सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 538, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 538

२१. अग्निदग्धचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ६१९
अथ पञ्चविंशोऽध्यायः ।
अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्नग्निदग्धानां वारणानां महामुने ॥ १ ॥
व्रणा देशेषु जायन्ते नानासंस्थानवर्णकाः ॥
तेषां रूपं चिकित्सां च ब्रवीतु भगवान्मम ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
तत्राग्निदग्धो द्विविधस्त्वग्गतः स्फोट एव च ॥ ३ ॥
द्रवात्स्थिराच्च विज्ञेयः स तु दाहो नराधिप ॥
भवेज्ज्ञेतुमधूच्छिष्टसगुदामेद्ययावकैः ॥ ४ ॥
अङ्गराशीविषाभ्यां च तथाऽशनिनिपातः ॥
दाहयोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम ॥ ५ ॥
विकल्पतः पञ्चविधो राजन्दाहः प्रकीर्तितः ॥
परंपरादिद्रव्येभ्यस्तथाऽऽदित्याग्निसेवनात् ॥ ६ ॥
ज्वालाबाष्पैश्च नागानां दग्धमुत्पद्यते नृप ॥
तत्र वैद्यो यथाशास्त्रं कर्म कुर्यादतन्द्रितः ॥ ७ ॥
परिषेकं प्रदेहं च चूर्णं तैलं घृतं वसाम् ॥
अतिदग्धस्य नागस्य यथाक्रमं सुखोदकम् ॥ ८ ॥
मे(इ)क्षुरसं पयश्चैव मधुकं च सशर्करम् ॥
तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः ॥ ९ ॥
एष कार्यो भवेत्सेको वैद्यैः संनिहितैः सदा ॥
एतेन दाहो रोगश्च वेदना च प्रशाम्यति ॥ १० ॥
अतः प्रलेपं कुर्वीत मधुपर्णी शतावरी ॥
तालीसपत्रमञ्जिष्ठातिलांश्चोतेन लेपयेत् ॥ ११ ॥
ततः सयष्टीमधुकं सर्वमालोड्य भाजने ॥
प्रलेपं कारयेद्वैद्यस्त्वग्निदग्धप्रशान्तये ॥ १२ ॥
एवमेवानुपूर्वेण कुर्यादालेपनं भिषक् ॥
अश्वत्थोदुम्बरप्लक्षान्मधुकं काकजम्बुकम् ॥ १३ ॥
१ क. च प्रब्रवीतु भवा° । २ ख. °जन्तुम° । ३ क. ख. °च्छिष्टे स° ।
४ क. °लाश्वेते° ।