हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 545, कुल 742 में से
संदर्भ में पढ़ें५२६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
तत्र श्लोकः—
इत्येते त्वभिविज्ञेयाः प्रदेशा दन्तयोर्दश ।
यथावदनुपूर्वेण शिक्षाविद्भिरुदाहृताः ॥
बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्योपरि
मध्ये मुखस्य वाहित्थम् १ । तस्य पार्श्वयोर्विलागौ । विलागयोरुपरि कर्कटम-
ध्ययोः कटस्रोतसी । कटस्रोतसोरधस्तात्कटप्रस्रावौ । कटप्रस्रावयोरधस्ता-
द्गण्डौ । गण्डयोरधस्तात्कपोलौ । कपोलयोर्मध्ये रोमकूर्चौ । रोमकूर्चयोरध-
स्ताद्धनू । हन्वोरधस्तात्सगदे । तयोः संधिः सगदासंधिः । एतयोरन्तरं सग-
दान्तरम् । कटयोः पार्श्वतो घाटे । घाटयोरुपरि कटसंधी । कटसंध्याश्रितौ
श्रवणाविति ॥
तत्र श्लोकः—
त्रयस्त्रिंशदिह प्रोक्ताः प्रदेशा मुखमाश्रिताः ॥
प्रतिमानप्रभृत्येते क्रमशः शास्त्रनिश्चिताः ॥
चक्षुषोरक्षिगुहे । अक्ष्णोरुपर्यक्षिकूटौ । अक्ष्णोरधस्तादक्षिस्रावौ ।
अक्ष्णोः पूर्वभागयोः कनीनिके । पश्चाद्भागयोरपाङ्गौ । पक्ष्ममण्डले वर्त्ममण्डले
शुक्रमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्रसंधी शुक्लकृष्ण-
संधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥
तत्र श्लोकः—
प्रदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः ।
दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः ॥
शिरसि वाहित्थम् । वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भान्त-
रम् । एतस्याग्रे कुम्भस्योपरि बिम्बकौ । बिम्बकपार्श्वयोः पाकले । अक्षिकू-
टोपरीषीके । इषीकयोर्मध्य इषीकान्तरादूर्ध्वं इषीकाग्रे । इषीकाग्रयोर्बहिः
पार्श्वे निर्याणम् । पार्श्वयोरधस्तान्निर्याणसंधी । निर्याणसंध्योरूर्ध्वं बिम्बकस्यो-
परीषीकाग्रमध्ये तिर्यगायतोऽवग्रहः । अवग्रहस्योपरि पुरस्कारः । पुरस्कारस्यो-
परि निर्याणम् । तयोरन्तर उभता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवर्त्या
उपरि मस्तको । मस्तकयोर्मध्ये बिंदुः । मस्तकयोर्बहिःपार्श्वयोर्विताने निर्या-
णयोः पश्चात्पार्श्वयोः कूर्ममस्तकसंघी केशाश्चेति ॥
तत्र श्लोकः—
१ क. ख. प्रदेशे । २ क. ख. ॰वगाहः । ३ क. ख. विदू ।