हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 543, कुल 742 में से
संदर्भ में पढ़ें५२४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने—
यावन्त्येतानि सर्वाणि घृतं तावत्प्रदीपयेत् ॥
तत्सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ॥ २० ॥
एवं तु पाययेन्नागं विषं तेन प्रशाम्यति ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनार्थ नोदितः ॥ २१ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
सप्तविंशो विषकीटचिकित्साध्यायः ॥ २७ ॥
अथाष्टाविंशोऽध्यायः ।
अथ व्यालेन दष्टस्य लक्षणं वारणस्य च ॥
चिकित्सां च महाराज शृणु कीर्तयतो मम ॥ १ ॥
व्यालो यदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥
वातमूर्छानिदानानि द्विरदः कुरुते तदा ॥ २ ॥
व्यालवद्भ्रमते क्रुद्धो वित्रसेच्च जलाशयात् ॥
व्यापन्नचित्तश्च गजो मूर्छते व्यथतेऽपि च ॥ ३ ॥
एतल्लक्षणविज्ञानं चिकित्साऽतः प्रवर्तते ॥
दहेच्छलाकया तस्य दंशां भिषगतन्द्रितः ॥ ४ ॥
समन्ताच्चापि दष्टस्य कार्यं शोणितमोक्षणम् ॥
तस्य कार्यं विशेषेण रात्रिक्षिप्तचिकित्सितम् ॥ ५ ॥
या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत् ॥
धूपाञ्जनाभ्यङ्गविधेस्तस्य रक्षोघ्नमिष्यते ॥ ६ ॥
काश्यपस्य मताच्छेषं चिकित्सितमुपाचरेत् ॥
अनाविष्टश्चिकित्स्यः स्यादाविष्टश्च न सिध्यति ॥ ७ ॥
तत्र श्लोकः—
इक्षुविकारः पललं तिलतैलं क्षारमार्कमिति ॥
पीतं सद्यो विषामह शुष्काभ्रमिवानिलः क्षिपति ॥ ८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
व्यालदष्टो नामाष्टाविंशोऽध्यायः ॥ २८ ॥
१ क. ष्टस्य न । २ क. विषं हन्ति शु० ।