥ ७४ ॥
अरुणं वातिकं विद्यान्नीलं भवति पैत्तिकम् ॥
श्वेतं तु कफजं विद्याद्बहुवर्णं कदम्बजम् ॥ ७५ ॥
जलबुद्बुदसंकाशं शुक्रमित्युपधारयेत् ॥
धातुप्रकोपजं यत्तु पटलं चैव कीर्तितम् ॥ ७६ ॥
प्रतिच्छन्नं तु यन्मध्ये ह्रस्वं भवति मण्डलम् ॥
चतुष्प्रकारं तच्चापि शुक्रमित्युपधारयेत् ॥ ७७ ॥
शिरोजालावृतं यच्च वीयते नयने तु यत् ॥
तदर्ममिति जानीयादसाध्यमिति वा पुनः ॥ ७८ ॥
इत्येते मारुतात्पित्ताच्छ्लेष्मणः शोणितात्तथा ॥
दन्तिनां नेत्रजा रोगा समुद्दिष्टा यथाक्रमम् ॥ ७९ ॥
एतेषां लक्षणं बुद्ध्वा व्यक्ताव्यक्तेन हेतुना ॥
निदानेन यथोक्तेन ततः कुर्याच्चिकित्सितम् ॥ ८० ॥
वातघ्नीं वातिके कुर्यात्पित्तघ्नीं पैत्तिके क्रिया(म्) ॥
अवशे(से)कं यथाशास्त्रं घृतपानं तथैव च ॥ ८१ ॥
विधिवच्च परीषेकं तथैवाश्च्योतनानि च ॥
शिरसश्चापि सेकाय प्रतिपन्नानि यानि च ॥ ८२ ॥
रसक्रिया यथोक्ता च चूर्णञ्जनानि यानि च ॥
सर्वाणि तानि मेधावी दृष्ट्वा सम्यगुपाचरेत् ॥ ८३ ॥
व्याधिं देशं च कालं च गजस्य च बलाबलम् ॥
इमे तु खलु रोगेषु सर्वेष्वेव प्रकीर्तिताः ॥ ८४ ॥
लेख्या साधारणा योग्या साध्यानामनुपूर्वशः ॥
अभयां चैव शुण्ठीं च कासीसमथ पिप्पलीम् ॥ ८५ ॥
सैन्धवं बृहतीमूलं कल्कमेकत्र कारयेत् ॥
वारिणाऽच्छेन संसृत्य कृतं तं साधयेच्छनैः ॥ ८६ ॥
घनीभूतं यदा विद्यात्तदेनमवतारयेत् ॥
निधाय भाजने शुचौ नेत्रे नागस्य चाऽञ्जयेत् ॥ ८७ ॥


१ क. अवशेकं । २ क. चूर्णान्यञ्जनानि ।

: [ १४ अञ्जनाध्यायः ] हस्त्यायुर्वेदः ६४१
: पटलं शुक्रकाचौ च तथैवार्मानि यानि च ॥
: क्षौद्रेण सह संयुक्तं हन्ति सर्वानुपद्रवान् ॥ ८८ ॥
: मनःशिलां ताम्रचूर्णं मधुकं बृहतीफलम् ॥
: यावदेतानि सर्वाणि तावत्सैन्धवमाचरेत् ॥ ८९ ॥
: अजाक्षीरेण तत्सर्वं श्लक्ष्णं दृषदि पीषयेत् ॥
: तं कल्कं कारयेद्वर्तिं छायायां परिशोषयेत् ॥ ९० ॥
: सलिलेनोपसंघृष्य चक्षुषी नित्यमञ्जयेत् ॥
: लेखयेत्पटलं तच्च शुक्राणि विविधानि च ॥ ९१ ॥
: बिभीतकपलाशानां भस्म शङ्खमयो रजः ॥
: सैन्धवं च समांशानि सर्पिषा सह साधयेत् ॥ ९२ ॥
: कपाले तानि लिप्तानि दाहयेद्रोमयाग्निना ॥
: तां मषीं १पीषयेच्छ्लक्ष्णां क्षौद्रेण सह संसृजेत् ॥ ९३ ॥
: पटले बुद्बुदे चैव गूढे कुर्यात्तदञ्जनम् ॥
: लेख्या लेख्यास्तु ये चान्ये तथा रोगा पृथग्विधाः ॥ ९४ ॥
: रक्तजेषु तु रोगेषु ताम्रं भवति लेखनम् ॥
: त्रिभागमर्धशुक्रं वा रुधिरेणाप्लुतं तथा ॥ ९५ ॥
: नेत्रराजीस्तु ताः प्राहुस्तिर्यगूर्ध्वप्रसारिताः ॥
: तासां योगे भवेदस्रं दारुणं तीव्रवेदनम् ॥ ९६ ॥
: पैत्तिकानां च रोगाणां समवायोपलक्षिते ॥
: काचाक्षं पूर्वयुक्तानां रक्ताभिष्यन्दितेषु च ॥ ९७ ॥
: अथवा रुधिरं यस्य यस्मात्प्रवति चक्षुषी ॥
: रुधिरोदकपूर्णे वा रक्तस्रावीति तद्विदुः ॥ ९८ ॥
: शिरसस्त्वभिघातेन चक्षुषी यस्य हस्तिनः ॥
: संरम्भलोहिते स्यातां शृणु तस्य चिकित्सितम् ॥ ९९ ॥
: अपसेकादि यत्किंचित्पैत्तिकानामुदाहृतम् ॥
: विधिः २सर्वस्तु पूर्वोक्तो रक्तजानां विधिस्तथा ॥ १०० ॥
: त्रिकटुत्रिफलासमुद्रफेनशङ्खनाभिहरिद्रादारुहरिद्राहरितालमनःशिलाकुकु-
: टाण्डकपालानि स्वर्णगैरिककालानुसारिवाल्शुनं तुत्थमयं चूर्णं मृद्वीकाशबर-
: मक्षिकाप्तसमभागानि कृत्वाऽक्षिसर्वरोगशिरोरोगवेदनोपशमनीकायपुष्पपटलवुद्बु-
: दमांसवृद्धिलोहितराजीश्च जयति ।
: १ क. पीषयेत्सूक्ष्मां । २ क. सर्वस्य ।

इति नीलमेघा नाम गुटिका ।
यकृद्राजं तु संछिद्य पूर्वजैरेभिरोषधैः ।
मेदा चैव महामेदा जीवकर्षभकावपि ॥
काकोली क्षीरकाकोली मुद्गपर्णी तथैव च ।
माष(ष)पर्ण्यश्वगन्धे च सर्वं श्लक्ष्णं प्रपोषयेत् ॥
एभिर्यत्तत्समालोड्य परिच्छन्नं समाहितम् ।
एरण्डपत्रैः संस्थाप्य गोमयेन प्रलेपयेत् ॥
बहिर्मृत्तिकयाऽऽलिप्य निर्धूमेऽग्नौ प्रदापयेत् ।
तत्सिद्धमभिविज्ञाय पीषयित्वा समाहितम् ॥
कदुष्णं रसमादाय नेत्रे नागस्य पूरयेत् ।
पूर्वस्निग्धस्य नेत्रस्य स्वेदं कुर्याद्विचक्षणः ॥
निर्वापणार्थं नेत्रस्य मन्थजेन तु सर्पिषा ।
सर्वांश्चैवाक्षिरोगांश्च हन्ति सत्यं न संशयः ॥
आज्यं पयो वा कथित्ताम्बुमिश्रमाजं पयो वाऽपि तुषारमिश्रम् ।
गवां पयश्चेक्षुरसेन युक्तं नारीपयः शर्करयाऽथ मिश्रम् ॥
परिषेचनार्थे नित्यं हितं .... .... .... ।
निष्पावमात्रो नागानां कल्कस्तीक्ष्णाञ्जनस्य तु ॥
तस्यार्धं मध्यमस्याथ मृदुनो द्विगुणो भवेत् ।
कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनस्य तु ॥
सिद्धिं चिरोत्थं न कदापि याति नेत्रामयं स्वेदितमात्रवीर्यात् ।
वैद्यः सदेमान्नृप कुञ्जराणां प्रयोजयेद्योगवरांश्र सिद्धयै ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने
चतुर्दशोऽञ्जनाध्यायः ॥ १४ ॥


अथ पञ्चदशोऽध्यायः ।
पालकाप्यो मुनिश्रेष्ठो यदङ्गापामवीत्पुरा ॥
यथानुमानं नागानां तदिदं संप्रवक्ष्यते ॥ १ ॥
भूतानि कलयत्येष कलाभिर्वा विभज्यते ॥
एतत्कालस्य कालत्वं स तु संवत्सरः स्मृतः ॥ २ ॥


१ ख. श्रमं । २ क. ॰मानं प॰ । ३ क. सिद्धं । ४ क. ॰चक्षते ।

११ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । ६६१
एवमेकविधः कालो द्विविधोऽयनभेदतः ॥
अयने द्वे समाख्याते दक्षिणोत्तरसंस्थिते ॥ ३ ॥
आदानं च विसर्गश्च संज्ञे द्वे कीर्तिते मया ॥
उत्तरायणमादानं विसर्गो दक्षिणायनम् ॥ ४ ॥
तत्र त्वादानमाग्नेयं विसर्गः सौम्य उच्यते ॥
शिशिरश्च वसन्तश्च ग्रीष्मश्चाऽऽदानमुच्यते ॥ ५ ॥
विसर्गे वर्ष(?)विज्ञेयः शरद्धेमन्त एव च ॥
विसर्गे वायवो वा(वा)न्ति नात्यर्थं रूक्षदारुणः(णाः) ॥ ६ ॥
गुणैराप्यायते सोमश्वांशुभिः पूरयञ्जगत् ॥
शश्वदाप्यापयतयेवं यद्बलं विसृजत्यलम् ॥ ७ ॥
प्रवृत्तौ च निवृत्तौ च ज्ञेयं पर्याययोगतः ॥
रसौ तत्राम्ललवणौ मधुरश्चापि इष्यते ॥ ८ ॥
स्निग्धत्वाच्चापि कालस्य सौम्यत्वाच्च निसर्गतः ॥
यथाक्रमं बलं तेजो जायते तत्र हस्तिनः ॥ ९ ॥
आदाने रूक्षपरुषा दारुणा वान्ति वायवः ॥
उत्तराभिमुखे सूर्ये चन्द्रसैन्यं विहन्यते ॥ १० ॥
विवस्वानंशुभिस्तीक्ष्णैर्जगत्स्नेहं प्रकर्षति ॥
तस्मादादानमाग्नेयमृषयः परिचक्षते ॥ ११ ॥
कालस्वभावमार्गस्य तथेश्वरपरिग्रहात् ॥
वाय्वर्कसोमा जगतो हेतुभूता न संशयः ॥ १२ ॥
कालं तु रसदोषाणां तथा देहबलस्य च ॥
प्रवृत्तौ च निवृत्तौ च ज्ञेयाः (?) पर्याययोगतः ॥ १३ ॥
यथाक्रमं रौक्ष्यवृत्तिरादानस्योपदिश्यते ॥
तस्माद्रूक्षा रसास्तत्र विवर्धन्ते क्रमात्त्रयः ॥ १४ ॥
तिक्तः कषायः कटुकश्चतुर्थो नास्ति कश्चन ॥
क्रमाद्दौर्बल्यमिच्छन्ति प्राणिनां रससेवनात् ॥ १५ ॥
रसश्चाम्लोऽथ लवणो मधुरश्च विवर्धते ॥
स्निग्धत्वाच्चापि कालस्य सौम्यत्वाच्च निसर्गतः ॥ १६ ॥
१ क. ॰दूसर॰ ।

यथाक्रमं बलं चैव योजन(प)न्त्यत्र हस्तिनाम् ॥
इत्युक्तो द्विविधः कालस्त्रिविधः *संप्रवक्ष्यते ॥ १७ ॥
शीतोष्णवर्षलिङ्गस्तु चतुर्मासविभागशः ॥
१षड्धंस्त्वेष भेदेन निसिद्धः *संप्रवक्ष्यते ॥ १८ ॥
हेमन्तः शिशिरश्चैव वसन्तो ग्रीष्म एव च ॥
वर्षा शरच्च ऋतवः षडुक्ताः कालचिन्तकैः ॥ १९ ॥
हेमन्ते हिमतेजोभिरंशुभिर्भगवान्रविः ॥
न तापयति भूतानि न च कर्षयति प्रजाः ॥ २० ॥
खे नीचैश्चन्द्रमा याति किरणैर्योजयन्प्रजाः ॥
मृदुशीतश्च पवनो वाति कालस्वभावतः ॥ २१ ॥
तस्मात्तस्मिन्नृतौ यान्ति विवृद्धिं मधुरा रसाः ॥
बलवन्तस्तु तेनात्र नागास्तु रससेवनात् ॥ २२ ॥
पित्तं तेषां शमं याति रसयोगात्समीरितम् ॥
चयं गच्छति च श्लेष्मा शोणितं च प्रसीदति ॥ २३ ॥
बलिनः शीतसंरोधात्तदेषां पावको बली ॥
द्रव्यमात्रागुरुसहो भवत्यवहितः ²पचन् ॥ २४ ॥
आयुक्ते त्वनलीभात्तु(?) स हिनस्ति शरीरजम् ॥
हेमन्ते त्वनिलः शीतः शीतकाले प्रकुप्यति ॥ २५ ॥
स गैरकः सर्वसेकस्तस्मादस्मिन्नृतौ चरः ॥
स्थानानि च निवातानि निष्कर्दमजलानि च ॥ २६ ॥
शय्याभागाश्च मृदवः सकरीषास्तुता हिताः ॥
आतपासेवनं चात्र कौपं तोयं च शस्यते ॥ २७ ॥
स्थलजं जाङ्गलं चात्र ३हस्तिनां यवसं हितम् ॥
सकृद्देवावगाहश्च कर्म चात्र विधीयते ॥ २८ ॥
शालीनां षष्टिकानां च द्विकालं मृदुभोजनम् ॥
भोजयेद्वारणं स्निग्धैर्युक्ताम्ललवणै रसैः ॥ २९ ॥
प्रसहानूपजलजैर्मांसपुटैर्यथाविधि ॥
वेसवारयुतैश्चात्र भोजनार्थं प्रशस्यते ॥ ३० ॥

  • 'वक्ष्यते' इति तूचितम् ।
    १ क. °त्यागस° । २ क. पतन् । ३ क. हस्तिनं ।

१९ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । ६४५
सुरा च प्रतिपानार्थं पञ्चभिर्लवणैर्युता ॥
सततं शस्यते चात्र शिरश्चरणरक्षणम् ॥ ३१ ॥
मषीयुक्तेन तैलेन शिरोभ्यङ्गश्च पूजितः ॥
पूर्वरात्राच्चतुर्भागं तथैवापररात्रिकम् ॥ ३२॥
प्रयत्नाच्चारयेन्नागं दिवसाल्पतया बुधः ॥
एवमायुर्बलं वीर्यं जवस्तेषां महीपते ॥ ३३ ॥
हेमन्ते यदुपाश्नन्ति वृक्षान्स्निग्धान्गुरून्गजाः ॥
आहारांस्तेन जीवन्ति तद्वर्षं नात्र संशयः ॥ ३४ ॥
शिशिरे हिमनीहारमारुतैर्भास्करांशवः ॥
सहिता न प्रकाशन्ते दिशश्च तमसाऽऽवृताः ॥ ३५ ॥
आदानपोगाद्रूक्षेऽतिशीतश्चापि प्रभञ्जनः ॥
वाति तिक्तो रसस्तस्मात्तस्मिन्काले विवर्धते ॥ ३६ ॥
दारुणत्वादृतौ तस्माद्रौक्ष्यं भवति दन्तिनः ॥
विधिस्तत्रापि सर्वोक्तः कर्तव्यः शिशिरे बुधैः ॥ ३७ ॥
शिशिरः किंचिदधिकः प्रोक्तो हेमन्तकालतः ॥
तस्माद्विशिष्यते तस्मिन्नृतौ तत्र प्रच(त्व)क्ष्यते ॥ ३८ ॥
तदा गजानां शालासु ज्वलयेत्तु हुताशनम् ॥
कम्बलावरणं चात्र शीतत्राणार्थमिष्यते ॥ ३९ ॥
तृणं पुलाकोपनाहस्तिक्षवश्चैव दन्तिनाम् ॥
ग्रासार्थं वृक्षभागांश्च शस्तं कोष्णं च भोजनम् ॥ ४० ॥
उष्णपिण्डः प्रदातव्यः कफवातहरः सदा ॥
आर्द्रकं मरिचं कृष्णा सैन्धवं च जवानिका ॥ ४१ ॥
शतपुष्पाऽजमोदा च सर्वाण्येकत चूर्णयेत् ॥
यावन्त्येतानि सर्वाणि तावन्मात्रो भवेद्गुडः ॥ ४२ ॥
हेमन्ते शिशिरे पिण्डः करिणां वह्निवर्धनः ॥
वातश्लेष्मप्रशमनो बलवर्णकरः परः ॥ ४३ ॥
मद्यानुपाने परमो रसायनविधिर्मतः ॥
(इति) ऋतुपिण्डः ।
प्रतिमानं प्रसन्ना च लवणं त्र्यूषणायुतः ॥ ४४ ॥


१ क. ०रात्रक० ।

सर्वसेकश्च तैलेन विहितो गैरिकाप्लुतः ॥
परिवाह्यांश्च मातङ्गा( ?) सकृदेवावगाहयेत् ॥ ४५ ॥
मेघमारुतवर्षोष्णशीतसंवृद्धितास्तथा ॥
शिशिरान्ते कफोद्रेकः पानात्ययनयोगतः ॥ ४६ ॥
सूर्यस्तपति चात्यर्थं वर्धन्ते दिवसास्तथा ॥
मेदुराः सुकुमाराश्च गजास्तैजोधिका भृशम् ॥ ४७ ॥
स्वल्पसंतापतो ह्येषां तस्माद्विष्यन्दते कफः ॥
वसन्ते नातिशीतांशुः सविता शीतमम्बु च ॥ ४८ ॥
पवनो नातिशीतोष्णो मङ्गां सर्वः प्रकाशते ॥
साधारणे तत्र काले गजानां वर्धते रसः ॥ ४९ ॥
श्लेष्मा प्रकोपमायाति सौमनस्यं च जायते ॥
धातुसौ(सा)म्यं च नागानां जायते कारणैरिमेः( ?) ॥ ५० ॥
हरन्ति पांसुं विशदं शीतमुक्तास्तथा द्विपाः ॥
सलिलानि च पानेषु पिबन्ति च हरन्ति च ॥ ५१ ॥
सस्पसत्पवतीं भूमिं दृष्ट्वा पुष्यन्ति चाधिकम् ॥
सलिलेनाभिसिक्तं च रसवत्तरणं *नृणाम् ॥ ५२ ॥
प्रचारेषूपयुञ्जानाः कामवन्तो मतङ्गजाः ॥
कोकिलाकुलनादैश्च भ्रमराणां च कूजितैः ॥ ५३ ॥
वातेन पुष्पचित्रेण मुखेनाऽऽहिततेजसा ॥
भवन्ति हस्तिनीकामा मन्यन्ते वनजं सुखम् ॥ ५४ ॥
तेषां सुखत्वात्कालस्य रम्यत्वाच्चाथ सर्वशः ॥
†मनस्तुषौ(?) च धातूनां शा(सा)म्यं

१९ अन्नपानगुणाध्यायः ] हस्त्यायुर्वेदः । १४७
अपिबज्जगतः स्नेहमंशुभिः पवनस्तथा ॥
तीव्रो रूक्षः खरो याति परुषः शोषणात्मकः ॥ ६० ॥
रसस्तदा तु कटुकः काले योगो विवर्धते ॥
भवेत्तदा धातुशोषो दौर्बल्यं सर्वदेहिनाम् ॥ ६१ ॥
प्रभवत्यधिकं तृष्णा प्रचयं याति चानिलः ॥
सोमात्मकाः शीतसात्म्या मातङ्गाश्च विशेषतः ॥ ६२ ॥
निदाघकाले जायन्ते नागाः पित्तहता भृशम् ॥
तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥
त्वग्दाहश्च क्षयस्तेषां गच्छतः श्लेष्ममेदसी ॥
हृष्यते रक्तपित्तं च घर्मयोगेन(ण) दन्तिनाम् ॥ ६४ ॥
जलाश्रयाश्रितं स्थानं तस्मिन्काले विधीयते ॥
घनच्छायं प्रभूतं च भूरितोयप्लुतं तथा ॥ ६५ ॥
त्रिस्त्रावगाहयेन्नागं ह्रदे शीते शिवोदके ॥
पूर्वाह्ने वाऽपराह्ने वा मध्याह्ने च विशेषतः ॥ ६६ ॥
हारयेत्कर्दमं शीतं त्वग्दाहविनिवृत्तये ॥
मध्याह्ने चापि शिक्यस्थाः स्रवेयुर्वारिपूरिताः ॥ ६७ ॥
वंशे घटाः शीततोया दृतयश्चैव दन्तिनाम् ॥
एवं दिनोपसेवा च रात्रौ तस्य प्रशस्यते ॥ ६८ ॥
शैय्याभागाश्च शीताः स्युर्मृदुपांशुजलावृताः ॥
निवृत्तिरध्वनश्चास्य कर्मणश्चोपदिश्यते ॥ ६९ ॥
शिरोलेपस्तथा काये शतधौतेन सर्पिषा ॥
• श्रो(स्रो)तःसिद्धिर्भवेत्तेन क्लेदनं चैव चक्षुषोः ॥ ७० ॥
औदकं यवसं चात्र हरितं च प्रदापयेत् ॥
क्षीरिणां चैव वृक्षाणां पल्लवांश्चैव दापयेत् ॥ ७१ ॥
कुल्माषाः पल्लवाश्चापि ससर्पिर्गुडमोदकाः ॥
प्रातराशः ससर्पिष्को गुन्द्रा*वसपयोगुडः ॥ ७२ ॥
रात्रौ च रक्तशाल्यादिभोजनं जाङ्गले रसैः ॥
पयः सर्पिर्विमिश्रं वा शीतमस्मै प्रदापयेत् ॥ ७३ ॥

  • 'सव' इति भवेत् ॥
    १ क. ॰लाशया॰ । २ क. ॰न्द्रावास॰ ।

पयःपानं च गजस्य घर्मकाले प्रशस्यते ॥
पयःपीतस्य वा शस्तो गजस्य रक्तमोक्षणे ।. ७४ ॥
प्रतिपानं गुडयुतं इक्ष्वाकुकमभिहितम् ॥
अविदाहि च यन्मद्यं विहितं तत्तदापयेत् ॥ ७५ ॥
काले तस्मिन्निशा ह्रस्वा कष्टश्चात्र तु जागरः ॥
तस्माद्दिनोपशयानं नार्तिरात्रकृतं भवेत् ॥ ७६ ॥
कट्वम्लोष्णविदाहीनि भोजनान्यौषधानि च ॥
घर्मकाले न शस्यन्ते यवसं तच्च तद्विधम् ॥ ७७ ॥
भाराध्वकर्मयोगांश्च नैव तत्र समाचरेत् ॥
ग्रासाभिजननं बल्यं मनसश्च प्रसादनम् ॥ ७८ ॥
विधायोगं चतुर्थांशं ध्रुवलेषूपनोहिकम् ॥
दापयेद्ग्रीष्मकाले तु यथाभोगं विभागशः ॥ ७९ ॥
मधुफाणितसंयुक्तं मद्यं यवसमेव च ॥
दुर्बलाश्चातियानाश्च