सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 684, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 684

एतत्प्रतिभये दद्यादेकरात्रं स्थितं भिषक् ॥
कुल्माषमेदकं दद्याद्रक्तस्नेहेन मूर्च्छितम् ॥ ६८ ॥
कुल्माषमेदकात्सद्यः शोणितं तु प्रजायते' ॥
कच्छुकाशाल्मलींश्चापि खर्जूरींश्चापि मस्तकम् ॥ ˚६९ ॥
शाकवृक्षयवांश्चापि ये चान्ये मधुरा द्रुमाः ॥
छेदयेत्कुंफलार्थाय तैरेवं बृंहयेद्गजम् ॥ ७० ॥
हरितैश्चापि पवसैर्विचित्रैर्मृदुभिर्हितम् ॥
बृंहयेद्बृंहणकरैर्न च तीक्ष्णैरुपाचरेत् ॥ ७१ ॥
अवेक्षते सदा नागान्बन्धूनिव सदा भिषक् ॥
सुरोपयोगकुशलो मेदकेषु च शास्त्रवित् ॥ ७२ ॥
भृशं संतप्रदेहा ये बलात्कृशतराश्च ये ॥
अत्यन्तरूक्षकायाश्च रक्तपित्तातुराश्च ये ॥ ७३ ॥
बहुप्राणपरीताश्च पयसोऽभिहतास्तथा ॥
नवग्रहैर्ये तेषां तु सुरापानं न शस्यते ॥ ७४ ॥
विपन्नं चातिवृत्तं च मद्यं मेदकमेव च ॥
वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत् ॥ ७५ ॥
नेष्टं च क्षीरपीताय मद्यपीताय वा पयः ॥
विरुद्धा वोदरहितमुभयं विद्धि दन्तिने ॥ ७६ ॥
इति श्रीपालंकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने सुराप्रतिपान-
विधिर्नामैकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
अथाङ्गपतिरमरसदृशवरुणधनपतिसत्त्वे गुरुविक्रमप्रशान्तशत्रुहारकेयूर-
मुकुटमणिप्रभाभिरुद्द्योतितपादपङ्कजं ऋतुसमृद्धं पावकप्रभाभिरिव विराजमान-
मभिवाद्य विनयात्पप्रच्छ पालकाप्यम्; भगवन् ये त्विमे स्वयूथसुखसंवृद्धा
हस्तिनः पर्वतनदीनदसरःप्रस्रवणदरीगिरिनिकुञ्जेषु विनतपुष्पभारशाखेष्वभि-
रताः कचिद्ग्रहणमुपगच्छन्ति, तान्दाम्यमानान्सोद्वेगान्गुरुबन्धाङ्कुशवाग्दण्ड-
प्राजनैरभिहन्यमानानृष्ट्या महत्कारुण्यमुत्पद्यते मनसः । तेषां ग्राम्यव्या-
धिसंतप्रदेहानां चिकित्सितमुपदेष्टुमर्हसि ॥
१ खं. घ. वा वादहिं ।