हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
५१० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
नाम्ना आलिङ्गितं नाम तदपि प्राणनाशनम् ॥
अथास्य प्रोहमध्ये तु मर्मैकं समुदाहृतम् ॥ ४० ॥
तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥
पारुष्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥
पलिपादे महीपाल मर्म प्राणहरं स्मृतम् ॥
पुरोनखस्य यत्पार्श्वे नखश्रो(स्रो)तस्य मध्यतः ॥ ४२ ॥
मर्म तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् ॥
स्तनयोश्चुचुकः पार्श्वे मर्मैकं पृथिवीपते ॥ ४३ ॥
सद्यः प्राणहरं तु स्याद्दारणस्य हि पार्थिव ॥
अथ वङ्क्षणपार्श्वे तु मर्मैकं समुदाहृतम् ॥ ४४ ॥
रक्तश्रो(स्रो)तोवहं नाम तदपि प्राणनाशनम् ॥
वङ्क्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥
मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति ॥
अष्ठीव्यसंधिमाश्चित्य मर्मैकं तु महीपते ॥ ४६ ॥
क्षते तत्र भृशं नागस्त्वपरे परिकर्षति ॥
मण्डूक्य वाऽपि नागस्य मर्मैकं समुदाहृतम् ॥ ४७ ॥
क्षते तस्मिन्महीपाल ख(प)ण्ढः संजायते गजः ॥
तथा सकुठिकायां तु मर्मैकं समुदाहृतम् ॥ ४८ ॥
सद्यः प्राणहरं त्वेतद्दारणस्य विनिर्दिशेत् ॥
अपरातलयोर्मध्ये मर्मैकं समुदाहृतम् ॥ ४९ ॥
सद्यःप्राणहरं तं तु वारणस्य विनिर्दिशेत् ॥
इत्येष कीर्तितः सम्यक्प्रविभागस्तु मर्मणाम् ॥ ५० ॥
यथावदनुपूर्वेण वारणानां हितैषिणा ॥
तत्र भागेषु सर्वेषु मर्माणि परिरक्षयेत् ॥ ५१ ॥
मर्मभागेषु नागानां शस्त्रकर्म न कारयेत् ॥
सुपक्कं भिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत् ॥ ५२ ॥
शस्त्रकर्माणि नागस्य शिरास्नोयूश्च वर्जयेत् ॥
सर्वसंधिषु मर्माणि विज्ञाय कुशलो भिषक् ॥ ५३ ॥
मर्मभागेषु नागस्य तिर्यक्शस्त्रं न पातयेत् ॥
अनुलोमं तु यत्नैवं यथेष्टं सिद्धिरिष्यते ॥ ५४ ॥
१ ख. ०स्नायुश्च ।
२१ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । ५११
गजानां न हयानां च मानुषाणां तथैव च ॥
छेदं तु विविधं कार्यं वारणस्य विजानता ॥ ५५ ॥
वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः ॥
आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः ॥
वृत्तच्छेदं तु कर्तव्यं भोगेष्वेतेषु दन्तिनाम् ॥ ५६ ॥
पञ्चाङ्गुलपदं कुर्यात्सप्ताङ्गुलमथापि वा ॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ५७ ॥
एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत् ॥
वासितेनैव शस्त्रेण कर्म कुर्याद्विचक्षणः ॥ ५८ ॥
वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम् ॥
विश्रा(स्रा)वणं कुठारेण वेत्सदन्तेन च स्मृतम् ॥ ५९ ॥
सीवनं द्विविधं विद्याद्रुणवद्ग्रन्थिमत्त्वपि ॥
स्थिरेषु त्ववकाशेषु ग्रन्थिसीवनमिष्यते ॥ ६० ॥
मांसलेष्ववकाशेषु चलेषु मृदुसंधिषु ॥
गुणसीव्यं च कर्तव्यं वारणस्य विजानता ॥ ६१ ॥
सीवने तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलायता ॥
नागदन्तकसंस्थाना श्लक्ष्णा वै सुसमाहिता ॥ ६२ ॥
कंधरावग्रहा भागे कुक्षौ पक्षेषु संधिषु ॥
नागदन्तकसूच्या वै सीवनं सम्यगिष्यते ॥ ६३ ॥
संग्रामे हस्तियुद्धे वा विक्षतस्य तु हस्तिनः ॥
सद्यःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥
पक्वेष्ववकाशेषु परिश्रा(स्रा)विषु दन्तिनाम् ॥
संधानान्येव कार्याणि सीव्यं तत्र न कारयेत् ॥ ६५ ॥
शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम् ॥
प्रोक्तानि पालकाप्येन अङ्गराजाय पृच्छते ॥ ६६ ॥
व्रणकर्मणि नागस्य अभ्यङ्गः पूज्यते सदा ॥
स्नेहपानं च नागानां स्निग्धमेव च भोजनम् ॥ ६७ ॥
१ क. ख. नागेष्वेतेषु । २ ख. च्छेदं । ३ क. ख. तत्सदन्तेन । ४ क.
०न्थिवत्त्वं० । ख ०न्थिमत्स्वपि । ५ क. ०प्वककालेषु । ६ क. सीवनं । ७ क. ख.
कर्माणि । ८ क. ख. ०कर्माणि ।
५१२ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
तस्मात्तु कुशलो वैद्यः श्रुतवान्कालदेशवित् ॥
परीक्ष्यकारी शूरश्च जितक्रोधो जितेन्द्रियः ॥ ६८ ॥
अप्रमत्तश्च दक्षश्च शंशसश्चैव रक्षिता ॥
वैद्य एवंविधो राजन् प्रमुञ्चति कर्मसु ॥ ६९ ॥
एष ते पृथिवीपाल यथावदनुपूर्वशः ॥
मर्मणामिह सर्वेषामशेषेण विनिश्चयः ॥ ७० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥
अथ त्रयोविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्कति कामानां नृपाणां विजिगीषताम् ॥ १ ॥
प्रायशो युध्यमानानां वारणेषु ध्रुवो जयः ॥
संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम् ॥ २ ॥
शस्त्राकृतिविशेषैश्च तथा छेद्यं च जायते ॥
शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम् ॥ ३ ॥
तत्रालपोऽथ कथं कश्चिद्व्रणः प्राणान्तिको भवेत् ।
अथ येन प्रबाध्यन्ते प्राणास्तद्वक्तुमर्हसि ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
स्वभावात्सर्वसत्त्वानां प्राणा देहसमाश्रयाः ॥ ५ ॥
देहप्राणेष्वथाऽऽपन्नाः प्राणा मर्माश्रयास्तथा ॥
तेजोनिलगुणैः सार्धं पुरुषो मर्मसंश्रयः ॥ ६ ॥
तस्मान्मर्माश्रयं विद्यात्प्राणबाधाकरं व्रणम् ॥
मर्म वाप्यभिविज्ञेयं प्रतिभागाच्चतुर्विधम् ॥ ७ ॥
सद्यः प्राणहरं चैव तथा कालान्तरेण च ॥
तथा सशल्यप्राणं च वैगुण्यकरमेव च ॥ ८ ॥
तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत् ॥
कालान्तरप्राणहरं सौम्याग्नेयमुदाहृतम् ॥ ९ ॥
१ क. शूरस्य । २ क. ख. प्राणदे° । ३ क. प्राणम° ।
२१ मर्मविभागाध्यायः ] हस्त्यायुर्वेदः । ५१३
तथा सशल्पप्राणं च वायव्यं कथ्यते बुधैः ॥
सौम्यं वैगुण्यकरणमिति*पूतगुणाश्रयः ॥ १० ॥
सद्यःप्राणहराण्यादौ तत्र वक्ष्यामि पार्थिव ॥
गुदोऽण्डकोशो हृदयं मेण्ढ्रं पणवकस्तथा ॥ ११ ॥
मन्याभागे विवेकश्च मेलो नाभिस्तथैव च ॥
मृदुकुक्षी सनिष्कोशौ कक्षाभागो तथा तलाः ॥ १२ ॥
वङ्क्षणौ मुष्कभागो च तालु जिह्वा स्तनान्तरम् ॥
रन्ध्रो कुम्भं तथा वक्षः कण्ठश्चोदरमेव च ॥ १३ ॥
करीषास्राव इत्येवं सद्यःप्राणहराणि तु ॥
चतुस्त्रिंशत्तु मर्माणि निर्द्दिष्टानि मनीषिभिः ॥ १४ ॥
अग्निर्जीवाश्रयो यस्माज्जीवश्चाग्निसमाश्रयः ॥
तस्मात्तत्र क्षते क्षिप्रं प्राणांस्त्यजति वारणः ॥ १५ ॥
कालान्तरप्राणहराण्यथ वक्ष्यामि तच्छृणु ॥
प्रोहे सकुठिके त्र्यस्थिसंदानो तलसंधयः ॥ १६ ॥
विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा ॥
पलिहस्तौ यतस्थाने अन्तर्बाहू तथैव च ॥ १७ ॥
कालान्तरविनाशीनि याप्याभागौ च पार्थिव ॥
निर्याणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥
भीरिके च महीपाल पुरस्कारे तथैव च ॥
पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्पया ॥ १९ ॥
क्रमाद्यावत्क्षपयति साम्पस्तेजोगुणैर्गुणात् ॥
यस्मात्क्रमेण म्रियते कालप्राणहरं ततः ॥ २० ॥
तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत् ॥
ततः सशलयप्राणानि प्रवक्ष्याम्यनुपूर्वशः ॥ २१ ॥
निर्याणश्चैव कुक्षी च स्रोतसीं कर्णयोस्तथा ॥
कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके ॥ २२ ॥
स्पातामक्षिगुहे चैव बिदुलं वदतां वर ॥
विद्यात्सशल्यप्राणानि मर्माणीह चतुर्दश ॥ २३ ॥
- भूत इति स्यात् ॥
१ क. गणना० ।
६५
९१४ पालकाप्यमुनिविरचितो— [ २ शल्यस्थाने-
यावच्छल्यनिरुद्धस्तु वायुस्तिष्ठति मर्मणि ॥
तावत्सशल्यमाणेषु स जीवति मृतोऽन्यथा ॥ २४ ॥
अथ वैगुण्यकारीणि अपस्कारस्तथैव च ॥
विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥
अस्मे चैव.विभागे च करस्य श्रो(स्रो)तसी तथा ॥
प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥
तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरम् ॥
• करश्च प्रत्यगंसौ च प्रतीकासौ तथैव च ॥ २७ ॥
नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते ॥
ग्रीवा चान्तरसूना च बाहित्यं च नराधिप ॥ २८ ॥
पेचकश्च विताने च वैगुण्यकरसंग्रहः ॥
एतान्येव चतुस्त्रिंशन्मोक्तानि मनुजाधिप ॥ २९ ॥
स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः ॥
तस्मात्तद्वैगुण्यकरं मृत्युदं क्लेशयेन्न तम् ॥ ३० ॥
इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥
धैर्यं वीर्यं बलं सत्त्वं संघातः पौरुषा गुणाः ॥ ३१ ॥
एतेष्वधिष्ठिताः सर्वे गुणा मर्मसु हस्तिनाम् ॥
यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः ॥ ३२ ॥
मारणादुच्यते मर्म नेरुक्तैः शास्त्रनिश्चयात् ॥
तथैवाष्टविधं प्राहुः संरूपया मनुजाधिप ॥ ३३ ॥
²शिरामर्मास्थिमर्माश्च(?) धमनीमर्म चापरम् ॥
स्नायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ॥
संधिमर्म च विज्ञेयं स्रोतोमर्म तथैव च ॥
दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः ॥ ३५ ॥
शिरामर्मण्यभिहतो रक्तश्रा(स्रा)वादृजोऽधिकः ॥
क्षिप्रं वियुज्यते प्राणैस्तस्मात्तदभिरक्षयेत् ॥ ३६ ॥
अस्थिमर्मण्यभिहतः शुक्रमज्जापरिश्र(स्र)वात् ॥
परित्यजेद्गजः प्राणानस्थिघातुक्षयात्ततः ॥ ३७ ॥
हिंस्यते धमनीमर्म यदा नागस्य मर्मसु ॥
तदाऽप्यगुणनिश्रा(स्रा)वादृजस्त्यजति जीवितम् ॥ ३८ ॥
१ क. ख. मृतेऽन्य० । २ क. ख. शिरोम० ।
२३ मर्मविज्ञानाध्यायः ] हस्त्यायुर्वेदः । ५१५
स्नायुमर्मण्यभिहतः स्नायुसंश्र(स्र)ंसाद्गजः ॥
विश्लिष्टसंधिर्भवति स्नायुर्देहनिबन्धनः ॥ ३९ ॥
कोष्ठमर्मण्यभिहतः करीषस्रावपीडितः ॥
महाक्षयाभिभूतस्तु प्राणांस्त्यजति वारणः ।१ ४० ॥
संधिमर्माभिघाताच्च चेष्टावैगुण्यमुत्तमाः०॥
प्राप्नुयाद्वारणः क्षिप्रं मरणं वातपीडितः ॥ ४१ ॥
श्रो(स्रो)तोमर्माभिघाताच्च स्वगुणैः स्रोतसां गजः ॥
विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति ॥ ४२ ॥
दोषाशयाभिघाताच्च क्षीणपित्तकफानिलः ॥
प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः ॥ ४३ ॥
रक्षणं मर्मणां नित्यं तस्मात्कार्यं विचक्षणैः ॥
शस्त्रकर्मविधिज्ञैश्च कार्यं शस्त्रावचारणम् ॥ ४४ ॥
असिद्धिरल्पसिद्धीर्वा हिंसितेष्वपि कर्मसु ॥
विपत्तिः श्रेयसी वाऽपि सिद्धिर्यादृच्छिकी भवेत् ॥ ४५ ॥
अस्थिस्नायूपपन्ना ये गम्भीराश्चैव सर्वशः ॥
शिरामर्मगता ये च न च्छेद्या ये च संधिषु ॥ ४६ ॥
स्नायुजाले न कार्यं च तज्ज्ञैः शस्त्रावचारणम् ॥
अनुलोममृजुर्गाते त्वचि सम्यक्समाहितम् ॥ ४७ ॥
श्वयथूनां विदग्धानां कार्यं शस्त्रावचारणम् ॥
यथा व्यापद्यते नागः स्वयोगाच्छस्त्रकर्मणाम् ॥ ४८ ॥
न तथा म्रियते दोषैः प्रवृद्धैरपि वारणः ॥
शस्त्रकर्मणि निर्युक्ते सेवनं सर्पिषा हितम् ॥ ४९ ॥
पानं च सर्पिषः श्रेष्ठं स्निग्धं भोजनमेव च ॥
शस्त्रकर्मणि निर्युक्ते हवनं शान्तिकर्म च ॥ ५० ॥
वारणस्य तु कर्तव्यं यथोक्तं मङ्गकर्मणि ॥
तस्मात्सर्वप्रहाराणां विद्धमादि प्रकीर्त्यते ॥ ५१ ॥
अवांच्छभावसृष्टानि त्ववकृष्टं तथैव च ॥
घृष्टदग्धे च राजेन्द्र यच्चाङ्गे(न्य)दूनसंज्ञितम् ॥ ५२ ॥
तस्माच्छुद्धमिति प्राहुः शास्त्रतत्वार्थकोविदाः ॥
तस्मात्प्रयोगकुशलं लघुहस्तं जितेन्द्रियम् ॥ ५३ ॥
१ क. ०धिश्चैव का० । २ क. ०क्षतव्रण० ।
५१६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
परीक्ष्यकारिणं शूरं बलिनं शास्त्रकोविदम् ॥
यशस्विनमलुब्धं च जितक्रोधं जितक्लमम् ॥
वैद्यं नियोजयेद्राजा प्रतिकर्मसु हस्तिनाम् ॥ ५४ ॥ इति ।
तत्र श्लोकाः(कः)—
इति भिषगमुशिष्य बुद्धी शुभमशुभं च ततः शुभं च कुर्यात् ॥
विपुलबलयशोर्थकीर्तिहेतोर्विपुलगुणार्थी गजे परीक्ष्य ॥ ५५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
मर्मविद्धो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
अथ चतुर्विंशोऽध्यायः ।
अङ्गराजो महाप्राज्ञः कुबेरसमविक्रमः ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
भगवन्भवता प्रोक्तं रोगज्ञानं सलक्षणम् ॥
तत्र मे संशयः कश्चित्तन्मे शंसितुमर्हसि ॥ २ ॥
शुद्धश्लेष्मसमुत्पत्तिः शुद्धपाकल आदितः ॥
प्राग्भागोष्णः कथं विप्र पश्चाद्भागेन शीतलः ॥ ३ ॥
न चोष्णलक्षणं चेति हस्तिनां जायते ज्वरः ॥
निदानलक्षणो ह्येष यस्त्वयोक्तो महामुने ॥ ४ ॥
कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति ॥
समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तितौ ॥ ५ ॥
पकलः पुण्डरीकश्च वातपित्तकृतावुभौ ॥
विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ ६ ॥
शनैः क्षीयेत वा केन हेतुना च मृदुग्रहः ॥
कथं च भूतसंसृष्टो दृष्टः कुक्कुटपाकलः ॥ ७ ॥
दैवाच्च केचिदिच्छन्ति दोषतश्चापरे जनाः ॥
एकाङ्गग्रहसंस्रंस्तु पाकलो मुनिसत्तम ॥ ८ ॥
दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते ॥
स कृशत्वेन संयोज्यः कथं तीक्ष्णोदरानलः ॥ ९ ॥
शारदेश्चोपलक्ष्यश्च प्रसुतः पाकलो भवेत् ॥ १
महापाकलसंज्ञश्च श्लेष्मणः संचयाद्भवेत् ॥ १० ॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै ॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥
एतान्सपरिहारान्म सनिरुक्तान्त्ससंभवान् ॥
तत्त्वतो निखिलाम्प्रश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ॥
नाभेः पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥
प्रोक्तान्यामाशयः पर्वाण्यु॒रः कण्ठः शिरस्तथा ॥
स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ॥ १५ ॥
शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम् ॥
श्लेष्माणं पश्चिमं भागमानयेत्सह वायुना ॥ १६ ॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम् ॥
प्राग्भागसोष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥
सुरशापाद्रेजेन्द्राणामन्तःस्वेदत्वमाहितम् ॥
न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥
कदाचिदङ्गमप्यङ्गं यदा गच्छति मारुतः ॥
तेन बालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥
तेन सिध्यति बालोऽयं कूटहेतुः प्रवक्ष्यते ॥
मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥
सहसा हृदयं गच्छेद्वृतांश्चापि पातयेत् ॥
हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥
व्यानो वायुः प्रकुपितो हृदान्त्सङ्गितो नृप ॥
पित्तमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥
गुरुस्थानोपरोधाच्च रौद्रस्तस्माद्भवेद्गजः ॥
इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥
मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप ॥
पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥
१ क. °दश्वोपजायेव ल° । २ क. कूटे हेतुः प्रचक्षते ।
५१० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
तस्मात्पृथुक्को विकारोऽयमधिकश्चैव लक्षयेत् ॥
मारुतः कुपितो देहे कारणैः पूर्वकीर्तितैः ॥ २५ ॥
मांसं मेदो रसं रक्तं मज्जां शुक्रं च दन्तिनाम् ॥
यस्मात्क्रमोत्क्षपयति तेनैष क्षीयते शनैः ॥ २६ ॥
श्लेष्माभिभूतो योऽत्यर्थं पेशलं तु लभेत वै ॥
समानः कुपितस्तस्य प्राणापानौ च दूषयेत् ॥ २७ ॥
व्यानोदानौ च संहृष्य कुर्यात्कुकुटपाकळम् ॥
शरीराणां च भूतानां विपर्यासस्ततो भवेत् ॥ २८ ॥
विपर्यस्तेषु भूतेषु भूतसंश्लेषवद्द्रवेत् ॥
तस्माद्भूतोपसृष्टस्तु दृष्टः कुक्कुटपाकळः ॥ २९ ॥
स्पृष्टस्य वारुणैः पाशैर्गजस्याऽऽदौ नराधिप ॥
पीड्यमानस्य तैः पाशैर्वातः श्लेष्मा च कुप्यति ॥ ३० ॥
एवं स दैविको भूत्वा पश्चाद्दोषेण लिप्यते ॥
आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम् ॥ ३१ ॥
पित्तादानैर्गजे पित्तं वृद्धमग्निं विवर्धयेत् ॥
तीक्ष्णज्योतिः स भवति शारदत्वं स गच्छति ॥ ३२ ॥
ततैः सुषिरमांसत्वाद्वापूर्णांगस्य कुप्यति ॥
श्लेष्माणं कोपयेत्पश्चाद्विकारः श्लैष्मिकः स्मृतः ॥ ३३ ॥
बलेन संचितः श्लेष्मा जठरं कुरुते गजम् ॥
स यदा जठरो नागः सहसा कर्म कार्यते ॥ ३४ ॥
समानः कुपितं प्राणं पश्चात्संदूषयेत्ततः ॥
क्षीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया ॥ ३५ ॥
मारुतः कफमादाय हृदयं संश्रितस्तु यत् ॥
करोति महतीं पीडां तेनायं पाकलो महान् ॥ ३६ ॥
वातोऽत्र कारणं यस्मात्तेन वाते प्रतिक्रिया ॥
कर्तव्या नृपशार्दूल पालकाप्यमतानुगा ॥ ३७ ॥
महारोगो यतश्चायं पतनाच्च महद्भयम् ॥
उभयत्र महत्त्वाच्च महापाकळसंज्ञितः ॥ ३८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
दोषविवायो(पयो) नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
१ क. ख. ॰मात्क्षिप॰ । २ क. ख. दूष्यते । ३ क. सादरत्वं च । ४ क. ॰तः शुषि॰ ।
२१. अग्निदग्धचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ६१९
अथ पञ्चविंशोऽध्यायः ।
अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्नग्निदग्धानां वारणानां महामुने ॥ १ ॥
व्रणा देशेषु जायन्ते नानासंस्थानवर्णकाः ॥
तेषां रूपं चिकित्सां च ब्रवीतु भगवान्मम ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
तत्राग्निदग्धो द्विविधस्त्वग्गतः स्फोट एव च ॥ ३ ॥
द्रवात्स्थिराच्च विज्ञेयः स तु दाहो नराधिप ॥
भवेज्ज्ञेतुमधूच्छिष्टसगुदामेद्ययावकैः ॥ ४ ॥
अङ्गराशीविषाभ्यां च तथाऽशनिनिपातः ॥
दाहयोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम ॥ ५ ॥
विकल्पतः पञ्चविधो राजन्दाहः प्रकीर्तितः ॥
परंपरादिद्रव्येभ्यस्तथाऽऽदित्याग्निसेवनात् ॥ ६ ॥
ज्वालाबाष्पैश्च नागानां दग्धमुत्पद्यते नृप ॥
तत्र वैद्यो यथाशास्त्रं कर्म कुर्यादतन्द्रितः ॥ ७ ॥
परिषेकं प्रदेहं च चूर्णं तैलं घृतं वसाम् ॥
अतिदग्धस्य नागस्य यथाक्रमं सुखोदकम् ॥ ८ ॥
मे(इ)क्षुरसं पयश्चैव मधुकं च सशर्करम् ॥
तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः ॥ ९ ॥
एष कार्यो भवेत्सेको वैद्यैः संनिहितैः सदा ॥
एतेन दाहो रोगश्च वेदना च प्रशाम्यति ॥ १० ॥
अतः प्रलेपं कुर्वीत मधुपर्णी शतावरी ॥
तालीसपत्रमञ्जिष्ठातिलांश्चोतेन लेपयेत् ॥ ११ ॥
ततः सयष्टीमधुकं सर्वमालोड्य भाजने ॥
प्रलेपं कारयेद्वैद्यस्त्वग्निदग्धप्रशान्तये ॥ १२ ॥
एवमेवानुपूर्वेण कुर्यादालेपनं भिषक् ॥
अश्वत्थोदुम्बरप्लक्षान्मधुकं काकजम्बुकम् ॥ १३ ॥
१ क. च प्रब्रवीतु भवा° । २ ख. °जन्तुम° । ३ क. ख. °च्छिष्टे स° ।
४ क. °लाश्वेते° ।
५२० पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
एलां मधुरसां चैव श्लक्ष्णपिष्टानि कारयेत् ॥
तेनास्य व्रणमालिम्पेद्घृताक्तेन पुनः पुनः ॥ १४ ॥
दाहो निवर्तते तेन वेदना चोपशाम्यति ॥
लभते सौमनस्यं च कवसं चाभिनन्दति ॥ १५ ॥
रोध्रं च माषपर्णी च हरिद्रे चाप्युभे तथा ॥
क्षीरिकायाः शतावर्याः पयसा च घृतं पचेत् ॥ १६ ॥
क्षतोऽस्य दग्धं नागस्य म्रक्षणेन प्ररोहति ॥
अथवा रोपणं तैलं विपचेतेन रोपयेत् ॥ १७ ॥
मांसी समङ्गाममृतां माषपर्णी तथैव च ॥
मधुकं च समञ्जिष्ठं कुशमूलं च पेषयेत् ॥ १८ ॥
एतत्सर्वं समाहृत्य क्षीरेण सह योजयेत् ॥
तत्तैलं पाचयेद्धीरो यथायोगं यथासुखम् ॥ १९ ॥
तेनास्य व्रणमभ्यञ्ज्यान्नित्यमेवमतन्द्रितः ॥
क्षिप्रं प्ररोहते तेन अग्निदग्धं समन्ततः ॥ २० ॥
तथैव कारयेच्चूर्णं रोपणं मनुजाधिप ॥
पद्मं समङ्गा तगरं जीवकर्षभकावुभौ ॥ २१ ॥
मधुकं धातकीपुष्पं रोध्रं सैर्जेरसं तथा ॥
बलामतिविषां चैव सूक्ष्मचूर्णानि कारयेत् ॥ २२ ॥
प्रतिचूर्णनमेवं स्यादिदमन्यच्च रोपणम् ॥
सुपिष्टानथ कृष्णांश्च तिलांस्तु मधुना सह ॥
घृतेन मिश्रयित्वाऽथ रोपणं वा प्रलेपनम् ॥ २३ ॥
सुप्ररूढव्रणं नागं प्रसूनत्वक्तनूरुहम् ॥
दोषप्रशमनाथार्य घृतेन सह मोजयेत् ॥ २४ ॥
इत्यङ्गराजो विधिवद्धस्तिशास्त्रसमाश्रयम् ॥
श्रावितं(तः) पालकाप्येन अग्निदग्धचिकित्सितम् ॥ २५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महापवचने वृद्धोपदेशे तृतीये शल्यस्था-
नेऽग्निदग्धचिकित्सितं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
१ ख. शालां । २ ख. सर्वरं० ।
२१ लूताध्यायः ] हस्तिआयुर्वेदः । ५२९
अथ षड्विंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कथं लूताः संभवन्ति वारणानां महामुने ॥ १ ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अतो लूताः प्रवक्ष्यन्ते भासकरानुचराश्च ताः ॥ २ ॥
तासां लालाः प्रति प्राप्ता विनाशयति वारणम् ॥
मालती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि ॥ ३ ॥
अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी ॥
कुम्भे च प्रोभवा नाम विद्धेश्च हरिणी स्मृता ॥ ४ ॥
आसने विजया नाम इयामा ज्ञेया तथोरसि ॥
ओंष्ठीव्ये मधुका नाम धनुर्नामा तु या मुखे ॥ ५ ॥
अंसयोरपि कापोती सुभगा दन्तवेष्टयोः ॥
मण्डे गृधनसी नाम पांशुका गात्रयोरपि ॥ ६ ॥
कर्णिकारी भवेत्प्रोहे कोशे च कुंकुटी स्मृता ॥
अक्षिका तल्पले चैव मेढ्रे वसुमती तथा ॥ ७ ॥
नाभ्यां पुष्करमध्ये तु स्वगता रन्ध्रदेशयोः ॥
नाम्ना गुल्मवती नाम मस्तकेषीकयोर्देशेत् ॥ ८ ॥
एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः ॥
सर्वाः संमोहसंसाहव्यापत्सु परिकीर्तिताः ॥ ९ ॥
सर्वासु च भ्रमच्छर्दिस्तृष्णादाहसमुद्भवाः ॥
विशेषान्मस्तकेषीकास्तनगण्डकटाँक्षिषु ॥ १० ॥
स्तनान्तराण्डकोशांसतल्पलेष्वप्रतिक्रिया ॥
धूम्रभ्रमरशुश्राभ्रपक्कोडुम्बरसंनिभाः ॥ ११ ॥
कटुकाश्च कपोताश्च कर्णिकारोन्भास्तथा ॥
वदान्त वर्णतो लूतास्तासां कुर्यात्क्रियां भिषक् ॥ १२ ॥
तां छिन्द्यान्मण्डलाग्रेण प्रोत्क्षिप्य बडिशेन तु ॥
ताश्चाग्निना दहेत्सम्यक्कुर्याच्चाऽऽशु प्रलेपनम् ॥ १३ ॥
१ क. प्रावता । २ क. ख. विद्वेश्च । ३ क. ज्ञेया । ४ क. ख. आधीघे । ५
क. कुर्कुटी । ६ क. ख. ॰योर्द्दशेत् । ७ क. ॰द्यादिषु ।
६७
elephants smell the stable? Elephants repeatedly smell the place (शालां)? Or does it say लालां?
Wait, let's look at the letters in line 28:
हस्तेन जिघ्रत्यसकृ then:
च्छा or ल्ला?
Look at च्छा:
च on top, छ below, with ा: च्छा!
Yes, it is च्छालां!
Wait, what word could it be?
असकृत् + छालां? No, असकृत् + शालां -> असकृच्छालां!
Wait, could it be असकृच्छालां च विसृजत्यपि?
Wait, what if it's असकृच्छूनां? No, it has लां.
What if it's असकृच्छालां? Yes, it is literally printed:
हस्तेन जिघ्रत्यसकृच्छालां च विसृजत्यपि ॥ ४ ॥
Bottom line (Footnotes):
Line below rule:
१ क. या । ख. सा । २ क. ॰शो भूता॰ ।
Wait, let's look at:
१ क. या । ख. सा । २ क. ॰शो भूता॰ ।
Wait, is there an extra stroke under the rule? Just a vertical smudge mark.
Let's double-check all lines carefully
२७ विषकीटचिकित्साध्यायः ] हस्त्यायुर्वेदः । ५२३
सुखं न लभते चैव यवसं नाभिनन्दति ॥
परिमूत्री भवेच्छ्वासी मुहुंस्तुदति विस्वरम् ॥ ५ ॥
विसर्प इति तं प्राहुर्दृष्ट्वा केचिदपण्डिताः ॥
एतदेवास्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ६ ॥
जलोकाभिर्हरेद्रक्तं शस्त्रेण निशितेन वा ॥
शुद्धे तस्मिन्हृते रक्ते चेन्द्रगोपकसंनिभे ॥ ७ ॥
शीतलेन ततः सिञ्चेत्सलिलेन मतङ्गजम् ॥
अथास्य लेपं वक्ष्यामि येनायं लभते सुखम् ॥ ८ ॥
खदिरं चाश्वकर्णं च धवं शैलमुदुम्बरम् ॥
अश्वत्थं सिन्दुवारं च उशीरं नलदं तथा ॥ ९ ॥
वरुणस्य प्रवालानि करञ्जतरुजानि वा ॥
अश्वमारकनिर्गुण्ड्योर्मधुकस्य तथैव च ॥ १० ॥
तगरः श्वेतकिणिही श्यामा काला तथैव च ॥
श्लक्ष्णपिष्टकृतांश्चैताञ्शीतले भाजने स्थितान् ॥ ११ ॥
कृष्णमृत्तिकया सार्धं घृतेन सह संसृजेत् ॥
दिह्याल्लेपेनैतेन सुखी संपद्यते गजः ॥ १२ ॥
परिषेकस्ततः कुर्याद्विषनाशनमुत्तमम् ॥
क्षीरवृक्षत्वचश्चैव मधूकाश्मन्तकत्वचः ॥ १३ ॥
श्लक्ष्णपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत् ॥
तेन कुर्यात्परीषेकं ततः संपद्यते सुखी ॥ १४ ॥
अभ्यङ्गः शतधौतेन सर्पिषा चैव कारयेत् ॥
अङ्कोठं वरुणं शेलुं तथा द्वे च पुनर्नवे ॥ १५ ॥
श्वेतां श्यामां च भा''''''''रोहिषं चापि तत्समम् ॥
सलिले पाचयेदेनं ततस्तमवतारयेत् ॥ १६ ॥
तस्मिन्नेव च निकाथे द्विद्रोणे भेषजं भवेत् ॥
दन्तीमूलपलं चैव तु(त्रि)वृतायास्तथैव च ॥ १७ ॥
चित्रकस्य पलं चैव शुकारूपायास्तथैव च ॥
फणिज्जकपलं चैव विडङ्गानां पलं तथा ॥ १८ ॥
पिप्पलीनां पलं चैव शृङ्गवेरपलं तथा ॥
पाठाया गजपिप्पल्या बीजपूरफलं तथा ॥ १९ ॥
१ क. ॰हुर्मुदं॰ ।
५२४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने—
यावन्त्येतानि सर्वाणि घृतं तावत्प्रदीपयेत् ॥
तत्सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ॥ २० ॥
एवं तु पाययेन्नागं विषं तेन प्रशाम्यति ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनार्थ नोदितः ॥ २१ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
सप्तविंशो विषकीटचिकित्साध्यायः ॥ २७ ॥
अथाष्टाविंशोऽध्यायः ।
अथ व्यालेन दष्टस्य लक्षणं वारणस्य च ॥
चिकित्सां च महाराज शृणु कीर्तयतो मम ॥ १ ॥
व्यालो यदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥
वातमूर्छानिदानानि द्विरदः कुरुते तदा ॥ २ ॥
व्यालवद्भ्रमते क्रुद्धो वित्रसेच्च जलाशयात् ॥
व्यापन्नचित्तश्च गजो मूर्छते व्यथतेऽपि च ॥ ३ ॥
एतल्लक्षणविज्ञानं चिकित्साऽतः प्रवर्तते ॥
दहेच्छलाकया तस्य दंशां भिषगतन्द्रितः ॥ ४ ॥
समन्ताच्चापि दष्टस्य कार्यं शोणितमोक्षणम् ॥
तस्य कार्यं विशेषेण रात्रिक्षिप्तचिकित्सितम् ॥ ५ ॥
या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत् ॥
धूपाञ्जनाभ्यङ्गविधेस्तस्य रक्षोघ्नमिष्यते ॥ ६ ॥
काश्यपस्य मताच्छेषं चिकित्सितमुपाचरेत् ॥
अनाविष्टश्चिकित्स्यः स्यादाविष्टश्च न सिध्यति ॥ ७ ॥
तत्र श्लोकः—
इक्षुविकारः पललं तिलतैलं क्षारमार्कमिति ॥
पीतं सद्यो विषामह शुष्काभ्रमिवानिलः क्षिपति ॥ ८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
व्यालदष्टो नामाष्टाविंशोऽध्यायः ॥ २८ ॥
१ क. ष्टस्य न । २ क. विषं हन्ति शु० ।
२९ प्रदेशज्ञानाध्यायः ] हस्तिआयुर्वेदः । ५२५
अथैकोनत्रिंशोऽध्यायः ।
अथातः प्रदेशज्ञानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माऽऽह भगवान्पालकाप्यः-। इह खलु शरीरं मूलम् । तन्मूलान्य-
ङ्गमप्रत्यङ्गानि लोकप्रसिद्धानि । पञ्चदश प्रदेशाः प्रत्यङ्गानीत्यनर्थान्तरम् ॥
तत्र प्रदेशानामग्रेऽङ्गुलिः । अङ्गुल्यभ्यन्तरे वर्त्म । ततः स्रोतसी । एतयोर-
न्तरं श्रो(स्रो)तोन्तरम् । तस्मात्पुष्करम् । पुष्करे राजिः । (†तदुपर्यङ्गु-
लम् ।) अङ्गुल्या उपरि गण्डूषः । ततोऽग्रहस्तः । गण्डूषपार्श्वयोः श्रीः । एत-
योरभ्यन्तरं गण्डूषा । तदुपरि बहिष्कर्षः । एतस्य दक्षिणपार्श्व आकर्षः ।
वामपार्श्वे परिकर्षः । पृष्ठत उपकर्षः । तस्यैवाभ्यन्तर उत्कर्षः । एतैः प्रदेशैः सम-
न्वितोऽग्रहस्तः । बहिष्कर्षादुपरि मध्ये हस्तस्य संभोगः । एतस्य पार्श्वयोर्ह-
स्तबाहू । तयोश्चाभ्यन्तरं संभोगान्तरम् । संभोगस्योपरि त्रिराजिः । त्रिराजेरु-
परि पर्व । तस्योपरि स्थूलहस्तः । एतस्याभ्यन्तरे पलिहस्तः । पलिहस्तस्यो-
परि पृथुहस्तः । पृथुहस्तस्याभ्यन्तरेऽतिहस्तः । अतिहस्तस्याभ्यन्तरे राज्यः ।
सर्वगता वलयश्चेति ॥
तत्र श्लोकः-
अङ्गुलीप्रभृति प्रोक्ताः क्रमेण द्विरदस्य ते ।
अष्टौ च विंशतिश्चैव प्रदेशा हस्तमाश्रिताः ॥
आस्ये कृष्णान्त(र)म् । ततस्तालु । तालुमध्ये श्रो(स्रो)तसी । अतो मध्ये
तालुवंशः । ततो जिह्वाभ्यन्तरे भक्षणार्थं दशनाः षोडशाधस्ताच्चोपरिष्टाच्च । तेषु
चतस्रो दंष्ट्राः । तत ओष्ठः । तस्याभ्यन्तरे वर्त्मनी । तत ओष्ठप्रस्राव ओष्ठपा-
र्श्वयोः । ओष्ठबाहू अधस्तात् । ओष्ठसंधी ओष्ठसंध्योः । ततः सृक्किणी । ओष्ठाधो
रोमकूर्च इति ॥
तत्र श्लोकः-
कृष्णान्तादय इत्येते क्रमशः परिकीर्तिताः ।
प्रदेशा मुखसंबद्धास्त्रिंशदिह तु संख्यया ॥
दन्तयोर्दन्ताग्रे दन्तमध्ये दन्तमूले । दन्तयोरुपरि दन्तवेष्टौ । एतयोरू-
परि प्रवेष्टाविति ॥
† धनुश्चिह्नान्तर्गतः कपुस्तके नास्ति ।
१ क. नाम व्या° । २ क. पुष्करमध्ये ।
५२६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
तत्र श्लोकः—
इत्येते त्वभिविज्ञेयाः प्रदेशा दन्तयोर्दश ।
यथावदनुपूर्वेण शिक्षाविद्भिरुदाहृताः ॥
बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्योपरि
मध्ये मुखस्य वाहित्थम् १ । तस्य पार्श्वयोर्विलागौ । विलागयोरुपरि कर्कटम-
ध्ययोः कटस्रोतसी । कटस्रोतसोरधस्तात्कटप्रस्रावौ । कटप्रस्रावयोरधस्ता-
द्गण्डौ । गण्डयोरधस्तात्कपोलौ । कपोलयोर्मध्ये रोमकूर्चौ । रोमकूर्चयोरध-
स्ताद्धनू । हन्वोरधस्तात्सगदे । तयोः संधिः सगदासंधिः । एतयोरन्तरं सग-
दान्तरम् । कटयोः पार्श्वतो घाटे । घाटयोरुपरि कटसंधी । कटसंध्याश्रितौ
श्रवणाविति ॥
तत्र श्लोकः—
त्रयस्त्रिंशदिह प्रोक्ताः प्रदेशा मुखमाश्रिताः ॥
प्रतिमानप्रभृत्येते क्रमशः शास्त्रनिश्चिताः ॥
चक्षुषोरक्षिगुहे । अक्ष्णोरुपर्यक्षिकूटौ । अक्ष्णोरधस्तादक्षिस्रावौ ।
अक्ष्णोः पूर्वभागयोः कनीनिके । पश्चाद्भागयोरपाङ्गौ । पक्ष्ममण्डले वर्त्ममण्डले
शुक्रमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्रसंधी शुक्लकृष्ण-
संधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥
तत्र श्लोकः—
प्रदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः ।
दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः ॥
शिरसि वाहित्थम् । वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भान्त-
रम् । एतस्याग्रे कुम्भस्योपरि बिम्बकौ । बिम्बकपार्श्वयोः पाकले । अक्षिकू-
टोपरीषीके । इषीकयोर्मध्य इषीकान्तरादूर्ध्वं इषीकाग्रे । इषीकाग्रयोर्बहिः
पार्श्वे निर्याणम् । पार्श्वयोरधस्तान्निर्याणसंधी । निर्याणसंध्योरूर्ध्वं बिम्बकस्यो-
परीषीकाग्रमध्ये तिर्यगायतोऽवग्रहः । अवग्रहस्योपरि पुरस्कारः । पुरस्कारस्यो-
परि निर्याणम् । तयोरन्तर उभता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवर्त्या
उपरि मस्तको । मस्तकयोर्मध्ये बिंदुः । मस्तकयोर्बहिःपार्श्वयोर्विताने निर्या-
णयोः पश्चात्पार्श्वयोः कूर्ममस्तकसंघी केशाश्चेति ॥
तत्र श्लोकः—
१ क. ख. प्रदेशे । २ क. ख. ॰वगाहः । ३ क. ख. विदू ।
चतुर्विंशतिरित्युक्ताः शिरसः क्रमशः मया ।
यथावदनुपूर्वेण प्रदेशा हस्तिनामिह ॥
कर्णयोः कर्णाग्रे कर्णपर्वतौ । कर्णयोरधस्तात्प्राक्कर्णौ कर्णमध्ययोः । तयोः
पर्यन्तौ मध्यकर्णी । कर्णयोरधस्तात्कर्णपाली । कर्णयोर्बहिर्बहिष्कर्णी, अन्तरेऽ-
न्तष्कर्णी कर्णपर्वतौ । कर्णयोः कर्णपिञ्जूषौ । कर्णावर्तपार्श्वयोः कर्णपिञ्जूकौ ।
कर्णावर्तपार्श्वपार्श्वयोः कर्णपञ्जुकौ । अधस्तात्कर्णसंधि । ततः श्रोत्रे । श्रोत्रपा-
र्श्वयोर्वातालके कर्णचूलिके कर्णपिप्पल्यावुचानवत्पावुचातौ चेति ॥
तत्र श्लोकः—
एते कर्णाश्रिताः शास्त्रे संख्यया दन्तिनामिह ।
त्रिंशत्प्रदेशा व्याख्याता यथावदनुपूर्वशः ॥
ग्रीवायां ग्रीवापृष्ठम् । तस्याधस्ताद्गलः । ततः कण्ठपार्श्वयोर्धमन्यौ । गल-
पार्श्वयोर्दुर्दुरौ । दुर्दुरयोरुपरि मन्ये । मन्ययोरुपरि (†गुहे । गुहाभ्यां समुद्रौ ।
समुद्रपार्श्वयोः पिण्डिके । पिण्डकयोरुपरि गुहाभागौ । तयोर्पतस्थाने) । यत-
स्थानपार्श्वयोः पाष्णिर्घातौ । पाष्णिर्घातयोरुपर्युत्सङ्गो । उरसङ्गयोरुपरि
स्कन्धः । स्कन्धमध्ये पणवकश्चेति ॥
तत्र श्लोकः—
त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः ।
ग्रीवाप्रदेशा नागानां क्रमशः शास्त्रनिश्चिताः ॥
उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः । अन्तर्मणेरधस्तादुरोमणिः । उरोमणि-
पार्श्वयोर्गात्रसंध्याश्रितो विक्षोभो । विक्षोभयोर्मध्य आवर्तमणिः । आवर्तमणेः
प्रभृति हृदयम् । हृदयादुरः । ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति ॥
तत्र श्लोकः—
प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम ।
हृदयस्थानप्रदेशान्प्रवक्ष्याम्यत उत्तरम् ॥
हृदय(ये) स्तनौ । (यं) चूचुकयोर्मध्ये क्षीरिके इति ॥
तत्र श्लोकः—
हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः ।
दश प्रदेशा व्याख्याता दन्तिनामिह संख्यया ॥
गात्रयोरासनपार्श्वयोः प्रतीकासो । प्रतीकासयोरधस्तादंसौ । अंसाधस्तात्प्र-
त्यंसौ । प्रत्यंसाधस्ताद्बाहू । बाहुमध्ययोरुपरि प्रत्यंसफलकौ । अंसफलकाध-
† धनुश्चिह्नगतं कपुस्तके न ।
स्ताद्गात्रसंधयः । संघयोरधस्तात्क्षयौ । क्षययोरधस्तात्पृष्ठतो वहिः । तयोरधः
पुरस्तात्पिण्डिकौ । पिण्डकयोरधस्ताद्वेशाखौ । वेशाखयोरधस्ताज्जवभागौ ।
जबभागयोरधस्ताद्विशेषौ । विशेषयोरधस्तादुत्सङ्गौ । उत्सङ्गयोरधस्तात्प्रो-
त्साहौ । प्रोत्साहयोरधस्तात्पर्वेणी । पर्वेण्योरधस्तात्संधानभागौ । संदानभाग-
योरधः पश्चिपादौ । तयोरधः कूर्मौ । ततो दश नखाः । ततो दश नखविशि-
खाः, दश नखाग्राणि । ततो राज्यः । ततः पश्चात्पादयोर्दश नखाः । तेषा-
मुभौ पुरोनखौ । पुरोनखद्वयस्य प्रत्येकं बहिःपार्श्वे द्वौ सनखौ । अन्तःपार्श्वे नख-
श्रा(स्रा)वौ । तेषां चतुर्णां बहिःपार्श्वतश्चत्वारः पार्श्वे नखाः । इत्येवं नखा
विंशतिः । पार्श्वनखयोरुपरि बहिःपार्श्वेऽपराजयः । अन्तःपार्श्वे नखयोरुपरि
तलमोहौ । तलमोहयोरुपरि विक्षे । विक्षयोरुपरि पलिहस्तौ । पलिहस्ताभ्य-
न्तरे निवाहू । पलिहस्तयोरधस्तात्माकर्णौ *नवहौ । पलिहस्तयोरुपर्यप-
स्कारौ । अपस्कारयोरुपरि पाद्यौ । पाद्ययोरधस्ताद्गात्रग्रहो ॥
तत्र श्लोकः—
षडेते नवतिश्चैव प्रदेशा गात्रसंश्रिताः ॥
आसनात्प्रभृति †श्रीमन्ना तलात्परिकीर्तिताः ॥
काय आसनम् । आसनात्परो वंशः । वंशपार्श्वे तलपलौ । वंशादुपरि कुवंशः ।
कुवंशस्य मध्ये पश्चिमासनम् । पश्चिमासनात्परं त्र्यस्थि । तस्योभयपार्श्वयोरु-
त्कृष्टौ । अस्यः परो लाङ्गूलवंशः । पश्चिमवंश इत्येके । अपरवंश इत्यपरे ।
लाङ्गूलवंशस्याधस्ताल्लाङ्गूलसंधिः । लाङ्गूलसंधेरधस्तात्पेचकः । पेचकाधस्ता-
द्गुदः । पायुरित्येके । गुदाधस्तात्करीषस्रावः । कायस्य मध्ये कक्षाभागौ ।
कक्षाभागपार्श्वयोः करणौ । ततः पृष्ठतः पादौ पत्र प्रतिबद्धाः पर्युकाः । पक्ष-
योरुपर्यवतारौ । पक्षपश्चाद्भागयोः कुक्षी । कुक्षिमध्ये निष्कोसौ । ततः
संकोसौ । तयोरुपरि मृदुकुक्षी । वंशस्य पश्चाद्भागाश्रितौ पक्षसंधी । ततः पक्षयो-
रधस्तादायामकाण्डौ । तयोरधः कक्षौ । आयामकाण्डयोः पश्चादपरसंधिः ।
अपरसंधेरधस्तादनुसारी । तत्र आहृदयाज्जठरम् । जठरमध्ये कोशम् । कोशस्या-
ग्रतो नाभिः । तत एव हृदपादानुस्रुतान्तरं स्तनाः । तस्याः पार्श्वे स्तनौ ।
उत्कृष्टसंधयोरधस्तादुत्कृष्टसंधी इति ॥
तत्र श्लोकः—
* निवाह्वोः पलिहस्तयोरिति भवेत् । † 'श्रीमन्ना तलात्' इति भवेत् ।
१ ख. प्रोत्सयो° । २ क. प्रदेशे ।
्योरधस्तात्तलप्रोहो- wait, the first syllable isप्र, second is हो? Wait, is it तलप्रहोorतलप्रोहो? Look at the letter after ल: it has प्र(noो!), then हो. So तलप्रहो! Wait, in line 7: पाष्ण्योरधस्तात्तलप्रहो तयोरभ्यन्तरपार्श्वे कचाः । बहिःपार्श्वे राज्यः । तलप्रो- हयोरधस्तात्तलकर्णौ । Ah! Line 7 hasतलप्रहो, and at the end of line 7 it has तलप्रो-, and line 8 has हयोरधस्तात्! So one is तलप्रहो, the other is तलप्रोहयो-`! That's an inconsistency in the print, perfectly typical.
Check Line 16:
मेढ्रर्नस्तलः ।
Wait, is there a footnote marker?
Footnote 4 says: ४ क. ॰नस्तानळः ।
In text: मेढ्रर्नस्तलः ।
Wait, is मेढ्रर्नस्तलः or मेढ्रनस्तलः?
Look at मेढ्रर्नस्तलः: मेढ्र + र्नस्तलः with a repha over