सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 540, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 540

२१ लूताध्यायः ] हस्तिआयुर्वेदः । ५२९
अथ षड्विंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कथं लूताः संभवन्ति वारणानां महामुने ॥ १ ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अतो लूताः प्रवक्ष्यन्ते भासकरानुचराश्च ताः ॥ २ ॥
तासां लालाः प्रति प्राप्ता विनाशयति वारणम् ॥
मालती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि ॥ ३ ॥
अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी ॥
कुम्भे च प्रोभवा नाम विद्धेश्च हरिणी स्मृता ॥ ४ ॥
आसने विजया नाम इयामा ज्ञेया तथोरसि ॥
ओंष्ठीव्ये मधुका नाम धनुर्नामा तु या मुखे ॥ ५ ॥
अंसयोरपि कापोती सुभगा दन्तवेष्टयोः ॥
मण्डे गृधनसी नाम पांशुका गात्रयोरपि ॥ ६ ॥
कर्णिकारी भवेत्प्रोहे कोशे च कुंकुटी स्मृता ॥
अक्षिका तल्पले चैव मेढ्रे वसुमती तथा ॥ ७ ॥
नाभ्यां पुष्करमध्ये तु स्वगता रन्ध्रदेशयोः ॥
नाम्ना गुल्मवती नाम मस्तकेषीकयोर्देशेत् ॥ ८ ॥
एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः ॥
सर्वाः संमोहसंसाहव्यापत्सु परिकीर्तिताः ॥ ९ ॥
सर्वासु च भ्रमच्छर्दिस्तृष्णादाहसमुद्भवाः ॥
विशेषान्मस्तकेषीकास्तनगण्डकटाँक्षिषु ॥ १० ॥
स्तनान्तराण्डकोशांसतल्पलेष्वप्रतिक्रिया ॥
धूम्रभ्रमरशुश्राभ्रपक्कोडुम्बरसंनिभाः ॥ ११ ॥
कटुकाश्च कपोताश्च कर्णिकारोन्भास्तथा ॥
वदान्त वर्णतो लूतास्तासां कुर्यात्क्रियां भिषक् ॥ १२ ॥
तां छिन्द्यान्मण्डलाग्रेण प्रोत्क्षिप्य बडिशेन तु ॥
ताश्चाग्निना दहेत्सम्यक्कुर्याच्चाऽऽशु प्रलेपनम् ॥ १३ ॥
१ क. प्रावता । २ क. ख. विद्वेश्च । ३ क. ज्ञेया । ४ क. ख. आधीघे । ५
क. कुर्कुटी । ६ क. ख. ॰योर्द्दशेत् । ७ क. ॰द्यादिषु ।
६७